सोमः सूर्यो मरुद् भूमिर्व्योम होतानलो जलम् ।
इति मूर्त्तीरतिक्रम्य त्वां द्रष्टुं देव ! के वयम् ॥ २७६ ॥

होता यजमानः । इत्येवंभूतानि रूपाणि व्यक्तानि अष्टौ मूर्त्तीस्तवातिक्रम्य मु[क्त्वा] देव ! त्वामत्यन्ताव्यक्तपरमतत्त्वं योगिभिरपि महद्भिरगम्यं द्रष्टुं साक्षात्कर्तु के वयमितरे प्राणिनः ? नैवास्मादृशोऽगोचरो देवः । सोमादीनि व्यक्तानि रूपाणि देवस्य यदि वयं पश्येम इति ॥