कृष्णार्जुनानुरक्ताऽपि दृष्टिः कर्णावलम्बिनी ।
याति विश्वसनीयत्वं कस्य ते कलभाषिणी ॥ ३३७ ॥

कलभाषिणि ! ते दृष्टिः कस्य नाम विश्वसनीयत्वम् विस्रब्धतां याति ? न कस्यचित् । कुतः ? यतः कृष्णे नारायणे कृष्णायां द्रौपद्यां वा अर्जुने धनञ्जये चानुरक्ता सती कर्णं तद्विपक्षमङ्गराजमवलम्बते भजते, तस्माद्विरुद्धपक्षपातिनी कथमियं विश्वास्वा खलेति शब्दच्छलेन विरोधः प्रतीयते । वस्तुतस्तु दृष्टिः कृष्णा श्यामा क्वचिदर्जुना धवला अनुरक्ता ताम्रा च स्निग्धा वा कर्णं च श्रुतिपथमायातत्वादवलम्बत इत्यविरोधः । श्लेषानुविद्धोऽयमीदृशो विरोधः प्रतिपत्तव्य इति ॥