178 प्रसङ्गे निषेधरूपा भणितिर्बहिरसंभाविनः क्वचिदसतो विशेषस्योत्प्रेक्षाकल्पना । तामाश्रयन्ती विधाननिषेधमात्रेण चरितार्था किंचिद्विशेषं विदधातीति विधिनिषेधप्रसङ्गे सामान्यतः प्रतिषेधति विशेषतश्च विधत्त इति निषेधविधिरूपा कल्पना भणितिः ॥

अत्र संभवभणितिर्यथा—

‘सद्योद्रावितकेतकोदरदलस्रोतःश्रियं बिभ्रती येयं मौक्तिकदामगुम्फनविधेर्योग्यच्छविः प्रागभूत् ।
उत्सेक्या कलशीभिरञ्जलिपुटैः पेया मृणालाङ्कुरैर्मातव्या च शशिन्यमुग्धविभवे सा वर्तते चन्द्रिका ॥ ५९ ॥’

अत्र ज्योत्स्नायाः सद्योद्रावितकेतकोदरदलस्रोतःसादृश्यादिसंभवादियं संभवभणितिर्द्विरूपा ॥

सद्य इति । केतकोदरदलानां द्रावणम्, ततः स्रोतोरूपता, ततस्तेनोपमिताया बहलतरबहिर्भागस्य कलशीभिरुत्सेचनम्, अनन्तरं किंचिदल्पीभूतमध्यभागस्य करतलाञ्जलिपुटैर्मानम्, ततः शेषीभवतः सारभागस्य मृणालाङ्कुरैः पानमिति बहिरसंभाविन एव श्रियं बिभ्रतीति निदर्शनया योग्यपदेनौत्सेक्येत्यादिभिश्चमत्कारिणी संभावना जायते ॥

असंभवभणितिर्यथा—

‘क्व पेयं ज्योत्स्नाम्भो वदनबिसवल्लीसरणिभिर्मृणालीतन्तुभ्यः सिचयरचना कुत्र भवति ।
क्व वा पारीमेयो बत बकुलदाम्नां परिमलः कथं स्वप्नः साक्षात्कुवलयदृशं कल्पयतु ताम् ॥ ६० ॥’

अत्र ज्योत्स्नादीनां मृणालादिभिः पेयत्वादेरसंभवादियमसंभवभणितिर्निषेधरूपा ॥

क्व पेयमिति । स्वप्नस्य साक्षात्कल्पने सामर्थ्यमसंभावितं तदेवमेवोच्यमानं तथा शोभामुन्मीलयतीति क्व पेयमित्यादि प्रतिवस्तुना निर्देशव्यङ्ग्यारक्तिसुषमाविस्तारं कुर्वाणा भवत्यसंभवभणितिः । पारी भाण्डभेदः ॥