168

पूर्ववाक्योपकारित्वेनेति । देवे पीयूषाकृति तत्त्वान्तरं तिग्मं धाम चकास्तीति च यदगाधतया तर्कितमिति किलशब्दकटाक्षितमभिधानम् । तत्र किं संबन्धमित्याकाङ्क्षाविपूरकं तत्रास्तीत्यादि वाक्यम् । तथा हि—‘य एष आदित्यपथं व्याप्य पुरुषो दीप्यते’ इत्याद्युपनिषदर्थनिवेशनमभिप्रायपूर्वकमाभासते । एतेनान्येऽपि वाक्यप्रकाश्यप्रकाराः परिगृहीता बोद्धव्याः । पूर्वं वाक्येऽन्तर्भावितद्वित्वमवसेयमिति ॥

विभक्तिमुद्रा यथा—

‘श्रियः प्रदुग्धे विपदो रुणद्धि यशांसि सूते मलिनं प्रमार्ष्टि ।
संस्कारशौचेन परं पुनीते शुद्धा हि बुद्धिः किल कामधेनुः ॥ ४५ ॥’

अत्र प्रदुग्धे, रुणद्धि, सूते, प्रमार्ष्टि, पुनीते, इति तिङ््विभक्तीनां ‘दुहिपच्योर्बहुलं सकर्मकयोरुपसंख्यानम्’ (३।१।८७ वा॰), 'रुधादिभ्यः श्नम्’ (३।१।७८) इत्यादिभिर्विशेष122लक्षणयोगैः परस्मैपदात्मनेपदपर्यायेण निवेशो दृश्यते । श्रियः, विपदः, यशांसि, मलिनं संस्कारशौचेन, इति च सुब्विभक्तीनाम् ‘अचि श्नुधातुभ्रुवां य्वोरियङुवङौ’ (६।४।७७) इत्यादिविशेष123लक्षणवतीनामविकृतविकृतानां मङ्गलामङ्गलार्थ124परत्वेन 125मङ्गलाद्यर्थानामभिप्रायतः प्रयोगो लक्ष्यते । तेनेयं विभक्तिमुद्रा भवति ॥

श्रिय इति । बुद्धिरूपा कामधेनुः श्रियः प्रथयतीत्युक्ते न तथा प्रकर्षः, यथोक्ते तु विशिष्टः कवेरभिप्राय उन्नीयते । तथा हि—यथोदुम्बरः स लोहितं फलं पच्यत इति कर्मकर्तरि फलोदुम्बरयोरैकात्म्यभवसीयते तथेहापि श्रीरूपमात्मानं बुद्धिः प्रकाशयतीति । अत एव हि ‘दुहिपच्योर्बहुलं सकर्मकयोः’ (वा ३।१।८७) इति बाह्यकर्मविशिष्टस्यैव कर्तुः कर्मवद्भावः शिष्यते । ‘न दुहस्नुनमां यक्चिणौ’ (३।१।८९) इति यगभावोऽपि विशेषाभिप्रायनियत एव रुणद्धीत्यागमरूपः । सूते इति लुप्तः । प्रमाष्टींति बृद्धियोजकः । पुनीते इति स्वरूपेण विकृतश्च

  1. ‘लक्षणवतीनां योगैः’ क
  2. ‘लक्षणवतीनां योगैः’ क
  3. ‘पदपरत्वेन’ इति टीकासंमतः पाठः
  4. ‘मङ्गलार्थानाम्’ क