ततश्च दृष्टान्तग्राहिणैवा
भ्रष्टस्मृतिसंस्कारेण प्रत्यक्षेण सिद्धत्वात् विफल
मनुमानं । प्रत्यक्षसंस्कारभ्रंशे तु नादृष्टान्तमनुमानमस्ति (।) तस्माद् (।)
अन्येनातीतदर्शनेन एकविषयतया सन्धीय718 मानं घट्यमानं परं व्यवसायं719
154
स्मृतिं विदुर्व्विद्वांसः । गृहीतार्थविकल्पेन स्मृतित्वं तच्चेहाविकलं । तस्य प्रतिपत्तव्यस्य
चिह्नमव्यभिचारि लिङ्गं720 न्तदपेक्षणान्नोचेद्विशेषदृष्टमनुमानं स्मृतिः सा तु लिङ्गनि
रपेक्ष्या । नैतद्युक्तं
व्यभिचार721 तः ।722 तथा हि यदि लिङ्गन्त्रिरूपन्तदा व्याप्तिग्रह
णविषयत्वेनैव तत्सिद्धेर्व्यर्थमनुमानं । अथ न त्रिरूपन्तदा नाव्य723 भिचारनिश्चयः ।
तस्माद्विशेषदृष्टस्याप्रमाणत्वादेकत्रानेकवृत्तेरपि त्र्येकसंख्यापोहनाभावो निरस्तः ।
तस्मात्स्थितमेतन्मानं द्विविधं मेयद्वैविध्यादिति ॥ (१२२) ॥