यथानुभवं समदेशकालस्यान्यस्य चित्तसन्ताने यथा अहिरहि
रित्युपदर्शनेन सर्पभ्रान्तिरर्प्यते । तथा द्विचन्द्रादिभ्रान्तिरपि तस्या वाचकैः
शब्दैरर्प्येत सामग्रीतुल्यत्वात् । तिमिर
स्य चाहेतुकत्वात् । अपि च(।) यथा मरीचिषु
तरङ्गजलसमासु पूर्व्वदृष्टजलस्मरणसापेक्षा जलभ्रान्तिः । तत्र द्विचन्द्रादिभ्रान्तिरपि
मानसीत्वात् दृष्टचन्द्रद्वयस्मृतिमपेक्षेत । न चेयं स्मरणसापेक्षा चक्षुर्व्विस्फारण
मात्रेण स्फरणात् । 944 तथा मानसीत्वात् परिस्फुटं सुव्यक्तग्राह्याकारा न भासेत ।945
जलादिभ्रान्तिरिव । (२९८)
तस्मात्सुप्तस्य जाग्रतोपि वा यैव धीः स्फुटावभासिनी व्यक्तग्राह्याकारा सा
41a
निर्व्विकल्पाऽभ्युपगन्तव्या
अन्यथैव ह्यस्फुटावभासिनी धीरुभयथा सुप्तस्य जाग्रतो
पि वा कल्पिका युक्ता । (२९९)
यत एवं (।)
तस्मात् कल्पनापोढमित्युक्ते तिमिरज्ञानस्याविकल्पे निर्व्विकल्पत्वेपि सति
प्रामाण्यं प्रत्यक्षात्मकं प्राप्तं सतैमिरमित्यपवादेन विसम्वादात् प्रतिषिध्यते ।
संवादलक्षणत्वात्प्रामाण्यस्य । तदर्थमुपप्लुतज्ञाननिवृत्त्यर्थ चाचार्य दिङ् ना गे न प्रत्य
क्षाभं संक्षेपतो द्विधोक्तं सविकल्पमविकल्पञ्च । उक्तं प्रत्यक्षाभं ॥ XX ॥(३००)
८. प्रमाणफलचिन्ता
प्रमाण
फलव्यवस्थां कर्तुमाह ।
क्रियायाः साधनं हेतुरित्येव न हि सर्व्वं कारणं सर्व्वस्य कर्म्मणः क्रियायाः
साधनं करणं (।) किन्तर्हि तद्वस्तु तस्य कर्मणः साधनं करणं या क्रिया यतः पदार्थाद