Adhikāra 29

लघ्वन्नं दीपनं स्निग्धमुष्णं वातानुलोमनम् ।
बृंहणं यद्भवेत्सर्वं तद्धितं सर्वगुल्मिनाम् ॥ १ ॥
134-b
स्निग्धस्य भिषजा स्वेदः कर्तव्यो गुल्मशान्तये ।
स्रोतसां मार्दवं कृत्वा जित्वा मारुतमुल्बणम् ॥ २ ॥
भित्वा विबद्धं स्निग्धस्य स्वेदो गुल्ममपोहति ।
कुम्भीपिण्डेष्टकास्वेदान्कारयेत्कुशलो भिषक् ॥ ३ ॥
उपानाहाश्च कर्तव्याः सुखोष्णाः शाल्वणादयः ।
स्थानावसेको रक्तस्य बाहुमध्ये शिराव्यधः ॥ ४ ॥
स्वेदानुलोमनं चैव प्रशस्तं सर्वगुल्मिनाम् ।
पेया वातहरैः सिद्धाः कौलत्था धन्वजा रसाः ॥ ५ ॥
खंडाः सपञ्चमूलाश्च गुल्मिनां भोजने हिताः ।
मातुलुङ्गरसो हिङ्गु दाडिमं बिडसैन्धवम् ॥ ६ ॥
सुरामण्डेन पातव्यं वातगुल्मरुजापहम् ।
नागरार्धपलं पिष्टं द्वे पले लुञ्चितस्य च ॥ ७ ॥
तिलस्यैकं गुडपलं क्षीरेणोष्णेन पाययेत् ।
वातगुल्ममुदावर्तं योनिशूलं च नाशयेत् ॥ ८ ॥
पिवेदेरण्डतैलं वा वारुणीमण्डमिश्रितम् ।
तदेव तैलं पयसा वातगुल्मी पिबेन्नरः ॥ ९ ॥
साधयेच्छुद्धशुष्कस्य लशुनस्य चतुःपलम् ।
क्षीरोदकेऽष्टगुणिते क्षीरशेषं च पाययेत् ॥ १० ॥
वातगुल्ममुदावर्तं गृध्रसीं विषमज्वरम् ।
हृद्रोगं विद्रधिं शोषं शमयत्याशु तत्पयः ॥ ११ ॥
एवं तु साधिते क्षीरे स्तोकमप्यत्र दीयते ।
सर्जिकाकुष्ठसहितः क्षारः केतकिजोऽपि वा ॥ १२ ॥
तैलेन पीतः शमयेद्गुल्मं पवनसम्भवम् ।
135-a
वातगुल्मे कफे वृद्धे वान्तिश्चूर्णादिरिष्यते ॥ १३ ॥
पैत्ते तु रेचनं स्निग्धं रक्ते रक्तस्य मोक्षणम् ।
स्निग्धोष्णेनोदिते गुल्मे पैत्तिके स्रंसनं हितम् ॥ १४ ॥
रूक्षोष्णेन तु सम्भूते सर्पिः प्रशमनं परम् ।
काकोल्यादिमहातिक्तवासाद्यैः पित्तगुल्मिनम् ॥ १५ ॥
स्नेहितं स्रंसयेत्पश्चाद्योजयेद्बस्तिकर्मणा ।
स्निग्धोष्णजे पित्तगुल्मे कम्पिल्लं मधुना लिहेत् ॥ १६ ॥
रेचनार्थी रसं वापि द्राक्षायाः सगुडं पिबेत् ।
दाहशूलाऽनिलक्षोभस्वप्ननाशारुचिज्वरैः ॥ १७ ॥
विदह्यमानं जानीयाद्गुल्मं तमुपनाहयेत् ।
पक्वे तु व्रणवत्कार्यं व्यधशोधनरोपणम् ॥ १८ ॥
स्वयमूर्ध्वमधो वापि स चेद्दोषः प्रपद्यते ।
द्वादशाहमुपेक्षेत रक्षन्नन्यानुपद्रवान् ॥ १९ ॥
परं तु शोचनं सर्पिः शुद्धं समधुतिक्तकम् ।
रोहिणी कटुका निम्बं मधुकं त्रिफलात्वचः ॥ २० ॥
कर्षांशास्त्रायमाणा च पटोलत्रिवृतापले ।
