प्रथमः परिच्छेदः

प्रज्ञा येन खलीकृताम्बरदशामाकृष्य नः प्रेयसी
सासूयं सदसि स्थितेषु कृतिषु प्रख्यातकीर्तिष्वपि ।
क्रूरन्यायमयो निराकृतिनयो दुःशासनः साम्प्रतं
सोऽयं मद्भुजपञ्जरे निपतितः संरक्ष्यतां कौरवाः2594 ॥ १ ॥
साकारेतरमध्यमासु कृतिनामुत्थाप्य नानाविधा
विक्रान्तीर्युवराजनायकनये व्यक्ते ममायं भरः ।
श्रीनागार्जुनपादसंमतिपदे भाष्यान्तिमैर्वणिते
तन्न्यूनाधिकचिन्तनाय सफले मध्यस्थबुद्धेः श्रमः ॥ २ ॥
साकारत्वं मतीनां भवशमनियमः सुन्दरं बुद्धरूपं
हेतोर्व्याप्तेश्च हानेर्न तु सदिति सदित्येव वास्तु स्ववित्तेः ।
आर्याचार्याविरोधः प्रगुणपरिचयो धर्मकायो नयौ च
मुक्तौ स्थित्योरभेदः परम इति परं शास्ति साकारसिद्धिः ॥ ३ ॥
आवेणिकाखिलगुणाभरणाभिरूप
रूपस्ववित्त्यधिगतामलधर्मधातुः ।
धातुत्रयीहितलतानिकरैककन्द
कन्दर्पकेतुरवतादकनिष्ठनिष्ठः ॥ ४ ॥
तत्साधनप्रवणशास्त्रपरम्पराया
यत्नाद्विचित्रमतिमात्रजगत्प्रसिद्ध्या ।
ध्वस्तोऽखिलस्तदपवादिषु तीर्थिकौघ
स्तन्मार्गसंगमगुणप्रथितास्त्ववार्याः ॥ ५ ॥
516
एकेतरात्मविकलः किल भासनेऽपि
चित्राकृतिव्यतिकरोऽयमसत्य एव ।
तत्रापि सत्यमपरं स्वबिदभ्युपेतं
तन्मात्रशेषमवदानमिति क्व नाथः ॥ ६ ॥
युक्त्यागमोक्तियुवराज123a नयानुगोऽय
मध्वेति साकृतिनये निहितः प्रवादः ।
वादस्थिताविव विवादिमतक्रमेण
लेखाविधेस्तु स नयोऽजनि विप्रकीर्णः ॥ ७ ॥
समासतस्तेन करिष्यतेऽयं
तदर्थसंग्राहकसूत्रकोशः ।
परार्थचर्या हि भवेन्नवेयं
स्वार्थस्तु तत्त्वाभ्यसनादवार्यः ॥ ८ ॥
प्रकाशो नाम न स्वप्नेऽप्यनाकारोऽनुभूयते ।
ततोऽदृश्यमतस्याक्षं बाधकं न तु साधकम् ॥ ९ ॥
जडत्वेन गुणादीनामदृष्टिः सविशेषणा ।
बाधनेऽपेक्षते तावन्न विलम्बः स्वसंविदः ॥ १० ॥
बोधात्मनि सिते भासमाने सिद्धाथ बोधधीः ।
प्रतीयमानेऽजां वेत्यगवि गोत्वगतिर्न किम् ॥ ११ ॥
किं च प्रदेशो भिन्नश्चेदबाध्यो भेदनिश्चयः ।
अभेदे तु प्रदेशस्य स्वरूपाभेद एव सः ॥ १२ ॥
न वातातपयोरस्ति प्रतिघात्यणुपुञ्जयोः ।
देशाविभेदो बुद्धिस्तु तथान्वेति स्थवीयसी ॥ १३ ॥
प्रतिघातात्ययान्तेन देशाभेदोऽस्तु वा सितेः ।
