व्यास उवाच |

देवी भगवती सा हि हिमवत्तनयाव्यया |
कियन्तं कालमचरत्तपः परमदुश्चरम् || १ ||
कथं लब्धवती चापि वरं वरशतारणी |
एतदिच्छामि कथितं सर्वं वै विप्रसत्तम || २ ||

सनत्कुमार उवाच |

शृणु काले व्यतीते हि तपो देव्याः सुदुश्चरम् |
प्रयता प्राञ्जलिर्भूत्वा समाधाय मनस्तथा || ३ ||
दिवाकरे ऽभिसंधाय चक्षुश्च मन एव च |
तस्थौ वृक्षावबद्धेव दार्वर्चानिमिषेक्षणा || ४ ||
सुवर्चलेव सादित्यमीक्षती पर्यवर्तत |
एकपादोर्ध्वबाहुश्च निरुच्छ्वासा बभूव ह || ५ ||
दिव्यं वर्षसहस्रं सा निश्चलोपलवत्स्थिता |
व्याघ्रद्वितीया रुद्राणी तपोयुक्ता शुभव्रता || ६ ||
न चास्या ग्लानिरभवन्न बलक्षय एव वा |
पूर्ववच्च हि सा देवी तपसैवावतिष्ठति || ७ ||
तस्यास्तपःप्रभावेन सर्वं सस्थाणुजङ्गमम् |
अभावोपहतं यद्वज्जगदार्तं व्यतिष्ठत || ८ ||
नातिदीप्तो ऽभवत्सूर्यश्चन्द्रमा न प्रकाशते |
ज्योतींषि तिमिराण्यासन्व्योम्नि सिद्धा न यान्ति च || ९ ||
मम्लुश्च देवमाल्यानि विमानानि च पेतिरे |
स्वर्गे ऽपि न सुखं तेषामौत्सुक्यं चापि जायते || १० ||
धूमायन्ति दिशः सर्वास्त्रैलोक्यं चैव कृत्स्नशः |
विद्याधृतां गतिर्भग्ना प्रज्वलन्त्यायुधानि च || ११ ||
मृगा व्याघ्राश्च सिंहाश्च विडालोलूकमूषिकाः |
पन्नगा नकुलाश्चैव एकस्थाः संचरन्त्युत || १२ ||
ततो देवाः समागम्य ऊचुः सर्वे परस्परम् |
विपर्ययो ऽयं त्रैलोक्ये अकस्मात्सम्प्रदृश्यते |
कारणं महदत्रास्ति नेदं निष्कारणं भवेत् || १३ ||
तस्माद्वयमजानन्त एतं सर्वं विपर्ययम् |
किं तिष्ठामः समुद्विग्ना गच्छामो ब्रह्मणो ऽन्तिकम् || १४ ||
इत्युक्त्वा ते सुराः सर्वे बृहस्पतिपुरोगमाः |
वैराजभवनं गत्वा ब्रह्माणं सम्प्रणेमिरे || १५ ||
पूजिता ब्रह्मणा सम्यगुपविष्टा यथार्हतः |
पृष्टास्तेनागमे हेतुमूचुर्हृच्छोकपीडिताः || १६ ||
भगवंल् लोकतत्त्वज्ञ सर्वप्रत्यक्षदृग्विभो |
लोको ऽयं विपरीतो ऽद्य किमर्थं शंस नः प्रभो || १७ ||
तेषां तद्वचनं श्रुत्वा भीतानां सर्वयोगवित् |
उवाच मधुरं श्लक्ष्णमिदं गम्भीरवद्वचः || १८ ||
एषा हैमवती देवी रुद्राणी लोकधारणी |
तपश्चरति युक्तात्मा योगमास्थाय निश्चलम् || १९ ||
अद्य वर्षसहस्रं हि दिव्यं तस्याः समाधिना |
वर्षाणां द्वे शते चैव तथान्यच्छरदां शतम् || २० ||
तपश्चरत्या योगेन तस्यैष तपसः सुराः |
प्रभावो येन लोकानां विपरीतत्वमागतम् || २१ ||

