308

ताण्डवं यथा—

‘सुअवहवइअरणिसुणिअ दारुणुरोसविसट्ठपहाररुहिरारुणु ।
जलिउ जाणइ णरु रिउसन्तावणु अणलसरिच्छ जइ होइ महारणु ३९१’
[सुतवधव्यतिकरं निशम्य दारुणरोषविसृष्टप्रहाररुधिरारुणः ।
ज्वलितो जायते नरो रिपुसंतापनोऽनलसदृशो यदि भवति महारणः ॥]

इदं वीररसप्रधानत्वात्ताण्डवम् ॥

छलिकं यथा—

‘णिसुणिउ पच्छा त्तुरअरउ भुण्डि हिंसि हसन्ति ।
णिअकन्तं डाढजुअलेहिं पुणु पुणु ण अ बलन्ति ॥ ३९२ ॥’
[निशम्य पश्चात्तुरगरवं शूकरी हिंसार्थं हसति ।
निजकान्तं दंष्ट्रायुगलेन पुनः पुनर्न च दशति ॥]

इदं तु शृङ्गारवीररसप्रधानत्वाच्छलिकम् ॥

सम्पा यथा—

‘वीहेसि हरिमुहि अवि होहि मं गले लेहि सइ ।
कन्दइ रिट्टासुरमारिउ कण्ठवलिउ ण पइ ॥ ३९३ ॥’
[विभेषि हरिमुखि अपि भव मां च गले गृहाण सदा ।
क्रन्दति रिष्टासुरमारितः कण्ठवलितो न पतिः ॥]

तदिदं छलिकमेव किन्नरविषयं सम्पा ॥

हल्लीसकं यथा—

‘चन्दणधूसरअं आहुलिअलोअणअं हासपरम्मुहअं णीसासकिलालिअम् ।
दुम्मणदुम्मणअं सङ्कामिअमण्डणअं माणिणिआणणअं किंतुह्मकरट्ठिअअम्
[चन्दनधूसरमाकुलितलोचनं हासपराङ्मुखं निश्वासिक्लेशितम् ।
दुर्मनसां दुर्मनस्कं संक्रामितमण्डनं मानिन्याननं किं तव करस्थितम् ॥]