148-a
उषकं सैन्धवं हिङ्गुकाशीसद्वयगुग्गुलुः ।
शिलाजतु तुत्थकं च उषकादिरुदाहृतः ॥ १२ ॥
उषकादिः कफं हन्ति गणो मेदोविशोधनः ।
अश्मरीशर्करामूत्रशूलघ्नः कफगुल्मनुत् ॥ १३ ॥
कुशः काशः शरो गुल्म इत्करो मोरटोऽश्मभित् ।
दर्भो विदारी वाराही शालिमूलं त्रिकण्टकः ॥ १४ ॥
भल्लूकः पाटली पाठा पत्तूरोऽथ कुरुण्टिकाः ।
पुनर्नवे शिरीषश्च क्वथितास्तेषु साधितम् ॥ १५ ॥
घृतं शिलाह्वमधुकं बीजैरिन्दीवरस्य च ।
त्रपुषैर्वारुकाणां वा बीजैश्चावापितं शृतम् ॥ १६ ॥
भिनत्ति पित्तसम्भूतामश्मरीं क्षिप्रमेव तु ।
क्षारान्यवागूः पेयाश्च कषायाणि पयांसि च ।
भोजनानि च कुर्वीत वर्गेऽस्मिन्पित्तनाशने ॥ १७ ॥
गणे वरुणकादौ च गुग्गुल्वेलाहरेणुभिः ।
कुष्ठमुस्ताह्वमरिचचित्रकैः ससुराह्वयैः ॥ १८ ॥
एतैः सिद्धमजासर्पिरुषकादिगणेन च ।
भिनत्ति कफसम्भूतामश्मरीं क्षिप्रमेव तु ॥ १९ ॥
क्षारान्यवागूः पेयाश्च कषायाणि पयांसि च ।
भोजनानि प्रकुर्वीत वर्गेऽस्मिन्कफनाशने ॥ २० ॥
तरुणार्तगलः शिग्रुतर्कारीमधुशिग्रुकाः ।
मेषशृङ्गीकरञ्जौ च बिम्ब्यग्निमन्थमोरटाः ॥ २१ ॥