प्रथमः प्रत्यक्षपरिच्छेदः
आचार्यधर्मोत्तरविरचिता
न्यायबिन्दुटीका
आचार्य्धर्मकीर्त्तिप्रणीतो न्यायबिन्दुः
प्रथमः प्रत्यक्षपरिच्छेदः ।
ऊँ नमो वीत्तरागाय1 ।
सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरिति तद् व्युत्पाद्यते ॥१॥
1b 2सूत्राभिधर्मविनयाः सुगतस्य वाचो बाधा विनाद्भुततया सततं जयन्ति ।
आभान्ति दर्पण इव प्रतिबिम्बितानि तत्त्वानि यत्र सकलस्य पदार्थराशेः ॥
श्रीधर्मकीर्त्त्यभिमुखानि जगद्धितानि धर्मोत्तरस्य विपुलानि पदान्यमूनि ।
सम्यक् प्रकाश्य सुकृतं समुपार्जयामि तेनापि दुःखजलधेर्जगदुद्धरामि ॥
न्यायबिन्दुटीकां चिकीर्षुरेष धर्मोत्तरो भगवत्पूजापुण्ययोः साध्यसाधनभावमतीन्द्रिय
मीदृशि विषये गत्यन्तरविरहादभ्युपेयप्रामाण्यादागमादवगम्य, पुण्यस्य चापुण्यविरोधित्वाद
पुण्यफलविध्नाद्यभावो व्यापकविरुद्धविधिना सम्भवी, तेनाविध्नेन ग्रन्थकरण4तत्समाप्तौ