अवयव्यणुरूपत्वविकल्पे सैव दूषणा ॥ १४ ॥
अभेदभासने यथा क्षणयोर्बाधकाद् भिदा ॥ १५ ॥
517
अभेदभासनान्नास्ति क्षणयोर्व्यवसैव तु ।
अस्ति नीलधियोः स्पष्टं नान्यथा क्वचिदेकता ॥ १६ ॥
न बाधापर्युदासोऽस्ति साधकं प्रमितिद्वयम् ।
प्रसज्यपक्षे बाधाया हानिस्तावद् दुरन्वया ॥ १७ ॥
कदाचित् केनचिद् बाधान्नीलवद् वेदितैव सा ।
बाधास्फुरणमात्रं तु सन्दिग्धे वितथेऽपि सत् ॥ १८ ॥
ततो न भेदसिद्ध्यङ्गं भेदो धर्मः स्वतो यतः ।
क्षणयोस्तु सतोर्भेदः कार्यकालभिदा भवेत् ॥ १९ ॥
न चैवमेककालत्वे कार्यभेदेऽप्यपोद्धृते ।
अभेदभासिनो दीपपीतस्येव प्रकाशिनः ॥ २० ॥
किं च बाधात्र नात्रेति पृथग्भासे द्वयोर्भवेत् ।
बाधायोग्यस्वभावस्य विभागेनोपलम्भतः ॥ २१ ॥
न चानाकारभागस्य पृथग्भासोऽस्ति नीलतः ।
देशव्याप्त्यवसायस्तु बाधकेऽस्यैव साधकः ॥ २२ ॥
सिद्धोऽपि तत्र हेतुश्चेन्न समर्थः प्रकल्प्यते ।
नूनं न साध्यसंबन्धो नाकारेऽपि ततः क्षमः ॥ २३ ॥
भासनं भास इति च धर्मो नीलेऽस्ति भासिनि ।
तस्य स्वभावभूतत्वाद् बाधाबाधौ समौ द्वयोः ॥ २४ ॥
न नीलस्य प्रकाशश्चेत् साहसं किमतः परम् ।
परतोऽपि भवन्नस्य प्रकाशोऽशक्यवारणः ॥ २५ ॥
नान्यतोऽपि प्रकाशोऽस्य प्रकाशोऽस्यान्य एव चेत् ।
न तन्नीलं प्रकाशेत प्रकाशेऽन्यस्य किं फलम् ॥ २६ ॥
यतः कुतोऽपि वा तस्मात् प्रकाशोऽस्यानपह्नवः ।
दीपेन भासमानस्य घटादेः किं न भासनम् ॥ २७ ॥
518
तस्य बाधोक्तिरफला धर्म्यबाधावकाशतः ।
यतस्तद्भासनं तत्तु भासमानं न दृश्यते ॥ २८ ॥
यदि प्रकाशो नीलादिः किं प्रकाशान्तरेण वः ।
अथाप्रकाशो नीलादिः किं प्रकाशान्तरेण वः ॥ २९ ॥
ध्वस्तोऽन्येन प्रकाशो हि प्रसिद्धमपरं न च ।
कस्या123b बाधः कुतो हेतोः सर्वस्याश्रयसंशयात् ॥ ३० ॥
अथास्ति स्फुरणं तावन्नीलधर्मस्तु तन्मतम् ।
तस्याबाधनतो भेदसिद्धौ सिद्धं समीहितम् ॥ ३१ ॥
भासमानस्य नीलस्य तावद्धर्मेण भाषया ।
अवश्यभाव्यं तद्भेदप्रतिज्ञान्या पटुः सहा ॥ ३२ ॥
कुतश्च भासमात्रं तदबाध्यं स्वविदा यदि ।
स्ववित्तावपि नीलादि किं न बाधाभिधावति ॥ ३३ ॥
स्वसंवित्तिर्न नीलस्य यदि किं न प्रकाशते ।
प्रकाश्यतां परेणेति निषिद्धमिदमीदृशम् ॥ ३४ ॥
