नानैकान्तिकता हेतोरिति दर्शयन्नाह—जन्मेत्यादि ।
जन्मातिरिक्तकालं हि क्रियाकालं परे जगुः ।
इष्टाशुतरनाशेषु दीपादिष्वपि वस्तुषु ॥ ६९३ ॥
इष्ट आशुतरो विनाशो येषां ते तथा । प्रदीपादेरपि हि शीघ्रतरकालविनाशित
याऽभीष्टस्यापि जन्मोत्तरकालभाविन्येव क्रिया, षट्क्षणस्थायित्वेनास्याक्षणिकत्वात्
॥ ६९३ ॥