Adhikāra 59

कपित्थमातुलुङ्गाम्लशृङ्गवेररसैः शुभैः ॥
सुखोष्णैः पूरयेत्कर्णं कर्णशूलोपशान्तये ॥ १ ॥
शृङ्गवेररसः क्षौद्रं सैन्धवं तैलमेव च ॥
कदुष्णं कर्णयोर्देयमेतद्वा वेदनापहम् ॥ २ ॥
लशुनार्द्रकशिग्रूणां मुरङ्ग्या मूलकस्य च ॥
कदल्याः स्वरसः श्रेष्ठः कदुष्णः कर्णपूरणे ॥
समुद्रफेनचूर्णेन युक्त्या वाऽप्यवचूर्णयेत् ॥ ३ ॥
436
आर्द्रकसूर्यावर्तकसौभाञ्जनमूलमूलकस्वरसाः ॥
मधुसैन्धवतैलयुताः पृथगुष्णाः कर्णशूलहराः ॥ ४ ॥
सौभाञ्जनस्य निर्यासस्तिलतैलेन संयुतः ॥
व्यक्तोष्णः पूरणः कर्णे कर्णशूलोपशान्तये ॥ ५ ॥
अष्टानामपि मूत्राणां मूत्रेणान्यतमेन वा ॥
कोष्णेन पूरयेत्कर्णं कर्णशूलोपशान्तये ॥ ६ ॥
अश्वत्थपत्रखल्लं वा विधाय बहुपत्रकम् ॥
तैलाक्तमङ्गारचितं निदध्याच्छ्रवणोपरि ॥ ७ ॥
यत्तैलं च्यवते तस्मात्खल्लादङ्गारतापितात् ॥
तत्प्राप्तं श्रवणस्रोतः सद्यो गृह्णाति वेदनाम् ॥ ८ ॥
महतः पञ्चमूलस्य काण्डान्यष्टाङ्गुलानि च ॥
क्षौमेणाऽऽवेष्ट्य संसिच्य तैलेनाऽऽदीपयेत्ततः ॥ ९ ॥
यत्तैलं च्यवते तेभ्यः सुखोष्णं तत्प्रयोजयेत् ॥
ज्ञेयं तद्दीपिकातैलं कर्णशूलनिवारणम् ॥ १० ॥
अर्कस्य पत्रं परिणामपीतमाज्येन लिप्तं शिखिनाऽभितप्तम् ॥
आपीड्य तोयं श्रवणे निषिक्तं निहन्ति शूलं बहुवेदनां च ॥ ११ ॥
437
तीव्रशूलातुरे कर्णे सशब्दे क्लेदवाहिनि ॥
बस्तमूत्रं क्षिपेत्कोष्णं सैन्धवेन समन्वितम् ॥ १२ ॥
वंशावलेखसंयुक्तं मूत्र वाऽऽजाविके भिषक् ॥
तैलं पचेत्तेन कर्णं पूरयेत्कर्णशूलिनः ॥ १३ ॥
धारयेत्पूरणं कर्णे कर्णमूलं विमर्दयन् ॥
रुजः स्यान्मार्दवं यावन्मात्राशतमवेदने ॥ १४ ॥
हिङ्गुतुम्बुरुशुण्ठीभिः साध्यं तैलं तु सार्षपम् ॥
कर्णशूले प्रणादे तु पूरणं हितमुच्यते ॥ १५ ॥
वालमूलकशुण्ठीनां क्षारो हिङ्गु सनागरम् ॥
शतपुष्पा वचा कुष्ठं दारुशिग्रुरसाञ्जनम् ॥ १६ ॥
सौवर्चलं यवक्षारः स्वर्जिकोद्भिदसैन्धवम् ॥
भूर्जग्रन्थिर्विडं मुस्तं मधुशुक्तं चतुर्गुणम् ॥ १७ ॥
मातुलुङ्गरसश्चैव कदल्या रस एव च ॥
तैलमेभिर्विपक्तव्यं कर्णशूलहरं परम् ॥ १८ ॥
बाधिर्यं कर्णनादश्च पूयास्रावश्च दारुणः ॥
पूरणादस्य तैलस्य कृमयः कर्णसंश्रिताः ॥ १९ ॥
438
क्षिप्रं विनाशमायान्ति कृष्णात्रेयस्य शासनात् ॥
क्षारतैलमिदं श्रेष्ठं मुखपाकामयापहम् ॥ २० ॥
छेदं मध्विति कृत्वैव शुक्तकादि चतुर्गुणम् ॥
तैलात्प्रत्येकमन्ये तु मधुशुक्तं लिखन्ति च ॥ २१ ॥
यवाम्भोमधुसंयुक्तं शृङ्गवेरगुडान्वितम् ॥
धान्यराशौ त्रिरात्रस्थं मधुशुक्तमुदाहृतम् ॥ २२ ॥
कर्णनादे कर्णक्ष्वेडे कटुतैलेन पूरणम् ॥
नादबाधिर्ययोः कुर्याद्वातशूलोक्तमौषधम् ॥ २३ ॥
मार्गक्षारजलेन तत्कृतकल्केन साधितं तिलजम् ॥
अपहरति कर्णनादं बाधिर्यं चापि पूरणतः ॥ २४ ॥
439
दशमूलीकषायेण तैलप्रस्थं विपाचयेत् ॥
