143-b
शतावरीकाशकुशश्वदंष्ट्रा
विदारिशालीक्षुकशेरुकाणाम् ।
क्वाथं सुशीतं मधुशर्कराक्तं
पिबञ्जयेत्पैत्तिकमूत्रकृच्छ्रम् ॥ ५ ॥
हरीतकीगोक्षुरराजवृक्ष-
पाषाणभिद्धन्वयवासकानाम् ।
क्वाथं पिबेन्माक्षिकसंप्रयुक्तं
कृच्छ्रे सदाहे सरुजे विबन्धे ॥ ६ ॥
गुडेनामलकं वृष्यं श्रमघ्नं तर्पणं परम् ।
पित्तासृग्दाहशूलघ्नं मूत्रकृच्छ्रनिवारणम् ॥ ७ ॥
एर्वारुबीजं मधुकं सदार्वीं
पैत्ते पिबेत्तण्डुलधावनेन ।
दार्वी तथैवामलकीरसेन
समाक्षिकां पैत्तिकमूत्रकृच्छ्रे ॥ ८ ॥
क्षारोष्णतीक्ष्णोषणमन्नपानं
स्वेदो यवान्नं वमनं निरूहाः ।
तक्रं सतिक्तौषधसिद्धतैला-
न्यभ्यङ्गपानं कफमूत्रकृच्छ्रे ॥ ९ ॥
मूत्रेण सुरया वापि कदलीस्वरसेन वा ।
कफकृच्छ्रविनाशाय श्लक्ष्णं पिष्ट्वा त्रुटिं पिबेत् ॥ १० ॥
तक्रेण युक्तं शितिमारकस्य
बीजं पिबेत्कृच्छ्रविनाशहेतोः ।
पिबेत्तथा तण्डुलधावनेन
प्रवालचूर्णं कफमूत्रकृच्छ्रे ॥ ११ ॥
श्वदंष्ट्रा विश्वतोयं वा कफकृच्छ्रविनाशनम् ॥ १२ ॥