द्विपलं च मसूराणां साध्यमष्टगुणेऽम्भसि ॥ २१ ॥
घृताच्छेषं घृतसमं सर्पिषश्च चतुःपलम् ।
पिवेत्संमूर्च्छितं तेन गुल्मः शाम्यति पैत्तिकः ॥ २२ ॥
ज्वरस्तृष्णा च शूलं च भ्रममूर्च्छारतिस्तथा ।
दीप्ताग्नयो महाकायाः स्नेहसात्म्याश्च ये नराः ॥ २३ ॥
135-b
गुल्मिनः सर्पदष्टाश्च विसर्पोपहताश्च ये ।
ज्येष्ठां मात्रां पिबेयुस्ते पलान्यष्टौ विशेषतः ॥ २४ ॥
लङ्घनोल्लेखने स्वेदे कृतेऽग्नौ संप्रधुक्षिते ।
घृतं सक्षारकटुकं पातव्यं कफगुल्मिना ॥ २५ ॥
मन्दोऽग्निर्वेदना मन्दा गुरुस्तिमितकोष्ठता ।
सोत्क्लेशा चारुचिर्यस्य स गुल्मो वमनोपमः ॥ २६ ॥
मन्देऽग्नावनिले मूढे ज्ञात्वा सस्नेहमाशयम् ।
गुडिकाश्चूर्णनिर्यूहाः प्रयोज्याः कफगुल्मिनाम् ॥ २७ ॥
क्षाराऽरिष्टगणश्चापि दाहशोषे विधीयते ।
पञ्चमूलीकृतं तोयं पुराणं वारुणीरसम् ॥ २८ ॥
136-a
कफगुल्मी पिबेत्काले जीर्णं माध्वीकमेव वा ।
तिलैरण्डातसीबीजसर्षपैः परिलिप्य वा ॥ २९ ॥
श्लेष्मगुल्ममयःपात्रैः सुखोष्णैः स्वेदयेद्भिषक् ।
यमानीचूर्णितं तक्रं बिडेन लवणीकृतम् ॥ ३० ॥
पिबेत्सन्दीपनं वातमूत्रवर्चोऽनुलोमनम् ।
व्यामिश्रदोषे व्यामिश्रः सर्व एव क्रियाक्रमः ॥ ३१ ॥
सन्निपातोद्भवे गुल्मे त्रिदोषघ्नो विधिर्हितः ।
वचाबिडाभयाशुण्ठीहिङ्गुकुष्ठाग्निदीप्यकाः ॥ ३२ ॥
द्वित्रिषट्चतुरेवाष्टसप्तपञ्चाशिकाः क्रमात् ।
चूर्णमद्यादिभिः पीतं गुल्मानाहोदरापहम् ॥ ३३ ॥
शूलार्शः श्वासकासघ्नं ग्रहणीदीपनं परम् ।
यमानीहिङ्गुसिन्धूत्थक्षारसौवर्चलाभयाः ॥ ३४ ॥
सुरामण्डेन पातव्या गुल्मशूलनिवारणाः ।
136-b
हिङ्गु त्रिकटुकं पाठां हपुषामभयां शठीम् ॥ ३५ ॥
अजमोदाजगन्धे च तिन्तिडीकाम्लवेतसौ ।
दाडिमं पौष्करं धान्यमजाजीं चित्रकं वचाम् ।
द्वौ क्षारौ लवणे द्वे च चव्यं चैकत्र चूर्णयेत् ॥ ३६ ॥
चूर्णमेतत्प्रयोक्तव्यमन्नपानेष्वनत्ययम् ।
प्राग्भक्तमथवा पेयं मद्येनोष्णोदकेन वा ॥ ३७ ॥
पार्श्वहृद्बस्तिशूलेषु गुल्मे वातकफात्मके ।
आनाहे मूत्रकृच्छ्रे च गुदयोनिरुजासु च ॥ ३८ ॥
ग्रहण्यर्शोविकारेषु प्लीह्नि पाण्ड्वामयेऽरुचौ ।
उरोविबन्धे हिक्कायां श्वासे कासे गलग्रहे ॥ ३९ ॥
भावितं मातुलुङ्गस्य चूर्णमेतद्रसेन वा ।
बहुशोगुडिकाः कार्याः कार्षिकाः स्युस्ततोऽधिकम् ॥ ४० ॥
पूतीकपत्रगजचिर्भटिचव्यवह्नि-
व्योषं च संस्तरचितं लवणोपधानम् ।