असत्त्वान्न परत्वं चेत् स्वं नेत्येव कुतोऽस्य वित् ।
अस्वभासनशक्तिश्च निमील्याक्षि निगद्यते ॥ ३५ ॥
अथ कल्पिततादात्म्यादेतदन्योन्यसंशयः ।
भासः कल्पिततादात्म्याद्भासात् तादात्म्यकल्पनम् ॥ ३६ ॥
कल्पितं क्वचिदर्थे च नोपयोगीति संमतम् ।
इयन्तं कालमधुना श्रद्धेयमिदमप्यभूत् ॥ ३७ ॥
तेनान्यासंभवाद् भ्रान्तिवासनोपप्लवान्मनः ।
अलीकरूपैर्भातीति प्रक्रियामात्रपोषणम् ॥ ३८ ॥
साध्यशून्यश्च दृष्टान्तः स्वप्नोऽलीकैरितीह च ।
स्वादिः सहार्थान्नान्यार्थाभासनं केन कस्यचित् ॥ ३९ ॥
519
अविद्ययापि निर्भान्तः आकाराः सन्तु तत्कृताः ।
प्रकाशास्तु प्रजायन्ते यथा दीपः स्वहेतुतः ॥ ४० ॥
तथापि हेत्वपेक्षा चेत् स्वप्रकाशत्वबाधनी ।
भिन्नोऽप्यनुभवोऽन्यस्मादुदयन् किं स्ववेदनः ॥ ४१ ॥
तत् क्वचित् स्वविदोऽभावान्नास्ति व्यवहतिर्भवेत् ।
भवेद् वाकारपुञ्जेऽपि समानन्यायसंभवात् ॥ ४२ ॥
भासमानस्य च भवेत् स्वप्रकाशः परेण वा ।
नीलादाविति चिन्तेयं न त्वभासिन्यनाकृतौ ॥ ४३ ॥
न च कार्यतया भासमात्रं हेतिभिराकृतेः ।
स्वसंभवेऽन्यव्यापारापेक्षं कार्यं हि कथ्यते ॥ ४४ ॥
शक्त्यभावाच्च कार्यत्वाभावस्तेनेव बाधितः ।
आकारादाकृतेर्जन्मदृष्टेरन्यत्र चिन्त्यताम् ॥ ४५ ॥
न वा शक्तं सितं कार्यं किं नान्यापेक्षसंभवात् ।
शक्त्या व्याप्तं तदिति चेच्छक्तिरप्यनुमीयताम् ॥ ४६ ॥
कार्यत्वे हि न सन्देहः शक्तिः साध्या तु संशयात् ।
केशाकारोऽपि नाकार्योऽध्यस्तकेशस्त्वशक्तिकः ॥ ४७ ॥
दृष्टा च प्रागुपादानाभावे कस्य प्रकाश्यता ।
प्रकाशधर्मा नीलोऽयं तस्माज्जातोऽभ्युपेयताम् ॥ ४८ ॥
अबाधया च भिन्नत्वे बाधाभावः कुतो मतः ।
स्वसंवेदनसामर्थ्यं संप्रत्येव निराकृतम् ॥ ४९ ॥
अनारोपितभावाच्चेदनारोपमतिः कुतः ।
अबाधयानारोपश्चेदेतदन्योन्यसंश्रयम् ॥ ५० ॥
प्रकाशस्य प्रकाशत्वं नारोप्यं रूपमेव तत् ।
नीलस्यापि न नीलत्वमारोप्यं रूपमेव तत् ॥ ५१ ॥
520
न प्रकाशं विना नीलः प्रकाशस्तं विनापि चेत् ।
अन्योऽपि व्यापको धर्मः कल्पितः को न तादृशः ॥ ५२ ॥
न च प्रकाशः पीतेऽपि नील एव स्थितो हि यः ।
सामान्यमन्यथा124a कस्मादकस्माद्विनिवार्यते ॥ ५३ ॥
