176 गर्भबिमर्शनिर्वहणाख्याः पञ्च । प्रकृतरसावस्थारूपाणि च पञ्चैव । बीजबिन्दुपताकाप्रकरीकार्याणि तत्तत्प्रकरणप्रबन्धरूपवाक्यैकदेशयोजनान्यवगन्तव्यानि ॥

यत्तत्तदाद्युपादाननिमित्ता वाक्यार्थयुक्तिर्यथा—

‘तिष्ठ द्वारि भवाङ्गणे व्रज बहिः सद्मेति वर्त्मेक्षते शालामञ्च तमङ्गमञ्च वलभीमञ्चेति वेश्माञ्चति ।
दूतिं संदिश संदिशेति बहुशः संदिश्य सास्ते तथा तल्पे कल्पमयीव निर्घृण यथा नान्तं निशा गच्छति ॥ ५६ ॥’

अत्र प्रथमपादे क्रियासमुच्चयः, द्वितीये क्रियाभ्यासः, तृतीये दूतीं संदिश संदिशेति यावत्क्रियासमभिहारः । शेषे तु तथा सास्ते यथा निशान्तं न गच्छतीति यत्तदोरुपादानं वाक्यार्थयुक्तेर्हेतुः प्रतीयते । सेयमुक्तलक्षणा वाक्यार्थयुक्तिर्भवति ॥

अश्रद्धेयपर्वतादिवर्णनोपपत्तिहेतुः प्रकरणविषया यथा—

‘मुदे मुरारेरमरैः सुमेरोरानीय यस्योपचितस्य शृङ्गैः ।
भवन्ति नोद्दामगिरां कवीनामुच्छ्रायसौन्दर्यगुणा मृषोद्याः ॥ ५७ ॥’

प्रबन्धव्यापिवस्तूपपत्तेर्हेतुस्तु प्रबन्धविषया युक्तिर्भवति । सा यथा—

‘धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः संदेशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः ।
इत्यौत्सुक्यादपरिगणयन्गुह्यकस्तं ययाचे कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ ५८ ॥’

तिष्ठेति । उपस्थितिसमयसीमामतिक्रामति प्रियतमे तत्कालद्विगुणितोत्कण्ठातरलितान्तःकरणः कदाचित्प्रागिव गर्भगृहद्वारि तिष्ठति । ततस्तत्रानवलोकमाना गृहाङ्गणे भवति । तदनन्तरं वेश्मनो बहिर्व्रजति । सोऽयं विजातीयक्रियार्थनानाधातुगोचरः सर्वकालेषु ‘समुच्चयेऽन्यतरस्याम्’ (३।४।३) इति लोटो हिरनुशिष्यते । अत एव दर्शनावच्छेदभूतद्वारावस्थानादिसामान्यवचनः ‘समुच्चये सामान्यवचनस्य’ (३।४।५) इत्यनुशासनान्नियमितप्रयुक्तिरीक्षतिरनुप्रयुज्यते । नायकस्य सर्वथा हृदय