दग्ध्वा विचूर्ण्य दधिमण्डयुतं प्रयोज्यं
गुल्मोदरश्वयथुपाण्डुगदोद्भवेषु ॥ ४१ ॥
हिङ्गुपुष्करमूलानि तुम्बुरूणि हरीतकीम् ।
श्यामा बिडं सैन्धवं च यवक्षारं महौषधम् ॥ ४२ ॥
यवक्वाथोदकेनैतद्धृतभृष्टं तु पाययेत् ।
तेनास्य भिद्यते गुल्मः सशूलः सपरिग्रहः ॥ ४३ ॥
वचा हरीतकी हिङ्गु सैन्धवं साम्लवेतसम् ।
यवक्षारं यमानीं च पिबेदुष्णेन वारिणा ॥ ४४ ॥
137-a
एतद्धि गुल्मनिचयं सशूलं सपरिग्रहम् ।
भिनत्ति सप्तरात्रेण बह्नेर्दीप्तिं करोति च ॥ ४५ ॥
पिप्पलीपिप्पलीमूलचित्रकाजाजिसैन्धवैः ।
युक्ता पीता सुरा हन्ति गुल्ममाशु सुदुस्तरम् ॥ ४६ ॥
नादेयीकुटजार्कशिग्रु बृहती-
स्नुग्बिल्वभल्लातक-
व्याघ्री किंशुकपारिभद्रकजटा-
ऽपामार्गनीपाग्निकम् ।
वासामुष्कक्रपाटलाः सलवणा
दग्ध्वा जले पाचितं
हिंग्वादिप्रतिवापमेतदुदितं
गुल्मोदराष्ठीलिषु ॥ ४७ ॥
हिङ्गूग्रगन्धाबिडशुण्ठ्यजाजी-
हरीतकीपुष्करमूलकुष्ठम् ।
भागोत्तरं चूर्णितमेतदिष्टं
गुल्मोदराजीर्णविषूचिकासु ॥ ४८ ॥
137-b
त्रिफलाकाञ्चनक्षीरीसप्तलानीलिनीवचाः ।
त्रायन्तीहपुषातिक्तात्रिवृत्सैन्धवपिप्पलीः ॥ ४९ ॥
पिबेत्संचूर्ण्य मूत्रोष्णवारिमांसरसादिभिः ।
सर्वगुल्मोदरप्लीहकुष्ठार्शःशोथखेदितः ॥ ५० ॥
शठी पुष्करमूलं च दन्तीं चित्रकमाढकीम् ।
शृङ्गवेरं वचां चैव पलिकानि समाहरेत् ॥ ५१ ॥
त्रिवृतायाः पलं चैव कुर्यात्त्रीणि च हिङ्गुनः ।
यवक्षारपले द्वे च द्वे पले चाम्लवेतसात् ॥ ५२ ॥
यमान्यजाजी मरिचं धान्यकं चेति कार्षिकम् ।
उपकुञ्चयजमोदाभ्यां तथा चाष्टमिकामपि ॥ ५३ ॥
मातुलुङ्गरसेनैव गुटिकाः कारयेद्भिषक् ।
तासामेकां पिबेद्द्वे च तिस्रो वापि सुखाम्बुना ॥ ५४ ॥
अम्लैश्च मद्यैर्यूषैश्च घृतेन पयसाथवा ।
एषा काङ्कायणेनोक्ता गुडिका गुल्मनाशिनी ॥ ५५ ॥
अर्शोहृद्रोगशमनी क्रिमीणां च विनाशिनी ।
गोमूत्रयुक्ता शमयेत्कफगुल्मं चिरोत्थितम् ॥ ५६ ॥
क्षीरेण पित्तगुल्मं च मद्यैरम्लैश्च वातिकम् ।
त्रिफलारसमूत्रैश्च नियच्छेत्सान्निपातिकम् ।
रक्तगुल्मे च नारीणामुष्ट्रीक्षीरेण पाययेत् ॥ ५७ ॥
138-a
हपुषाव्योषपृथ्वीकाचव्यचित्रकसैन्धवैः ।
साजाजीपिप्पलीमूलदीप्यकैर्विपचेद्धृतम् ॥ ५८ ॥
सकोलमूलकरसं सक्षीरं दधि दाडिमम् ।
तत्परं वातगुल्मघ्नं शूलानाहविबन्धनुत् ॥ ५९ ॥
योन्यर्शोग्रहणीदोषश्वासकासाऽरुचिज्वरम् ।