अन्यत्वे च यथा नीलं न प्रकाशं विना तथा ।
नर्ते नीलात् प्रकाशोऽसौ सप्रकाशोऽथ साकृतिः ॥ ५४ ॥
मिथश्चेद् व्यभिचारेण भेदो नीलोत्पलेन किम् ।
वस्त्रोदकेऽपि भेदः किं किं न रूपनिरूपणात् ॥ ५५ ॥
बीजेऽपि कालभेदेन तर्जन्या भेदरूपणे ।
मानेन भेदोऽभेदो वा नैवं नीलप्रकाशयोः ॥ ५६ ॥
नीलधर्मः प्रकाशोऽस्मान्न भेद्यो भेदिनः पुनः ।
कल्पितस्य स एवात्मा भण्यते भासिनो न किम् ॥ ५७ ॥
कल्पितं तस्य जात्यादे रूपं किं न तदेव तत् ।
प्रमाणेन तु तत्सत्यमसत्यं वेति चिन्त्यते ॥ ५८ ॥
तेन भानेऽपि नीलादिरलीको वस्तुसन्मतः ।
अयोगाद् बाधकस्येति विभागः किं कृतो भवेत् ॥ ५९ ॥
न वा तस्य प्रमासिद्धः शक्तियोगोऽपि संभवी ।
आकृतिं वाकृतेरेव सामर्थ्यस्योपलम्भतः ॥ ६० ॥
विरुद्धधर्माध्यासाच्च न विना भेदसाधनम् ।
धर्मौ विरुद्धौ भिन्नाधिकरणौ यदि सिध्यतः ॥ ६१ ॥
देशकालाकृतिकृतो भेदोऽधिकरणस्य च ।
न संभवी नीलधियोस्तत् क्व धर्मविरोधिवत् ॥ ६२ ॥
देशकालप्रतीभासभेदाभावेऽपि भेदनम् ।
नीलोत्पलादाविव तद् भवतो यदि सिध्यति ॥ ६३ ॥
521
अन्तः स्फुरत्सुखाद्येव स्वसंवेद्यं मनो यदि ।
नीलाद्याकारविरहादनाकारं च संमतम् ॥ ६४ ॥
प्रतिभासाद् यदि ज्ञानं सुखं सोऽस्ति सितेरपि ।
अभेदेन प्रकाशश्चेत् सुखस्यैवं सितेरपि ॥ ६५ ॥
यथा भिन्नं सुखान्नीलं नीलाद् भिन्नं तथा सुखम् ।
यथा नाहं मतं नीलं तथा नाहं मतं सुखम् ॥ ६६ ॥
अहं सुखीति व्यवहृन्नाहं नीलीति चेन्मतिः ।
व्यवहारभावाभावौ नार्थसाधनबाधनौ ॥ ६७ ॥
साधारण्याभिमानेन न भवेदपि सा स्थितिः ।
तथापि क्वचिदस्त्येव गोमान् दण्डी दुकूलवान् ॥ ६८ ॥
अन्तः शातादिविषयं बहिः शीतादिगोचरम् ।
वेदनं तत्तदाकारं बाधकग्रस्तमेव च ॥ ६९ ॥
हानाद्देशवितानस्य बाधकासंभवः किल ।
दोषो देशेऽणुमात्रेऽपि कियत्यल्पे विहन्यते ॥ ७० ॥
कुत्राप्यवर्तमानस्य कदाचिन्न हि वर्तनम् ।
तदस्य विद्यमानत्वं सुखादेः साधु साधितम् ॥ ७१ ॥
विद्यते यदि कुत्रापि देशस्तस्य स एव हि ।
शरीरादबहिर्भूता वेद्यन्ते च सुखादयः ॥ ७२ ॥
मानं हस्तवितस्त्यादि ज्ञायते नियतं न चेत् ।
ततः किं भूभुजामेव भूमाननियमोऽर्थवान् ॥ ७३ ॥
