Adhikāra 64

योनिव्यापत्सु भूयिष्ठं शस्यते कर्म वातजित् ॥
बस्त्यभ्यङ्गपरीषेकप्रलेपपिचुधारणम् ॥ १ ॥
वचोपकुञ्चिकाजाजीकृष्णावृषकसैन्धवम् ॥
अजमोदायवक्षारचित्रकं शर्करान्वितम् ॥ २ ॥
पिष्ट्वा प्रसन्नयाऽऽलोड्य खादेत्तद्घृतभर्जितम् ॥
योनिपार्श्वार्तिहृद्रोगगुल्मार्शोविनिवृत्तये ॥ ३ ॥
रास्नाश्वदंष्ट्रावृषकैः शृतं शूलहरं पयः ॥
गुडूचीत्रिफलादन्तीक्वाथैश्च परिषेचनम् ॥ ४ ॥
नतवार्ताकिनीकुष्ठसैन्धवामरदारुभिः ॥
तैलात्प्रसाधिताद्धार्यः पिचुर्योनौ रुजापहः ॥ ५ ॥
498
पित्तलानां तु योनीनां सेकाभ्यङ्गपिचुक्रियाः ॥
शीतपित्तहराः कार्याः स्नेहनार्थं घृतानि च ॥ ६ ॥
योन्यां बलासदुष्टायां सर्वं रूक्षोष्णमौषधम् ॥ ७ ॥
पिप्पल्या मरिचैर्माषैः शताह्वाकुष्ठसैन्धवैः ॥
वर्तिस्तुल्या प्रदेशिन्या धार्या योनिविशोधनी ॥ ८ ॥
पुष्योद्धृतं लक्ष्मणाया मूलं पिष्टं च कन्यया ॥
ऋत्वन्ते घृतदुग्धाभ्यां पीत्वाऽऽप्नोत्यबला सुतम् ॥ ९ ॥
क्वाथेन हयगन्धायाः साधितं सघृतं पयः ॥
ऋतुस्नाताऽबला पीत्वा गर्भं धत्ते न संशयः ॥ १० ॥
मञ्जिष्ठा मधुकं कुष्ठं त्रिफला शर्करा बला ॥
मेदा पयस्या काकोली मूलं चैवाश्वगन्धजम् ॥ ११ ॥
अजमोदा हरिद्रे द्वे हिङ्गुकं कटुरोहिणी ॥
उत्पलं कुमुदं द्राक्षाकाकोल्यौ चन्दनद्वयम् ॥ १२ ॥
एतेषां कार्षिकैर्भागैर्घृतप्रस्थं विपाचयेत् ॥
शतावरीरसं क्षीरं घृताद्देयं चतुर्गुणम् ॥ १३ ॥
सर्पिरेतन्नरः पीत्वा स्त्रीषु नित्यं वृषायते ॥
पुत्राञ्जनयते नारी मेधाढ्यान्प्रियदर्शनान् ॥ १४ ॥
या च वाऽस्थिरगर्भा स्याद्या वा जनयते मृतम् ॥
अल्पायुषं च जनयेद्या च कन्यां प्रसूयते ॥ १५ ॥
499
योनिदोषे रजोदोषे गर्भस्रावे च शस्यते ॥
प्रजावर्धनमायुष्यं सर्वग्रहनिवारणम् ॥ १६ ॥
नाम्ना फलघृतं चैतदश्विभ्यां परिकीर्तितम् ॥
अनुक्तं लक्ष्मणामूलं क्षिपन्त्यत्र चिकित्सकाः ॥ १७ ॥
कुष्ठं मुस्तं हरिद्रे द्वे पिप्पली कटुरोहिणी ॥
काकोली क्षीरकाकोली विशाला त्रिफलोत्पलम् ॥
मेदारास्नाविडङ्गानि देवदारु सहिङ्गुकम् ॥ १८ ॥
द्वे सारिवे शताह्वा च वचा यष्टी प्रियंगुका ॥
अजमोदा महामेदा चन्दनं रक्तचन्दनम् ॥ १९ ॥
जातीपुष्पं तुगाक्षीरी कट्फलं सितशर्करा ॥
