अत्रोच्यते ।

अभिप्रायाविसंवादादपि भ्रान्तेः प्रमाणता ॥646
गतिरप्यन्यथा दृष्टा;

भ्रान्तेरपि प्रमाणता । अभिप्रायस्यार्थक्रियार्थिभिः ज्ञानगोचरतयाऽभिप्राय
विष647यीकृतस्यार्थक्रियासमर्थस्यार्थस्य संवादात् । अर्थक्रियार्थिनो हि तत्साधनसम
र्थार्थप्रापकं
प्रमाणमिच्छन्ति । अन्यथा पररूपेण गतिरपि काचिदभिप्रेतार्थ
सम्वादिका दृष्टेति प्रमाणमेव ।

नन्वनुमानं वस्त्वेव गृह्णत् प्रमाणमस्तु किं भ्रान्तिरिष्यते इत्याह ।

पक्षश्चायं कृतोत्तरः ॥ ५६ ॥

पक्षश्चायं प्रागेव न तद्वस्तु अभिधेयत्वादित्यादिना (२।११) कृतोत्तरः । (५६)

  1. द्रष्टव्यं परिशिष्टं ।११

  2. प्रवृत्तिविषयस्य ।