स्पर्शनात् स्पृश्यरूपाभ्यां चान्यत्र विषयेन्द्रिये ।
न माननियमोऽस्तीति तत्रापि किमबाधनम् ॥ ७४ ॥
यत्रापि निश्चयो माने शक्यस्तत्रापि नाणुशः ।
निश्चयेऽप्यङ्गुलादीनां तत्त्वतो न मितिस्ततः ॥ ७५ ॥
522
तडागगाहने व्यक्तं तप्तस्योर्ध्वाधरादितः ।
सुखमानं स्फुटत्वेन तत्रारोप्यो न चान्यतः ॥ ७६ ॥
तत्स्पर्शनेन्द्रियद्वारा मितेस्तद्देशतामतिः ।
इत्यपि ध्वस्तमियता भ्रमत्वादस्फुटाप्तितः ॥ ७७ ॥
इन्द्रियभ्रान्तिरेषा चेत् न ततोऽन्यसुखात्ययात् ।
इदमेव हि नः सौख्यं यत्124b शातं वेदनं स्फुटम् ॥ ७८ ॥
रूपादिष्वपि वा कास्था चक्षुरादीन्द्रियाश्रयात् ।
तथाप्रतीतेराख्यातुं शक्यत्वादपरं समम् ॥ ७९ ॥
निर्भासनियमाज्ञाने2595 यद्यदेशाः सुखादयः ।
क्षणरूपापरिज्ञानादकालं सकलं जगत् ॥ ८० ॥
यथा नियतकालत्वं तथा नियतदेशता ।
बाधकावञ्चनात् तस्मान्निराकृतिगिरात्र किम् ॥ ८१ ॥
अस्तु वा बाधकाभावः सत्ताश्वासस्तु किंकृतः ।
एकेतरत्वयोरेकस्थित्यसिद्धेरदेशतः ॥ ८२ ॥
न चादर्शनमात्रेण बाधाभावोऽपि सिध्यति ।
एकबाधवियोगेऽपि स्याद् वा बाधान्तरोदयः ॥ ८३ ॥
अनुमानादबाध्यत्वसाधने यदि साधनम् ।
कथञ्चिदाश्रयासिद्धिदूषणं नातिवर्तते ॥ ८४ ॥
दुःखद्वेषादयोऽप्येवं स्वभावाः सर्वदेहिनाम् ।
हानं स्वतोऽप्यनिष्टेश्चेदसतोऽपीच्छया स्थितिः ॥ ८५ ॥
यद् यथा भाव्यते चेतः तत् तथैव स्फुटीभवेत् ।
व्योमाकारमपि स्याच्चेन्न प्रयोजनहानितः ॥ ८६ ॥
संसारदोषैरस्पृष्टं लक्षणव्यञ्जनोज्ज्वलम् ।
आत्मभावं विहाय त्वं विहायस्त्वं यदीच्छसि ॥ ८७ ॥
523
यदि तावत् खवद् व्यापि तद्वदेवास्य दूषणम् ।
ज्योत्स्नातडिन्मणिज्वालास्फुलिङ्गादितुलास्वपि ॥ ८८ ॥
सांशेऽवयविवद् दोषो निरंशे परमाणुवत् ।
न चापरः प्रकारोऽस्ति मुधैवादेशधोषणम् ॥ ८९ ॥
गुणास्तदेकनियतास्तदेकनियता रुचिः ।
तदेकनियतं मानं बाधेनैव समः परः ॥ ९० ॥
पर एव जिनो येषां तैः स्वशास्तापि हारितः ।
शृजुक्रमगृहीतो य आगमाल्लक्षणोज्ज्वलः ॥ ९१ ॥
येन रूपेण यन्नैकं नानेकं तेन तन्न सत् ।
यथा शातमशातेन भासश्च सितिना तथा ॥ ९२ ॥
न धर्मो धर्मिणो भेत्तुं शक्य इत्युक्तमेव हि ।
न च भिन्नस्य भानस्य न्यायेनानेन साधनम् ॥ ९३ ॥
