ननु चक्षुरादावनर्थभूते चक्षुरादिना रूपाद्यनुभूतमिति यथा तथा ज्ञाना
ननुभवेप्यर्थो ज्ञात इति भविष्यतीत्याह (।)
अर्थव्यक्तिहेतोश्चक्षुरादेरर्थदर्शनेप्यप्रसिद्धिरव्यक्तिः स्यात्1271 यतो न कारण
दर्शनपूर्व्वकं कार्यदर्शनं । न तु व्यक्तेरूपलब्धेर्व्यक्तमर्थमिच्छतो व्यक्त्यसिद्धि
र्युक्ता । यदि पुनर्व्यक्तेरसिद्धावपि व्यक्तं वस्तूच्यते तदा सर्व्व
मिदं जगद्
व्यक्तं्1272 स्यात् । अव्यक्तव्यक्तिकत्वेन विशेषाभावात्1273तथा ह्यर्थो न सत्तामात्रेण
प्रतीत उच्यते । प्रतिपत्तिसंयोगात् (।) नापि ज्ञानसत्तामात्रेण परचित्तज्ञानेनापि
संवेदनप्रसङ्गात् किन्तु ज्ञानानुभवेनार्थप्रतीतिर्व्वाच्या । न चान्येन सम्वेदनं ज्ञान
स्योपपपद्यत इति स्वप्रकाशमेव स्वभावतस्तद्वक्तव्यमिति स्वसम्वेदनसिद्धिरिति ।
(५४१)