पार्श्वहृद्वस्तिशूलं च घृतमेतद्व्यपोहति ॥ ६० ॥
१०पिप्पल्याः पिचुरर्धार्धो दाडिमाद्द्विपलं पलं ।
धान्यात्पञ्च घृताच्छुण्ठ्याः कर्षः क्षीरं चतुर्गुणम् ॥ ६१ ॥
सिद्धमेतैर्घृतं सद्यो वातगुल्मं चिकित्सति ।
योनिशूलं शिरःशूलमर्शांसि विषमज्वरान् ॥ ६२ ॥
११त्र्यूषणत्रिफलाधान्यविडङ्गचव्यचित्रकैः ।
कल्कीकृतैर्घृतं सिद्धं सक्षीरं वातगुल्मनुत् ॥ ६३ ॥
१२जले दशगुणे साध्यं त्रायमाणाचतुःपलम् ।
पञ्चभागस्थितं पूतं कल्कैः संयोज्य कार्षिकैः ॥ ६४ ॥
रोहिणीकटुकामुस्तत्रायमाणादुरालभाः ।
कल्कैस्तामलकीवीराजीवन्तीचन्दनोत्पलैः ॥ ६५ ॥
रसस्यामलकीनां च क्षीरस्य च घृतस्य च ।
पलानि पृथगष्टाष्टौ दत्त्वा सम्यग्विपाचयेत् ॥ ६६ ॥
पित्तगुल्मं रक्तगुल्मं विसर्पं पैत्तिकं ज्वरम् ।
हृद्रोगं कामलां कुष्ठं हन्यादेतद्धृतोत्तमम् ॥ ६७ ॥
138-b
पलोल्लेखागते माने न द्वैगुण्यमिहेष्यते ।
चत्वारिंशत्पलं तेन तोयं दशगुणं भवेत् ॥ ६८ ॥
१३द्राक्षामधुकखर्जूरं विदारीं सशतावरीम् ।
परूषकाणि त्रिफलां साधयेत्पलसंमिताम् ॥ ६९ ॥
जलाढके पादशेषे रसमामलकस्य च ।
घृतमिक्षुरसं क्षीरमभयाकल्कपादिकम् ॥ ७० ॥
साधयेत्तु घृतं सिद्धं शर्कराक्षौद्रपादिकम् ।
योजयेत्पित्तगुल्मघ्नं सर्वपित्तविकारनुत् ॥ ७१ ॥
साहचर्यादिह पृथग्घृतादेः क्वाथतुल्यता ॥ ७२ ॥
१४धात्रीफलानां स्वरसे षडङ्गं पाचयेद्धृतम् ।
शर्करासैन्धवोपेतं तद्धितं सर्वगुल्मिनाम् ॥ ७३ ॥
१५षड्भिः पलैर्मगधजाफलमूलचव्य-
विश्वौषधज्वलनयावजकल्कपक्वम् ।
139-a
प्रस्थं घृतस्य दशमूल्युरुबूकभार्गी-
क्वाथेऽप्यथो पयसि दध्नि च षट्पलाख्यम् ॥ ७४ ॥
गुल्मोदरारुचिभगन्दरवह्निसाद-
कासज्वरक्षयशिरोग्रहणीविकारान् ।
सद्यः शमं नयति ये च कफानिलोत्था
भार्ग्याख्यषट्पलमिदं प्रवदन्ति तज्ज्ञाः ॥ ७५ ॥
१६पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः ।
पलिकैः सयवक्षारैः सर्पिःप्रस्थं विपाचयेत् ॥ ७६ ॥
क्षीरप्रस्थेन तत्सर्पिर्हन्ति गुल्मं कफात्मकम् ।
ग्रहणीपाण्डुरोगघ्नं प्लीहकासज्वरापहम् ॥ ७७ ॥
१७भल्लातकानां द्विपलं पञ्चमूलं पलोन्मितम् ।
साध्यं विदारीगन्धाढ्यमापोत्थसलिलाढके ॥ ७८ ॥
पादावशेषे पूते च पिप्पलीं नागरं वचाम् ।
विडङ्गं सैन्धवं हिङ्गु यावशूकं बिडं शठीम् ॥ ७९ ॥
चित्रकं मधुकं रास्नां पिष्ट्वा कर्षसमान्भिषक् ।
