279

द्वितीयः खण्डः

तदेवं साध्यविशेषापेक्षया व्याप्तिदूषणमभिधाय प्रयत्नवन्मात्रेऽप्यभिधातुं
वितर्कयन्नाह,

स्थित्वा प्रवृत्तिसंस्थानविशेषार्थक्रियादिषु ।
इष्टसिद्धिरसिद्धिर्वा दृष्टान्ते संशयोऽथवा ॥

इति । दृष्टोऽन्तो दृष्टान्तः सिद्धान्त इति योऽर्थः, प्रयत्नवन्मात्रेण व्याप्तेः सिद्धत्वात्,
एकानेकरूपानतिक्रमाच्च वस्तुनः । स्थित्वा प्रवृत्त्यादिषूपन्यस्तेषु वादिन इष्टसिद्धिः किमस्तु
एकत्वपक्षे, असिद्धिमात्रं वानेकत्वे, अथ व्याप्तिरेव नास्तीति सिद्धान्ते संशय एव
उभयत्रापीति प्रश्नार्थः ।

अत्र चानन्तरमभेदसाधनाधिकारेण सन्दिग्धविपक्षव्यावृत्तिकत्वोद्भावनेन
दत्तमेवोत्तरम् । अतस्तृतीय एव पक्षः । न हि प्रयत्नोपयोगमन्तरेणापि कार्यजन्मनि
संभाव्यमाने बाधकं किञ्चिदालोचयामः । तत् कुतस्तत्र नियमः कार्यादेः ? अथ
कालदेशाद्यनियमप्रसङ्गो बाधकः ? तदयुक्तम्, यतः प्रतिनियतशक्तेरसर्वकालभाविनः
स्वकारणायत्तसन्निधेः कारणदशाविशेषस्य व्यतिरेकेऽपि व्यतिरेकः कार्यस्य संभवन्न
प्रयत्नवन्नान्तरीयकत्वमुपकल्पयितुं कल्पते । सर्वथा हेत्वनपेक्षायां तद्वाधकमुपपद्यमानं
कार्यस्य हेतुमात्रेण व्याप्तिं साधयेत् । न तु हेतुविशेषेण प्रयत्नवता ।

ननु कारणं नाम सर्वत्र कलाप एव, स च न व्यग्रावस्थायाम् । तत्संहतिश्च
प्रयत्नवन्तमन्तरेण यदि स्यात्, नित्यमेव स्यात् । एवं देशेऽपि वाच्यम् । ततश्च
स एव देशकालनियमप्रसङ्ग इति, चैतन्यनिरपेक्षत्वेन कलापकार्यत्वस्य व्यापकस्याभावेन
कार्यत्वादयोऽसंभवन्तः प्रयत्नवदपेक्षत्वेन व्याप्यन्त इति चेत् ? एवं तर्हि सोऽपि प्रयत्न
वान् यदि क्षणिकः प्रादेशिकश्च तत्क्षणैकदेशत्वमेव सर्वकार्यग्रामस्य स्यादिति सनातन
एवाङ्गीकर्तव्यो व्यापी च । ततश्च स एव देशकालानियमोऽद्यापि प्रसक्त इति
किमस्योपगमेन ? अथ सोऽदृष्टमपेक्ष्य जनयन्नियतं जनयेत् ? जडानां तु नादृष्टं
लोचनमिति ।

एवं तर्हि तददृष्टपरिपाकसहाया एव प्रत्यया नियतमुत्पादयिष्यन्ति निरालोचा
अपीति किं चैतन्येनेति चेत् ? एवं ब्रुवतः कुलालादेरपि वैयर्थ्यप्रसङ्गः, न हि तत्रापि
नादृष्टमस्ति सहकारि । न चैवम् । तस्माद् विपर्ययः । या या सामग्री सा नादृष्टा
पेक्षया पुरुषप्रयत्नं विफलयति ।