370
प्रच्छन्नमल्पकुष्ठे महति च शस्तं शिराव्यधनम् ॥
बहुदोषः संशोध्यः कुष्ठी बहुशोऽनुरक्षता प्राणान् ॥ २ ॥
दोषे ह्यतिमात्रहृते वायुर्हन्याच्च बलमाशु ॥
दोषोत्क्लिष्टे हृदये वमनं कुष्ठेषु चोर्ध्वभागेषु ॥ ३ ॥
वचावासापटोलानां निम्बस्य फलिनीत्वचः ॥
कषायो मधुना पीतो वान्तिकृन्मदनान्वितः ॥
विरेचनं प्रयोक्तव्यं त्रिवृद्दन्तीफलत्रिकैः ॥ ४ ॥
मनःशिलाले मरिचानि तैलमार्कं पयः कुष्ठहरः प्रदेहः ॥
करञ्जबीजैडगजं सकुष्ठं गोमूत्रपिष्टं च परः प्रदेहः ॥ ५ ॥
पर्णानि पिष्ट्वा चतुरङ्गुलस्य तक्रेण पर्णान्यथ काकमाच्याः ॥
तैलाक्तगात्रस्य नरस्य कुष्ठान्युद्वर्तयेदश्वहनच्छदैश्च ॥ ६ ॥
एडगजकुष्ठसैन्धवसौवीरकसर्षपैः कृमिघ्नैश्च ॥
कृमिसिध्मदद्रुमण्डलकुष्ठानां नाशनो लेपः ॥ ७ ॥