174

तत्र योगरूढिपरम्परादिनिमित्ता पदयुक्तिर्यथा—

‘प्राच्यां निर्जितजम्भजिद्द्वपशिरः सिन्दूरशोभं दिशि प्रत्याख्यातहयाङ्गनास्यहुतभुग्ज्योतिः प्रतीच्यर्णवे ।
प्रातर्जातमदोन्मिषत्कमलिनीकिञ्जल्ककल्कोद्भटं भानोः पूर्णनभःकटाहकुहरक्रोडं, महः पातु वः ॥ ५३ ॥’

अत्र जम्भजिद्द्विप इति योगरूढिपरम्परा, हयाङ्गनास्यहुतभुगिति पर्यायपरम्परा, प्रातर्जातमदोन्मिषत्कमलिनीकिञ्जल्ककल्कोद्भटमिति हेतुपरम्परा, नभःकटाहकुहरक्रोडमित्यङ्गाङ्गिगभावपरम्परा च परिस्फुरन्ती दृश्यते ॥

प्राच्यामिति । जम्भजित्पदं कृदन्तत्वाद्यौगिकम् । तथा जम्भजिद् द्विप इत्यपि समासत्वात् । तदेतदुभयं योगेनातिप्रयुज्यमानं निरूढिद्वयेन विवक्षितैरावतरूपे वस्तुनि नियम्यते । हयाङ्गनेति वडवापर्यायः । आस्यमिति मुखपर्यायः । हुतभुगित्यनलपर्यायः । सेयं पदपरम्परापर्यायताप्रतिसंधानेनाभिमतवडवामुखानलप्रतीतिं करोति । मदस्य किञ्जल्कोन्मेषे तस्य कल्के तस्याप्युद्भटतायां हेतुभाव इति कार्यकारणपरम्परा । नभःकटाहोऽङ्गी । तस्याङ्गमेकदेशः कुहरं तस्यापि क्रोड इत्यङ्गाङ्गिगपरम्परा च यथाभिमतपदैकवाक्यतानिदानमिति तदेतद् व्याचष्टे—अत्रेति । परिस्फुरन्ती कविशक्तिव्यञ्जकतया सहृदयहृदयेषु प्रतिफलति ॥

विरुद्धजात्यादियोगनिमित्ता पदार्थयुक्तिर्यथा—

‘तन्नागेन्द्रकरोरुदोःकरिशिरःपीनस्तनांसं वपुः स्त्रीपुंसाकृति यत्पितुस्तव मुखे रम्योग्रमीक्षामहे ।
वाराह्या इति नर्मणीभवदनः पश्यन्यदास्या मुखं नाभिष्टौति हसन्न निन्दति तदा श्लिष्टोऽम्बया पातु वः ॥ ५४ ॥’

अत्र स्त्रीपुंसाकृतीति विरुद्धजातियोजना, नाभिष्टौति न निन्दतीति विरुद्धक्रियायोजना, रम्योग्रमिति विरुद्धगुणयोजना, मुखे वपुरीक्षामहे इति विरुद्धद्रव्ययोजना च लक्ष्यते ॥