यदि नाम न नीलेन प्रकाशस्यास्ति वस्तुता ।
तथापि भिन्नभानस्य वस्तुत्वं केन सिध्यति ॥ ९४ ॥
बन्ध्यासुतोऽग्निरूपेण नैकानेको न तेन सन् ।
ततस्तस्यापि वस्तुत्वं किमस्तु भवतो मितेः ॥ ९५ ॥
न सन् बन्ध्यासुतः सिद्धः प्रकाशः सिद्ध एव सन् ।
असिद्धो भेद एवास्य साध्यते चेत् तदप्यसत् ॥ ९६ ॥
तत्त्वतः सत्यरूपेण सिद्धिर्भेदस्य चेन्मता ।
सा न सिद्धा न हि व्यापिविरहो नास्त्यवस्तुनि ॥ ९७ ॥
प्रतीतिमात्रं सिद्धिश्चेद् भिन्नोऽप्येवं न तात्त्विकः ।
व्यावहारिकभेदस्तु किं न पीतसितस्य ते ॥ ९८ ॥
यदि प्रकाशसत्तां च बाधकावसरं हनन् ।
साधयेत् तावतैवास्तु भेदो मानमिदं वृथा ॥ ९९ ॥
524
तदशक्तावपि व्यर्थमेतत् शौटीर्यजृम्भितम् ।
परस्योपगमः संप्रत्यप्रमा कथमाश्रयः ॥ १०० ॥
नीलभासोरभेदावभासिनोः प्रस्तुता च भित् ।
न चैवमन्वयः शक्यस्तथा साध्यमतः कथम् ॥ १०१ ॥
येन नैकमनेकं यदिति सामान्यतोऽन्वये ।
पीतेन नैकानेकोऽस्तु नीलभासो न तेन सन् ॥ १०२ ॥
अनुक्तोऽपीच्छया व्याप्तः साध्य आत्मार्थवन्मतः ।
विशेषेणान्वयस्तस्मात् सामान्ये सिद्धसाधनम् ॥ १०३ ॥
यथा शातमशातेन भिन्नेनैवातदात्मकम् ।
तज्जातिनैव पीतेन125a नीलभासोऽस्तु तादृशः ॥ १०४ ॥
नैकानेकप्रकाशश्च नीलेनेति यदोच्यते ।
कस्तदास्तु प्रकाशार्थो धर्ममात्रं यदीष्यते ॥ १०५ ॥
धर्मिरूपादभिन्नस्य तस्य तेनैव सा स्थितिः ।
ऐक्यानैक्यं प्रकाशस्य नीलेनैवेत्यसिद्धता ॥ १०६ ॥
तस्यापि नैक्यानैक्यं चेदनेकान्तोऽपि वाञ्छते ।
पिण्डेन नैकानेकं सद् वस्तुसद् गोत्वमस्तु किम् ॥ १०७ ॥
कर्तृसाधनपक्षेऽपि दोष एव दुरुद्धरः ।
प्रकाशमानरूपं हि शून्यं तेनात्मना भवेत् ॥ १०८ ॥
अर्थान्तरं प्रकाशाख्यं यदि सान्वयसंज्ञकम् ।
नीलादिभ्योऽतिरिक्तस्य न सत्तास्य फलं न च ॥ १०९ ॥
निरन्वये च हेतूनामाश्रयासिद्धिरत्र ते2596
व्यावृत्तिमात्रसिद्धौ च प्रस्तुतेऽनुपयोगिता ॥ ११० ॥
प्रत्यक्षप्रतिवेद्योऽयं प्रकाशो धर्मकारि चेत् ।
प्रत्यक्षगोचरो धर्मी नीलादन्यो न विद्यते ॥ १११ ॥
525
परत्वमेव चेत् साध्यं तत् सिद्धं कथमर्थ्यते ।
साध्यं तव किमप्यस्तु धर्मी कार्यस्त्विदन्तया ॥ ११२ ॥
