Adhikāra 71

530
यथादोषं यथाव्याधि यथाकालं यथाबलम् ॥
स्नेहं पक्वमपक्वं वा पातुं युञ्ज्याच्चिकित्सकः ॥ १ ॥
केवलं पैत्तिके सर्पिर्वातिके लवणान्वितम् ॥
देयं बहुकफे चापि व्योषक्षारसमायुतम् ॥ २ ॥
531
स्नेहसात्म्यः क्लेशसहो दृढः काले च शीतले ॥
अच्छमेव पिबेत्स्नेहमच्छपानं च शोभनम् ॥ ३ ॥
532
उष्णोदकानुपानं तु स्नेहानामथ शस्यते ॥
ऋते भल्लातकस्नेहात्तत्र तोयं सुशीतलम् ॥ ४ ॥
स्नेहपीतस्तु तृष्णायां पिबेदुष्णोदकं नरः ॥
एवं चानुपशाम्यन्त्यां स्नेहमुष्णाम्बुनोद्धरेत् ॥ ५ ॥
मिथ्याचाराद्बहुत्वाद्वा यस्य स्नेहो न जीर्यति ॥
विष्टभ्य चापि जीर्येत वारिणोष्णेन वामयेत् ॥ ६ ॥
ततः स्नेहं पुनर्दद्याल्लघुकोष्ठाय देहिने ॥
जीर्णाजीर्णविशङ्कायां पिबेदुष्णोदकं नरः ॥
तेनोद्गारो भवेच्छुद्धो रुचिश्चान्नं भवेत्प्रति ॥ ७ ॥
स्युः पच्यमाने तृड्दाहभ्रमसादारुचिक्लमाः ॥ ८ ॥
533
परिषिच्याद्भिरुष्णाभिर्जीर्णस्नेहं ततो नरम् ॥
यवागूं पाययेदुष्णां क्लिन्नामत्यल्पतण्डुलाम् ॥ ९ ॥
पिबेत्त्रयहं चतुरहं पञ्चाहं षडहं तथा ॥
सप्तरात्रात्परं स्नेहः सात्म्यीभावाय कल्पते ॥ १० ॥
534
शुद्ध्यर्थं पुनराहारे नैशे जीर्णे प्रयोजयेत् ॥
पिबेत्संशमनीयं वा अन्नकाले प्रकाङ्क्षितः ॥ ११ ॥
स्नेहद्विषः कृशान्वृद्धान्सुकुमाराञ्शिशूनपि ॥
तृष्णालुं चोष्णकाले च सह भक्तेन पाययेत् ॥ १२ ॥
भृष्टा मांसरसे स्निग्धा यवागूः स्वल्पतण्डुला ॥
सक्षौद्रा सेव्यमाना तु सद्यः स्नेहनमुच्यते ॥ १३ ॥
सर्पिष्मतीं बहुतिलां यवागूं स्वल्पतण्डुलाम् ॥
पिबेत्सुखोष्णां मनुजः सद्यो रौक्ष्यात्प्रमुच्यते ॥ १४ ॥
शर्कराघृतसंसृष्टे दुह्याद्गां कलशे तथा ॥
पाययेदक्षमेतद्धि सद्यः स्नेहनमुच्यते ॥ १५ ॥
535
पिप्पल्यो लवणं स्नेहाश्चत्वारो दधिमस्तकम् ॥
पीतामैकध्यमेतद्धि सद्यःस्नेहनमुच्यते ॥ १६ ॥
विवर्जयेत्स्नेहपानमजीर्णी तरुणज्वरी ॥
दुर्बलोऽरोचकी स्थूलो मूर्छार्त्रो मदपीडितः ॥ १७ ॥
छर्द्यर्दितस्तु तृषितः श्रान्तः पानक्लमान्वितः ॥
दत्तबस्तिर्विरिक्तश्च वान्तो यश्चापि मानवः ॥
अकाले च प्रसूता स्त्री स्नेहपानं विवर्जयेत् ॥ १८ ॥
रूक्षं पुरीषं ग्रथितं कृच्छ्रादन्नं विपच्यते ॥ १९ ॥
उरो विदह्यते वायुः कोष्ठादुपरि धावति ॥
दुर्वर्णो दुर्बलश्चैव रूक्षो भवति मानवः ॥ २० ॥
ग्लानिः सदनमङ्गानामधस्तात्स्नेहदर्शनम् ॥
सम्यक्स्निग्धस्य लिङ्गानि स्नेहद्वेषस्तथैव च ॥ २१ ॥
भक्तद्वेषोऽसुखास्रावो गुदे दाहः प्रवाहिका ॥
पुरीषातिप्रवृत्तिश्च भृशं स्निग्धस्य लक्षणम् ॥ २२ ॥
536
रूक्षस्य स्नेहनं स्नेहैरतिस्निग्धस्य रूक्षणम् ॥
श्यामाककोरदूषान्नतक्रपिण्याकसक्तुभिः ॥
स्नेहात्प्रस्कन्दनं जन्तुस्त्रिरात्रोपरतः पिबेत् ॥ २३ ॥
दीप्तान्तराग्निः परिशुद्धकोष्ठः प्रत्यग्रधातुर्बलवर्णयुक्तः ॥
दृढेन्द्रियो मन्दजरः शतायुः स्नेहोपसेवी पुरुषो भवेद्धि ॥ २४ ॥
स्नेहमेव परं विद्याद्दुर्बलानलदीपनम् ॥
नालं स्नेहसमिद्धस्य शमायान्नं सुगुर्वपि ॥ २५ ॥