व्याजस्तुतिमाधकृत्याह—
निन्दन्निव दोषमाचक्षाण इव स्तौति गुणं भाषते यदि चेत्, असावेवंलक्षणा व्याजस्तुतिर्मता इष्टा । कथमत्र गुणाः प्रतीयन्ते ? यतस्तुतिरियं गुणाविष्क्रियालक्षणा स्यादिति ब्रवीति । हिर्यस्मादर्थे । यदत्रोक्तिविशेषे दोषवदाभासन्ते प्रतिभान्ति तादृशपदोपादानादेर्दोषाभासा गुणा एव शौर्यादयो न दोषोऽपि कश्चित् । अत एव लेश86a स्तुतेरियं भिद्यते । तत्र हि दोषे गुणः कश्चिदेव प्रती[य]ते । यदुक्तम्—