107
क्षणभङ्गाध्याये
क्षणभङ्गाध्याये
चतुर्थः पादः—अहेतुकविनाशाधिकारः
अन्वीतिव्यतिरेकमाकलयताऽध्यक्षेण धूमाग्निवद्
1617दृश्यादृष्टिप्रभूतहेतुफलता1618 सिद्धा विनाशाङ्गयोः ।
1617दृश्यादृष्टिप्रभूतहेतुफलता1618 सिद्धा विनाशाङ्गयोः ।
तत्प्राक् कारणसन्निधेः फलमसन्नाशस्तनोति स्थितिं
तावन्तं किल1619 कालमित्यपि मृषा नाशः स्वरूपादृशः ॥
तावन्तं किल1619 कालमित्यपि मृषा नाशः स्वरूपादृशः ॥
नहीदन्तया नाशस्य स्वरूपमुपलब्धिगोचरं1620 येनान्वयव्यतिरेकनिश्चयात्
कारणाभिमतमुद्गरादिसन्निधेः प्राक् नाशाख्यं कार्यमभवत् तावन्तं कालं भावस्य
स्थैर्यमापादयेत्, यावता नाशस्य स्वभावानुपलब्धेर्मृषैव कल्पनेयमिति कुतः
कारणानुपलब्ध्या स्थैर्यसिद्धिः ?
ननु घटमुद्गरादयो दृश्यन्ते तावत् तेष्वेव कश्चिन्नाशो नामेति नाशस्वरूपानुप
लब्धिरसिद्धेति चेत् ?