एतैरक्षसमैः कल्कैर्घृतप्रस्थं भिषक्तमः ॥ २० ॥
चतुर्गुणेन पयसा विपचेद्गोमयाग्निना ॥
शुभेऽह्नि पुष्यसंयुक्ते भाण्डे ताम्रमये दृढे ॥ २१ ॥
कलशे हेमकल्याणे कृतकौतुकमङ्गले ॥
सर्पिरेतन्नरः पीत्वा स्त्रीषु नित्यं वृषायते ॥ २२ ॥
या च वन्ध्या भवेन्नारी या च कन्याप्रजायिनी(न्यां प्रसूयते) ॥
या च वाऽस्थिरगर्भा स्याद्या च सूत्वा पुनः स्थिता ॥ २३ ॥
अल्पायुषं च जनयेद्या वा जनयते मृतम् ॥
तादृशं जनयेत्पुत्रं वेदवेदाङ्गपारगम् ॥ २४ ॥
रूपलावण्यसंपन्नं शतायुं विगतज्वरम् ॥
नाम्ना फलघृतं ह्येतद्भारद्वाजेन निर्मितम् ॥ २५ ॥
सिद्धार्थकं वचां ब्राह्मीं शङ्खपुष्पीं विषाणिकाम् ॥
पयस्यां मधुकं कुष्ठं तथा कटुकरोहिणीम् ॥ २६ ॥
500
सारिवां त्रिफलां चैव चोरकं सुमनोलताम् ॥
वृषपुष्पं समञ्जिष्ठं देवदारु महौषधम् ॥ २७ ॥
पिप्पल्यौ भृङ्गराजं च निशां श्यामां सुवर्चलाम् ॥
दशमूलमपामार्गमश्वगन्धां शतावरीम् ॥ २८ ॥
जलद्रोणे पचेदेतान्भागैर्द्विपलिकैः पृथक् ॥
तत्कषायं परिस्राव्य घृतस्यार्धाढकं पचेत् ॥ २९ ॥
युक्त्या प्रदापयेदेतद्गायत्र्या चाभिमन्त्रितम् ॥
द्विमासगर्भिणी नारी अष्टमासान्प्रयोजयेत् ॥ ३० ॥
सर्वज्ञं जनयेत्पुत्रं सर्वामयविवर्जितम् ॥
अस्य प्रयोगात्कुक्षिस्थः स्फुटवाग्व्याहरत्यपि ॥ ३१ ॥
योनिदुष्टाश्च या नार्यः शुक्रदुष्टाश्च ये नराः ॥
वन्ध्या च लभते पुत्रं शूरं पण्डितमानिनम् ॥ ३२ ॥
जडगद्गदमूकं च पानादेव प्रशाम्यति ॥
सप्तरात्रप्रयोगेण सुस्वरं कुरुते नरम् ॥ ३३ ॥
मासत्रयोपयोगेन कुर्याच्छ्रुतिधरं नरम् ॥
नाग्निर्दहति तद्वेश्म न वज्रमुपहन्ति च ॥
न तत्र म्रियते बालो यत्राऽऽस्ते सोमसंज्ञितम् ॥ ३४ ॥
नीलोत्पलोशीरमधूकयष्टीद्राक्षाविदारीकुशपञ्चमूलैः ॥
स्याज्जीवनीयैश्च घृतं विपक्वं शतावरीकारसदुग्धमिश्रम् ॥ ३५ ॥
तच्छर्करापादयुतं प्रशस्तमसृग्दरे मारुतरक्तपित्तजे ॥
क्षीणे बले रेतसि च प्रनष्टे कृच्छ्रे च पित्तप्रभवे च गुल्मे ॥ ३६ ॥
आखोर्मांसं सपदि बहुधा खण्डखण्डीकृतं य-
त्तैलं पाच्यं द्रवति नियतं यावदेतन्न सम्यक् ॥
तत्तैलाक्तं वसनमनिशं योनिभागे दधाना
हन्ति व्रीडाकरभगफलं नात्र संदेहबुद्धिः ॥ ३७ ॥