प्रस्थं च पयसो दत्त्वा घृतप्रस्थं विपाचयेत् ॥ ८० ॥
एतद्भल्लातकं नाम कफगुल्महरं परम् ।
प्लीहपाण्ड्वामयश्वासग्रहणीकासगुल्मनुत् ॥ ८१ ॥
139-b
१८रसोनस्वरसे सर्पिः पञ्चमूलरसान्वितम् ।
सुरारनालदध्यम्लमूलकस्वरसैः सह ॥ ८२ ॥
व्योषदाडिमवृक्षाम्लयमानीचव्यसैन्धवैः ।
हिङ्ग्वम्लवेतसाजाजीदीप्यकैश्च पलान्वितैः ॥ ८३ ॥
सिद्धं गुल्मग्रहण्यर्शःश्वासोन्मादक्षयज्वरान् ।
कासाऽपस्मारमन्दाग्निप्लीहशूलानिलाञ्जयेत् ॥ ८४ ॥
१९जलद्रोणे विपक्तव्या विंशतिः पञ्च चाभयाः ।
दन्त्याः पलानि तावन्ति चित्रकस्य तथैव च ॥ ८५ ॥
तेनाष्टभागशेषेण पचेद्दन्तीसमं गुडम् ।
ताश्चाभयात्रिवृच्चूर्णात्तैलाच्चापि चतुःपलम् ॥ ८६ ॥
पलमेकं कणाशुण्ठ्योः सिद्धे लेहे च शीतले ।
क्षौद्रं तैलसमं दद्याच्चातुर्जातपलं तथा ॥ ८७ ॥
ततो लेहपलं लीढ्वा जग्ध्वा चैकां हरीतकीम् ।
सुखं विरिच्यते स्निग्धो दोषप्रस्थमनामयः ॥ ८८ ॥
प्लीहश्वयथुगुल्मार्शोहृत्पाण्डुग्रहणीगदाः ।
शाम्यन्त्युत्क्लेशविषमज्वरकुष्ठान्यरोचकाः ॥ ८९ ॥
140-a
२०वृश्चीरमुरुबूकं च वर्षाह्वं बृहतीद्वयम् ।
चित्रकं च जलद्रोणे पचेत्पादावशेषितम् ॥ ९० ॥
मागधीचित्रकक्षौद्रलिप्तकुम्भे निधापयेत् ।
मधुनः प्रस्थमावाप्य पथ्याचूर्णार्धसंयुतम् ॥ ९१ ॥
व्युषोषितं दशाहं च जीर्णभक्तः पिबेन्नरः ।
अरिष्टोऽयं जयेद्गुल्ममविपाकं सुदुस्तरम् ॥ ९२ ॥
२१रौधिरस्य तु गुल्मस्य गर्भकालव्यतिक्रमे ।
स्निग्धस्विन्नशरीरायै दद्यात्स्निग्धं विरेचनम् ॥ ९३ ॥
शताह्वाचिरबिल्वत्वग्दारुभार्गीकणोद्भवः ।
कल्कः पीतो हरेद्गुल्मं तिलक्वाथेन रक्तजम् ॥ ९४ ॥
तिलक्वाथो गुडव्योषहिङ्गुभार्गीयुतो भवेत् ।
पानं रक्तभवे गुल्मे नष्टपुष्पे च योषिताम् ॥ ९५ ॥
सक्षारं त्र्यूषणं मद्यं प्रपिबेदस्रगुल्मिनी ।
पलाशक्षारतोयेन सिद्धं सर्पिः पिबेच्च सा ॥ ९६ ॥
उष्णैर्वा भेदयेद्भिन्ने विधिरासृग्दरो हितः ।
न प्रभिद्येत यद्येवं दद्याद्योनिविशोधनम् ॥ ९७ ॥
क्षारेण युक्तं पललं सुधाक्षीरेण वा पुनः ।
रुधिरेऽतिप्रवृत्ते तु रक्तपित्तहरी क्रिया ॥ ९८ ॥
भल्लातकात्कल्ककषायपक्वं
सर्पिः पिबेच्छर्करया विमिश्रम् ।
तद्रक्तपित्तं विनिहन्ति पीतं
बलासगुल्मं मधुना समेतम् ॥ ९९ ॥
वल्लूरं मूलकं मत्स्याञ्शुष्कशाकानि वेदनम् ।
न खादेच्चालुकं गुल्मी मधुराणि फलानि च ॥ १०० ॥