विधिनिषेधज्ञानादिति । विहितनिषिद्धक्रियाज्ञानेन तत्फलसंबन्धयोग्यत्वमधिकारः । शुश्रूषस्वेति, भूयिष्ठं भव दक्षिणेति द्वे विहिते । मा स्म प्रतीपं गम इति, भोगेष्वनुत्सेकिनीति द्वे निषिद्धे । विधिनिषेधयोग्यता विधिनिषेधफलसंबन्धयोग्यत्वम् । गृहिणीपदप्राप्तिर्विहितक्रियाफलम् । कुलाधीभवनं तु निषिद्धक्रियाफलमिति ॥