प्रमाणप्रवेशे द्वितीयो विषयपरिच्छेदः ।
सम्यग्विषयवता हि प्रमाणेन भवितव्यम्, समीचीनश्च विषयः प्रमाणस्य यादृशो भवति,
तं दर्शयन् प्रकृतमर्थञ्चोपसंहरन्नाह–
विवृतिः–भेदाऽभेदैकान्तयोरनुपलब्धेः अर्थस्य सिद्धिः अनेकान्तात् । नान्तर्बहिर्वा
स्वलक्षणं सामान्यलक्षणं वा परस्पराऽनात्मकं प्रमेयं यथा मन्यते परैः; द्रव्यपर्याया
त्मनोऽर्थस्य बुद्धौ प्रतिभासनात् । न केवलं साक्षात्करणम् एकान्ते न संभवति,
अपि तु–
कारिकाविवरणम्–
यतोऽवग्रहादीनां प्रमाण–फलभूतानां क्रमभावेऽपि तादात्म्यम् अभिन्नविषयत्वञ्च तत्
तस्मात् अर्थःअर्थक्रियासमर्थः प्रमाणगोचरो भावः द्रव्यपर्यायात्मकः
बहिः घटादिः इत्यर्थः । किमिव ? इत्यत्राह–अन्तश्च इति । चशब्द
इवार्थे निपातानामनेकार्थत्वात्, अन्तरिव । कल्पनातः स तथाविधः स्यात्, इत्यत्राह–
तत्त्वतः परमार्थतः ।
विवृतिव्याख्यानम्–
भेद इत्यादिना1771 तद् व्याचष्टे–भेदाऽभेदैकान्तयोरनुपलब्धेः कारणात् अर्थस्य सिद्धिः
निष्पत्तिः निर्णीतिर्वा अनेकान्तात् अनेकान्तेन हेतुना, 1772तं वा आश्रित्य ।
नहि भेदैकान्ते वैशेषिकाभ्युपगते षट्पदार्थलक्षणे, नैयायिकाभ्युपग
ते वा षोडशपदार्थलक्षणे अ1773र्थस्य सिद्धिः घटते; प्रमाणतोऽप्रसिद्धस्वरूपाणां तेषामर्थसिद्धिनिब
न्धनत्वाऽनुपपत्तेः । यत् प्रमाणतोऽप्रसिद्धस्वरूपं न तद् अर्थसिद्धिनिबन्धनम् यथा गगनेन्दी
वरम्, प्रमाणतोऽप्रसिद्धस्वरूपाश्च यौगाभ्युपगताः पदार्था इति ।