Adhikāra 77

586
प्रायोगिकः कासहरश्च धूमो वैरेचनः स्नैहिकवामनीयौ ॥
एलादिना कुष्ठनतोज्झितेन क्षौमं प्रलिप्याङ्गुलकाष्ठमाना ॥
प्रायोगिके वर्तिरिदं तु नेत्रमष्टाङ्गुलं षड्गुणितं प्रशस्तम् ॥ १ ॥
587
बृहत्यौ त्र्यूषणं शृङ्गी चेङ्गुदीत्वङ्मनःशिला ॥
एषा कासहरा वर्तिर्नेत्रं षोडशकाङ्गुलम् ॥ २ ॥
शिरोविरेचनैर्वर्तिर्नेत्रं हस्तमितं मतम् ॥ ३ ॥
स्निग्धमज्जमधूच्छिष्टस्नेहगुग्गुलुसर्जकैः ॥
स्नैहिकैर्वर्तिरेभिस्तु नेत्रं द्वात्रिंशदङ्गुलम् ॥ ४ ॥
वामनीये तु वल्लूरस्नाय्वस्थिखुरचर्मभिः ॥
वर्तिर्दशाङ्गुलं नेत्रं धूमः पञ्चविधो मतः ॥ ५ ॥
588
अङ्गुल्याः परिणाहेन मध्ये स्थूलाऽन्तयोस्तनुः ॥
षड्भागो धूमनेत्रस्य वर्त्या मानं प्रशस्यते ॥ ६ ॥
धूमोपयोगात्पुरुषः प्रसन्नेन्द्रियवाङ्मनाः ॥
दृढकेशद्विजश्मश्रुः सुगन्धिविशदाननः ॥ ७ ॥
प्रगाढं पानमिच्छन्ति धूमस्याऽऽस्येन तद्विदः ॥
उरःकण्ठाश्रये दोषे मुखेनैव पिबेन्नरः ॥ ८ ॥
शिरःकर्णाक्षिनासोत्थे नस्ततः(नासया) शमनं पिबेत् ॥
निर्वमेत्तु मुखेनैव नासया न कथंचन ॥
विलोमगो ह्याशु धूमः कुर्याद्दर्शनविभ्रमम् ॥ ९ ॥
589

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.

590

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.