Adhikāra 45

सद्यःक्षतं व्रणं वैद्यः सशूलं परिषेचयेत् ॥
यष्टीमधुकयुक्तेन किंचिदुष्णेन सर्पिषा ॥ १ ॥
बुद्ध्वाऽऽगन्तुव्रणं वैद्यो घृतक्षौद्रसमन्वितम् ॥
शीतां क्रियां प्रयुञ्जीत पित्तरक्तोष्मनाशनीम् ॥ २ ॥
कान्तक्रामुकमेकं सुश्लक्ष्णं गव्यसर्पिषा पिष्टम् ॥
शमयति नियतं लेपाद्व्रणमागन्तुं न संदेहः ॥ ३ ॥
353
क्षतोष्मणो निग्रहार्थं तत्कालं विसृतस्य च ॥
कषायाः शीतमधुराः स्निग्धा लेपादयो हिताः ॥ ४ ॥
आमाशयस्थे रुधिरे वमनं पथ्यमुच्यते ॥
पक्वाशयस्थे देयं च विरेचनमसंशयम् ॥ ५ ॥
क्वाथो वंशत्वगेरण्डश्वदंष्ट्राश्मभिदा कृतः ॥
सहिङ्गुलवणः पीतः कोष्ठस्थं स्रावयेदसृक् ॥ ६ ॥
यवकोलकुलत्थानां निस्नेहेन रसेन च ॥
भुञ्जीतान्नं यवागूं वा पिबेत्सैन्धवसंयुताम् ॥ ७ ॥
अत्यर्थमस्रं स्रवति प्रायशो यत्र वै क्षते ॥
ततो रक्तक्षयाद्वायौ कुपितेऽतिरुजाकरे ॥ ८ ॥
स्नेहपानपरीषेकस्निग्धलेपोपनाहनम् ॥
स्नेहबस्तिं च कुर्वीत वातघ्नौषधसाधितम् ॥ ९ ॥
इति साप्ताहिकः प्रोक्तः सद्योव्रणहितो विधिः ॥
सप्ताहात्परतः कार्या शारीरव्रणवत्क्रिया ॥ १० ॥
गौरा हरिद्रा मञ्जिष्ठा मांसी मधुकमेव च ॥
प्रपौण्डरीकं हीवेरं भद्रमुस्तं सचन्दनम् ॥ ११ ॥
जातीनिम्बपटोलं च करञ्जः कटुरोहिणी ॥
मधूच्छिष्टं मधूकं च महामेदा तथैव च ॥ १२ ॥
पञ्चवल्कलतोयेन घृतप्रस्थं विपाचयेत् ॥
एष गौरो महावीर्यः सर्वब्रणविशोधनः ॥ १३ ॥
354
आगन्तुसहजाश्चैव चिरोत्थाश्चैव ये व्रणाः ॥
विषमामपि नाडीं च शोधयेच्छीघ्रमेव च ॥ १४ ॥
नक्तमालस्य पत्राणि तरुणानि फलानि च ॥
सुमनायाश्च पत्राणि पटोलारिष्टयोस्तथा ॥ १५ ॥
द्वे हरिद्रे मधूच्छिष्टं मधुकं तिक्तरोहिणी ॥
मञ्जिष्ठा चन्दनोशीरमुत्पलं सारिवे त्रिवृत् ॥ १६ ॥
एतेषां कार्षिकैर्भागैर्घृतप्रस्थं विपाचयेत् ॥
दुष्टव्रणप्रशमनं तथा नाडीविशोधनम् ॥
सद्यश्छिन्नव्रणानां च करञ्जाद्यमिदं घृतम् ॥ १७ ॥
जातीनिम्बपटोलपत्रकटुकादार्वीनिशासारिवा-
मञ्जिष्ठाभयसिक्थतुत्थमधुकैर्नक्ताह्वबीजैः समैः ॥
सर्पिः सिद्धमनेन सूक्ष्मवदना मर्माश्रिताः स्राविणो
गम्भीराः सरुजो व्रणाः सगतिकाः शुध्यन्ति रोहन्ति च ॥ १८ ॥
प्रपौण्डरीकमञ्जिष्ठामधुकोशीरपद्मकैः ॥
सहरिद्रैः कृतं सर्पिः सक्षीरं व्रणरोपणम् ॥ १९ ॥
355
मधूच्छिष्टं समधुकं लोध्रं सर्जरसं तथा ॥
मञ्जिष्ठां चन्दनं मूर्वां पिष्ट्वा सर्पिर्विपाचयेत् ॥
सर्वेषामग्निदग्धानामेतद्रोपणमिष्यते ॥ २० ॥
अन्तर्दग्धकुठारको दहनजं लेपान्निहन्ति व्रण-
मश्वत्थस्य विशुष्कवल्कलकृतं चूर्णं तथा गुण्डनात् ॥
अभ्यङ्गाद्विनिहन्ति तैलमखिलं गण्डूपदैः साधितं
पिष्ट्वा शाल्मलितूलकैर्जलगता लेपात्तथा वालुकाः ॥ २१ ॥
सिद्धं कषायतैलाभ्यां पाटल्याः कटुतैलकम् ॥
दग्धव्रणरुजास्रावदाहविस्फोटनाशनम् ॥ २२ ॥
चन्दनं वटशुङ्गाश्च मञ्जिष्ठा मधुकं तथा ॥
प्रपौण्डरीकं दूर्वा च पत्त(त्रा)ङ्गं धातकी तथा ॥ २३ ॥
एतैस्तैलं विपक्तव्यं सर्पिष्क्षीरसमायुतम् ॥
अग्निदग्धव्रणे श्रेष्ठं तत्क्षणाद्रोपणं परम् ॥ २४ ॥
कुठारकात्पलशतं क्वाथयेन्नल्वणेऽम्भसि ॥ २५ ॥
ततः पादावशेषेण तैलप्रस्थं विपाचयेत् ॥
कल्कैः कुठारापामार्गप्रोष्ठिकामक्षिकासु च ॥ २६ ॥
एतत्तैलं कुठारस्य व्रणशोधनरोपणम् ॥
नाडीषु परमोऽभ्यङ्गो निजास्वागन्तुकीषु च ॥ २७ ॥
356
दूर्वास्वरससिद्धं वा तैलं कम्पिल्लकेन वा ॥
दार्वीत्वचश्च कल्केन प्रधानं व्रणरोपणम् ॥ २८ ॥
येनैव विधिना तैलं घृतं तेनैव साधयेत् ॥
रक्तपित्तोत्तरं ज्ञात्वा सर्पिरेवावचारयेत् ॥ २९ ॥
आरूढे रूढमात्रे वा व्रणे सर्वरसाशिनः ॥
आर्द्रे वा बन्धरहिते गात्रे चाभिहतेऽथ वा ॥ ३० ॥
वातोऽस्रमस्रुतं दुष्टं संशोष्य ग्रथितं व्रणम् ॥
कुर्यात्सदाहं कण्ड्वाढ्यं व्रणग्रन्थिरिति स्मृतः ॥
क्षारसूत्रं प्रयुञ्जीत दुष्टव्रणहरं विधिम् ॥ ३१ ॥