88b एव कश्चिदुपमारूपकाख्यः । यथा व्यतिरेकगर्मी रूपकविकल्पो व्यतिरेकरूपकमाख्यायते । तदेतत्त्रयं यथालक्षणमुपमारूपकसंगृहीतमिति न किञ्चित् [तिर]ष्क्रियते ॥

उत्प्रेक्षावयवो नाम पृथगलङ्कारः परैरिष्यते । यदुक्तम्—

श्लिष्टस्यार्थेन संयुक्तः किञ्चिदुत्प्रेक्षायान्वितः ।
रूपकार्थेन च पुनरुत्प्रेक्षावयवो यथा ॥
तुल्योदयोऽवसानत्वाद्गतेऽस्तं प्रति भास्वति ।
वासाय वासरः ल्कान्तो विशतीव तमोगुहाम् ॥ इति ।
107

सोऽप्युत्प्रेक्षाविशेषत्वात् उत्प्रेक्षासंगृहीत इति दर्शयन्नाह—

उत्प्रेक्षाभेद एवासावुत्प्रेक्षावयवोऽपि यः ।

यः परैरुत्प्रेक्षावयवः पृथगुक्तः असौ सोऽपि चायमुत्प्रेक्षाया भेदो विशेषः कश्चित् । ततस्तत्संगृहीत एवेति नासंग्रहः कश्चित् ।

संसृष्टिं व्याचष्टे—

नानालङ्कारसंसृष्टिः संसृष्टिस्तु निगद्यते ॥ ३५७ ॥

नाना अनेकस्यालङ्कारस्य संसृष्टिः संसर्गः एकत्रोक्तौ सन्निधानं संसृष्टिस्तु निगद्यते विधीयते, यदुद्देशं संकीर्णमुक्तम् । तुशब्देनैतदाह—जात्यादीनामिव नास्याः पृथग्लक्षणम् । तेषामेव तु द्वयोर्बहूनां वा संसर्गलक्षणेयमिति ॥

कथमनेकस्यालङ्कारस्य एकत्रोक्तौ अवस्थानमिति सापेक्षत्वनिरपेक्षत्वरूपं प्रकारद्वयं दर्शयन्नाह—

  1. काव्यालङ्कारे ३.४७-४८