एतत्कर्णे प्रदातव्यं बाधिर्ये परमौषधम् ॥ २५ ॥
फलं बिल्वस्य मूत्रेण पिष्ट्वा तैलं विपाचयेत् ॥
सक्षीरं तत्र वितरेद्बाधिर्ये कर्णपूरणम् ॥ २६ ॥
एवमेव विधिः कार्यः प्रणादे नस्यपूर्वकः ॥
गुडनागरतोयेन नस्यं स्यादुभयोरपि ॥ २७ ॥
चूर्णं पञ्चकषायाणां कपित्थरससंयुतम् ॥
कर्णस्रावे प्रशंसन्ति पूरणं मधुना सह ॥ २८ ॥
तिन्दुकान्यभया लोध्रं समङ्गा चाऽऽमलक्यपि ॥
पञ्चकषायशब्देन ग्राह्यमेतद्भवेदिह ॥ २९ ॥
सर्जत्वक्चूर्णसंयुक्तः कर्पासीफलजो रसः ॥
मधुना संयुतः साधुः कर्णस्रावे प्रशस्यते ॥ ३० ॥
440
जम्ब्वाम्रपत्रं तरुणं समांशं कपित्थकार्पासफलं च सार्द्रम् ॥ ३१ ॥
क्षुत्त्वा रसं तं मधुना विमिश्रं स्रावापहं तं प्रवदन्ति तज्ज्ञाः ॥
एभिः शृतं निम्बकरञ्जतैलं ससार्षपं स्रावहरं प्रदिष्टम् ॥ ३२ ॥
पुटपाकविधिस्विन्नहस्तिविड्जातकौटजः ॥
रसः सतैलसिन्धूत्थः कर्णस्रावहरः परः ॥ ३३ ॥
शम्बूकस्य तु मांसेन कटुतैलं विपाचयेत् ॥
तस्य पूरणमात्रेण कर्णनाडी प्रशाम्यति ॥ ३४ ॥
चूर्णेन गन्धकशिलारजनीभवेन
मुष्ट्यंशकेन कटुतैलपलाष्टकं यत् ॥
धत्तूरपत्ररसतुल्यमिदं विपक्वं
नाडीं जयेच्चिरभवामपि कर्णजाताम् ॥ ३५ ॥
अथ कर्णप्रतीनाहे स्नेहस्वेदौ प्रयोजयेत् ॥
ततो विरिक्तशिरसः क्रियां प्राप्तां समाचरेत् ॥ ३६ ॥
441
कर्णपाकस्य भैषज्यं कुर्यात्क्षतविसर्पवत् ॥
नाडीस्वेदोऽथ वमनं धूमो मूर्धविरेचनम् ॥
विधिश्च कफहृत्सर्वः कर्णकण्डूमपोहति ॥ ३७ ॥
क्लेदयित्वा तु तैलेन स्वेदेन प्रविलाय्य च ॥
शोधयेत्कर्णगूथं तु भिषक्सम्यक्शलाकया ॥ ३८ ॥
निर्गुण्डीस्वरसस्तैलं सिन्धुर्धूमरजो गुडः ॥
पूरणात्पूतिकर्णस्य शमनो मधुसंयुतः ॥ ३९ ॥
जातीपत्ररसे तैलं विपक्वं पूतिकर्णजित् ॥ ४० ॥
वरुणार्ककपित्थाम्रजम्बूपल्लवसाधितम् ॥
पूतिकर्णापहं तैलं जातीपत्ररसोऽथ वा ॥ ४१ ॥
सूर्यावर्तकस्वरसं सिन्दुवाररसं तथा ॥
लाङ्गलीमूलकरसं त्र्यूषणेनावचूर्णितम् ॥
पूरयेत्कृमिकर्णं तु जन्तूनां नाशनं परम् ॥ ४२ ॥
कृमिकर्णविनाशार्थं कृमिघ्नं योजयेद्विधिम् ॥ ४३ ॥
442
वार्ताकधूपश्च हितः सार्षपस्नेह एव च ॥ ४४ ॥
पूरणं हरितालेन गवां मूत्रयुतेन च ॥
धूपनं कर्णदौर्गन्ध्ये गुग्गुलुः श्रेष्ठ उच्यते ॥
कृमिघ्नं हरितालेन गवां मूत्रयुतेन च ॥ ४५ ॥
राजवृक्षादितोयेन सुरसादिजलेन वा ॥
कर्णप्रक्षालनं कुर्याच्चूर्णैरेतैस्तु पूरणम् ॥
विद्रधौ चापि कुर्वीत विद्रध्युक्तं च भेषजम् ॥ ४६ ॥
घृष्टं रसाञ्जनं नार्याः क्षीरेण क्षौद्रसंयुतम् ॥
प्रशस्यते चिरोत्थेऽपि सास्रावे पूतिकर्णके ॥ ४७ ॥
कुष्ठहिङ्गुवचादारुशताह्वाविश्वसैन्धवैः ॥
पूतिकर्णापहं तैलं बस्तमूत्रेण साधितम् ॥ ४८ ॥
443
शतावरीवाजिगन्धापयस्यैरण्डबीजकैः ॥
तैलं विपक्वं सक्षीरं पालीनां पुष्टिकृत्परम् ॥ ४९ ॥
कल्केन जीवनीयेन तैलं पयसि पाचितम् ॥
आनूपमांसक्वाथेन पालिपोषणवर्धनम् ॥ ५० ॥