306

तत्राशीर्यथा—

‘भूयाद्वः श्रेयसे देवः पार्वतीदयितो हरः ।
पातु वः परमं ज्योतिरवाङ्मनसगोचरः ॥ ३८४ ॥’

अत्राशंसायां लिङ् लोट् च । तदिदं वाक्यद्वयमाशीः ॥

नान्दी यथा—

‘भद्दं भोदु सरस्सईअ कइणो णन्दन्तु वासाइणो अण्णाणं पि परं पअट्ठदु वरा वाणी छइल्लप्पिआ ।
वच्छोभी तह माअही फुरदु णो सा किं अ पञ्चालिआ रीदीयो विलिहन्तु कव्वकुसला जोण्हं चओरा विअ ३८५
[भद्रं भवतु सरस्वत्याः कवयो नन्दन्तु व्यासादयः, अन्येषामपि परं प्रवर्ततां वरा वाणीविदग्धप्रिया ।
वैदर्भी तथा मागधी स्फुरतु नः सा किं च पाञ्चालिका रीतिका विलिहन्तु काव्यकुशला ज्योत्स्नां चकोरा इव ॥]

सेयं रङ्गमङ्गलान्तं स्वस्त्ययनं नान्दी ॥

नमस्कृतिर्यथा—

‘जयति ब्रह्मभूः शंभुर्वन्देमहि महेश्वरम् ।
इदं गुरुभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे ॥ ३८६ ॥’

सेयं स्तुतिर्नमस्क्रिया च नमस्कृतिरेव भवति ॥

वस्तुनिर्देशो यथा—

‘अस्त्युद्दामजटाभारभ्रान्तगङ्गाम्बुशेखरः ।
आदिदेवो हरो नाम सृष्टिसंहारकारणम् ॥ ३८७ ॥’

सोऽयं कथाशरीरव्यापिनो वस्तुनो नायकस्य निर्देशो वस्तुनिर्देशः ॥