परिनिष्ठित एवार्थो वस्तुरूपो यदा मतः ।
व्यवच्छेदद्वये निष्ठानपेक्षायां फलं न वः ॥ ११३ ॥
ननु प्रकाशः सामान्यं धर्मि किं भेदनिष्ठया ।
विशेषनिष्ठया साध्यविधूतेश्च न तच्छ्रमः ॥ ११४ ॥
स निष्ठितविशेषोऽपि विवादपदमेष यः ।
धर्मी तदेका व्यावृत्तिरन्या साध्यं ध्वनाविव ॥ ११५ ॥
युक्तो व्यावृत्तिमात्रेण साध्यसाधनसंस्थितिः ।
धर्मिरूपं तु भेदेन दृष्टमेवोपयुज्यते ॥ ११६ ॥
सामान्यधर्मयोरेव व्याप्तिः शक्यप्रतीतिका ।
अयमेवमितीत्थं तु धर्मी सर्वत्र भेदभाक् ॥ ११७ ॥
सामान्याश्रयणं यत्र तत्रावश्यमपेक्षते ।
विशेषदर्शनं सिद्धिः सामान्यस्यैव नान्यथा ॥ ११८ ॥
न विशेषं विना क्वापि सामान्यस्य व्यवस्थितिः ।
नो चेदबन्ध्यातनयव्यावृत्तेश्च समानता ॥ ११९ ॥
भेदः साध्यस्य दृष्टान्ते हेतोः पक्षसपक्षयोः ।
सामान्यस्याप्यवश्योपदेश्यो धर्मी त्विदन्तया ॥ १२० ॥
व्यक्तिभेदाः क्षणित्वादेरप्यमी एव संमताः ।
प्रसिद्धव्यक्तिभेदश्च शब्दो धर्मी तथापरः ॥ १२१ ॥
अप्रकाशपरावृत्तिस्तद्वदेवात्र दर्श्यताम् ।
इदन्तया यदि पुरो दर्श्येताकार एव सः ॥ १२२ ॥
ततः प्रकाशः सामान्यं नीलाद्येवेतिवादिना ।
स्वीकृते विविदिष्यन्ते सस्वात्मादिनि दूषके ॥ १२३ ॥
526
सिद्धे धर्मिणि सन्दिग्धो धर्मः साधनमर्हति ।
धर्मिरूपविशेषस्य निष्ठायां तु हतो हतः ॥ १२४ ॥
क्षणिकत्वादिरप्येवं यदि धर्मिणि निष्ठिते ।
हन्येत साधयेत् कस्तं संशयार्थस्य साधनम् ॥ १२५ ॥
येन रूपेण यन्नैकं नानेकं तेन तन्न सत् ।
यथा शातमशातेन प्रकाशेनासितं तथा ॥ १२६ ॥
विद्युदुद्द्योतसंकाशः प्रकाशः कस्यचित् क्वचित् ।
तमपेक्ष्य स्थिरो बाह्यः प्रकाशेऽलीकता ततः ॥ १२७ ॥
अलीकनीलजनने यथा शक्तिर्मता धियः ।
अलीकबोधजनने तथा शक्तिर्न किं बहिः ॥ १२८ ॥
नैकं त्वयाप्यनिष्टेरित्येतदुक्तं न लभ्यते ।
ईदृक्साधनमज्ञात्वा ममानिष्टिर्यतोऽभवत् ॥ १२९ ॥
प्रकाशः केवलो125b नापि क्वचित् केनचिदीक्षितः ।
ततोऽनुमानप्रत्याशा प्रत्याशैव हि केवला ॥ १३० ॥
तेनैकानेकहानिश्चेत् स्वेनैकानेकसंभवः ।
ततः स्वेन स्थितिः साध्या हेत्वसिद्धिस्तथापि वः ॥ १३१ ॥
विपर्ययविवक्षा चेत् यद् यद् येनात्मना हि सत् ।
