विशेषोक्तेर्विकल्पान्तरं दर्शयन्नाह—

एकचक्रो रथो यन्ता विकलो विषमा हयाः ।
आक्रामत्येव तेजस्वी तथाप्यर्को जगत्त्रयम् ॥ ३२६ ॥

एकं चक्रमस्येत्येकचक्रो रथः । कथं वहति ? यन्ता सारथिश्चारुणलक्षणः अङ्गविकलः । कथं कर्मण्य ? हया रथ्याश्च विषमाः सप्त । कथं धौरेयाः ? तथाप्यर्कः तेजस्वी प्रतापविशेषयुक्तो यतस्तस्मात् जगतां त्रयमाक्रामत्यभिभवति । तेजस्तत्रनिमित्तमिति ॥