528
कूष्माण्डकात्पलशतं सुस्विन्नं निष्कुलीकृतम् ॥
प्रस्थं च घृततैलस्य तस्मिंस्तप्ते प्रदापयेत् ॥ ३४ ॥
त्वक्पत्रधान्यकव्योषजीरकैलाद्वयानलम् ॥
ग्रन्थिकं चव्यमातङ्गपिप्पल्यः शृङ्गवेरकम् ॥ ३५ ॥
शृङ्गाटकं कसेरुं च प्रलम्बं तालमस्तकम् ॥
चूर्णीकृतं पलांशं तु गुडस्य तुलया पचेत् ॥ ३६ ॥
शीतीभूते पलान्यष्टौ मधुनः संप्रदापयेत् ॥
कफपित्तानिलहरं मन्दाग्नीनां च दीपनम् ॥ ३७ ॥
कृशानां बृंहणं श्रेष्ठं वाजीकरणमुत्तमम् ॥
प्रमदासु प्रसक्तानां ये च स्युः क्षीणरेतसः ॥ ३८ ॥
क्षयेण च गृहीतानां परमेतद्भिषग्जितम् ॥
कासं श्वासं ज्वरं हिक्कां हन्ति च्छर्दिमरोचकम् ॥ ३९ ॥
गुडकूष्माण्डकं ख्यातमश्विभ्यां समुदाहृतम् ॥
खण्डकूष्माण्डवत्पात्रं स्विन्नकूष्माण्डकद्रवः ॥ ४० ॥
यत्किंचिन्मधुरं स्निग्धं बृंहणं जीवनं गुरु ॥
हर्षणं मनसश्चैव तत्सर्वं वृष्यमुच्यते ॥ ४१ ॥
सुरूपा यौवनस्था या भूषणैश्च विभूषिता ॥
या वश्या शिक्षिता या च सा स्त्री वृष्यतमा मता ॥ ४२ ॥
नान्तर्वै षोडशाद्वर्षात्सप्ततेः परतो न च ॥
आयुष्कामो नरः स्त्रीभिः संयोगं कर्तुमर्हति ॥ ४३ ॥