तत्तत् तेनैकानेकं वा भासश्च स्वेन सन्निति ॥ १३२ ॥
नाद्ये दृष्टान्तसद्भावो भास एव हि संमतः ।
न पक्षे चोपसंहारो विवादात् प्रकृतं न च ॥ १३३ ॥
यो भ्रमः सर्व एवासौ द्विचन्द्रप्रतिभासवत् ।
सत्यसङ्गी भ्रमश्चायं द्वैताभास इतीतरे ॥ १३४ ॥
खण्डद्वयाकारतया जन्म वा द्वैतभासनम् ।
ग्राह्यग्राहकरूपावसायौ वेति विवक्षितम् ॥ १३५ ॥
527
अतस्मिन्नतदाकारा वेद्ये सति मतिर्भ्रमः ।
सर्वथा वेद्यहानौ तु न भ्रमो नाम तत्त्वतः ॥ १३६ ॥
यत् किञ्चिदतथाभूतं तथा भावेन कल्प्यते ।
कीदृक् तस्यापराधोऽस्तु कल्पकस्य तु युज्यते ॥ १३७ ॥
कल्पकोऽपि न कश्चिच्चेद्भ्रमो नाम न कश्चन ।
तन्नासिद्धतया हेतुर्व्यवहारादथ भ्रमः ॥ १३८ ॥
व्यवहारादवितथं बहिरेव कथं भ्रमः ।
अबहिर्व्यवहारे तु यदारोपस्तदा भ्रमः ॥ १३९ ॥
आरोपातिक्रमे यस्मात् तत्त्व एव व्यवस्थितिः ।
बाधनाद् वितथत्वेन भ्रमस्तदपि किं भ्रमः ॥ १४० ॥
भासनेऽलीकमित्यस्तु भ्रमत्वं वा कथं भवेत् ।
अतस्मिंस्तद्ग्रहाभावादनलीकमतेरिव ॥ १४१ ॥
द्विचन्द्रप्रतिभासेऽपि भ्रमत्वं यच्च विश्रुतम् ।
द्विचन्द्रग्राहिचित्तस्य तन्न चन्द्रद्वयस्य तु ॥ १४२ ॥
ग्राह्यग्राहकभावेन कल्पितेऽशद्वये धियः ।
ग्राहकांशे प्रमाणत्वं ग्राह्यांशे भ्रमता कथम् ॥ १४३ ॥
वेद्यत्वे वेदकत्वे च व्यतीते भासमात्रकम् ।
बोधकग्रस्तमप्येतदसत्यं स्यान्न तु भ्रमः ॥ १४४ ॥
वेदकाभिमतत्वेन भ्रमत्वं व्याप्तमिष्यते ।
तद्विरोधिन्यवेदित्वे भ्रमत्वं दूरतो हतम् ॥ १४५ ॥
अन्यथाध्यवसाये तु भ्रमत्वे निर्विकल्पकम् ।
न भ्रमस्तेन तेनैव सत्यसङ्गित्वमस्तु च ॥ १४६ ॥
यद् यत्रावस्थितेऽपैति तत् तद्भिन्नं पटाम्बुवत् ।
प्रकाशेऽवस्थितेऽपैति नीलादीति परे विदुः ॥ १४७ ॥
528
यद् यत्रावस्थितेऽपैति तत् तद्भिन्नं पटाम्बुवत् ।
गोत्वे चावस्थितेऽपैति चित्रादीत्यपि गीयताम् ॥ १४८ ॥
अथ गोत्वमगोऽपोहस्तत् तद्धर्मोऽन्वयी कथम् ।
भासोऽपि भासिनां धर्मो नीलादीनां किमन्वयी ॥ १४९ ॥
॥ इति साकारसंग्रहे
निराकारसाधकप्रमाणाभावनिर्णयः
प्रथमः ॥
  1. तुल० वेणीसंहारम् ३. ४७

  2. निमारनियेमेति मातृकायाम् ।

  3. ०रप्रमे इति मातृकायाम् ।