Adhikāra 52

अभ्यज्य कटुतैलेन सेकश्चोष्णाम्बुभिस्ततः ॥
तत्राऽऽशु वमनं कार्यं पटोलारिष्टवारिणा ॥ १ ॥
387
त्रिफलापुरकृष्णाभिर्विरेकश्चात्र शस्यते ॥
त्रिफलां क्षौद्रसहितां पिबेद्वा नवकार्षिकम् ॥ २ ॥
विसर्पोक्तामृतादिं तु भिषगत्रापि योजयेत् ॥
पिप्पलीवर्धमानं वा लशुनं वा प्रयोजयेत् ॥
सितां मधुकसंयुक्तां गुडमामलकैः सह ॥ ३ ॥
सगुडं दीप्यकं यस्तु खादेत्पथ्यान्नभुङ्नरः ॥
तस्य नश्यति सप्ताहादुदर्दः सर्वदेहजः ॥ ४ ॥
सिद्धार्थरजनीकल्कैः प्रपुन्नाटतिलैः सह ॥
कटुतैलेन संमिश्रमेतदुद्वर्तनं हितम् ॥ ५ ॥
दूर्वानिशायुतो लेपः कच्छूपामाविनाशनः ॥
कृमिदद्रूहरश्चैव शीतपित्तहरः स्मृतः ॥ ६ ॥
कुष्ठोक्तं च क्रमं कुर्यादम्लपित्तघ्नमेव च ॥
उदर्दोक्तां क्रियां वाऽपि कोठरोगे समासतः ॥
सर्पिः पीत्वा महातिक्तं कार्यं शोणितमोक्षणम् ॥ ७ ॥
निम्बस्य पत्राणि सदा घृतेन धात्रीविमिश्राण्यथ वोपयुञ्ज्यात् ॥
विस्फोटकोठं क्षतशीतपित्तकण्ड्वस्रपित्तं रकसां च जह्यात् ॥ ८ ॥
388
क्षारसिन्धूत्थतैलैश्च गात्राभ्यङ्गं प्रयोजयेत् ॥ ९ ॥
कुष्ठं हरिद्रे सुरसं पटोलं निम्बाश्वगन्धे सुरदारुशिग्रू ॥
ससर्षपं तुम्बरुधान्यवन्यं चण्डां च चूर्णानि समानि कुर्यात् ॥ १० ॥
तैस्तक्रयुक्तैः प्रथमं शरीरं तैलाक्तमुद्वर्तयितुं यतेत् ॥
ततोऽस्य कण्डूपिटकाः सकोठाः कुष्ठानि शोफाश्च शमं व्रजन्ति ॥ ११ ॥
तैलोद्वर्तनयोगेन योज्य एलादिको गणः ॥ १२ ॥
शुष्कमूलकयूषेण कौलत्थेन रसेन वा ॥
भोजनं सर्वदा कार्यं लावतित्तिरिजेन वा ॥ १३ ॥
शीतलान्यन्नपानानि बुद्ध्वा दोषगतिं भिषक् ॥
उष्णानि वा यथादोषं शीतपित्ते प्रयोजयेत् ॥ १४ ॥