८. भावस्वभावचिन्ता
(१) हेत्वन्तरसापेक्षो न ध्रुवभावः
उत्पादकाद्धेतोर्हेत्वन्तर
समुत्थस्य धर्मस्य सन्निधौ सन्निधाने नियतः कुतः । यथा कारणान्तरसापेक्षस्य वाससि नावश्यंभावनियमो रागस्य ।
(२) न भावनश्वरस्वभावनियतो भावः
स्यादेतत् । भावहेतुरेवानित्यत्वाख्यं धर्मं भावनाशकं जनयति तेन नश्वर- स्वभावनियतो भाव इत्याह ।
भावहेतुभवत्वेऽनित्यत्वाख्यस्य धर्मस्य भावनाशकस्येष्यमाणे पारम्पर्ये परिश्रमैरेभिः स्वीकृतैः किं प्रयोजनं । (२८०)
तथा
हि (।)
स भावहेतुरन्यमनित्यत्वाख्यं धर्मं भावनाशनं जनयित्वा तस्याभावस्य नाशक इष्यते परंपरया । यदि तु तमेव नश्वरं भावं साक्षाद् भावहेतुर्जनयेत् । तदा- किंन्दूषणं भवेत् । न किञ्चित् । (२८१)
अपि च (।)
यो यावाननित्यत्वाख्यो धर्म आत्मा भावस्य स किमुपकारकः सन् विनाशको भावस्य उतानुपकारक एव । तत्राद्ये पक्षे सिद्धात्मनो भावस्य सतः सर्व्वतो निरा- शंस्य
स्य क आत्माऽनित्याख्यो धर्मोऽन्यो वा उपकारकः स्यात् । अथ द्वितीयः पक्षः (।) तदाऽनात्मा उपकारकः स्यात् । तेन भावेन यो नाशकत्वेन समपेक्ष्येत । उपकारक एव ह्यपेक्ष्यते अनुपकारकत्वे का तस्यापेक्षा नाशकता वा ।2409(२८२)
-
व्यर्था नाशहेतुकल्पना
↩