देवा ऊचुः |

यदि तस्याः प्रभावेन महोत्पातभयं त्विदम् |
अतो भूयो दहेल्लोकांस्तस्मात्तां संनिवारय || २२ ||
सा हि देवी तपोयुक्ता अतो भूयो विभावरी |
लोकानिमान्सहास्माभिर्दहेदपि न संशयः || २३ ||
तस्माल्लोकहितार्थाय अस्माकं वचनादपि |
तथा कुरु यथा साध्वी विनिवर्तति शोभना || २४ ||

ब्रह्मोवाच |

एवं भवतु गच्छध्वं निर्वृता भवतानघाः |
वरप्रदानेनेष्टेन रुद्राणीं स्थापयाम्यहम् || २५ ||
गतेष्वथ तु देवेषु ब्रह्मा लोकपितामहः |
विमानं काञ्चनं शुभ्रं वेदिकाशतसंकुलम् || २६ ||
किङ्किणीजालसंनद्धं मुक्तादामावभासितम् |
इन्द्रनीलमयैः स्तम्भैर्जालैर्जाम्बूनदैस्तथा || २७ ||
घण्टाभिर्विश्वरूपाभिः समन्तात्परिवारितम् |
वज्रनीलेन्द्रवैडूर्यमहानीलादिभासितम् || २८ ||
स्तूपिकाभिश्च योग्याभिः स्फटिकाङ्काभिरावृतम् |
सर्वलोकमयं तद्वै स्वयं देवेन निर्मितम् || २९ ||
पञ्चभूतमयं तद्धि प्रकृतिस्थमथापि च |
शब्दादिजालसम्बद्धं घण्टेन्द्रियसुशब्दवत् || ३० ||
मुक्तादामाष्टकैर्युक्तं किङ्किणीषोडशावृतम् |
विंशतिर्वेदिकाश्चात्र विमानं तन्महाप्रभम् || ३१ ||
शतार्धलक्षणैर्दिव्यैर्मणिजातैस्तथाचितम् |
आसनैर्बहुभिर्युक्तं लोकस्थानैः समन्ततः || ३२ ||
आरुरोह विमानं तं ब्रह्मा स मुनिभिः सह |
वेदैः सह तथा चापि मन्त्रैः सर्वैस्तथैव च || ३३ ||
मध्ये तस्यासनं दिव्यं स्वर्णपद्मोपगं दृढम् |
उपोपविष्टस्तत्रासौ ब्रह्मा लोकपितामहः || ३४ ||
तस्य पार्श्वे तु सावित्री गायत्री चैव सुप्रभा |
ऋग्वेदो दक्षिणेनास्य यजुर्वेदश्च पश्चिमे |
उत्तरे सामवेदस्तु अग्रतो ऽथर्वणस्तथा || ३५ ||
प्रायश्चित्तानि धर्माश्च तपांसि विविधानि च |
दानानि च विचित्राणि क्रतवः सेष्टयस्तथा || ३६ ||
तथा व्याहृतयः पुण्यास्तथा लोकाश्च सर्वशः |
पर्वताश्चैव नद्यश्च तथा लोकस्य मातरः || ३७ ||
लोकपालाः प्रजाध्यक्षा दक्षो धर्मस्तथैव च |
भृगुरत्रिर्वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः || ३८ ||
मरीचिरङ्गिराश्चैव रुचिश्चैव महायशाः |
ऋभुः सनातनश्चैव विराजश्च महातपाः || ३९ ||
पितरश्चैव देवाश्च ब्रह्मणो ये प्रसूतयः |
पृथिवी वायुराकाशमापो ज्योतिस्तथैव च || ४० ||
एते चैव यथोद्दिष्टाः सागरा दिश एव च |
विद्याश्च धर्मकाराश्च अग्रतस्ते ऽवतस्थिरे || ४१ ||
ब्रह्मदण्डश्च दण्डश्च कलशः काञ्चनस्तथा |
कमण्डलुश्च तस्यासीत्पार्श्वयोरुभयोरपि || ४२ ||
यज्ञोपवीतं श्रीमच्च ओंकारश्च तथाग्रतः |
अक्षसूत्रं च योगं च जप्यं चैवाग्रतः स्थिताः |
स्वाहा स्वधा वषट्चैव अग्निश्चैतानि पार्श्वतः || ४३ ||
यमाश्च नियमाश्चैव साधनानि बहूनि च |
धर्मस्यैतानि सर्वाणि पार्श्वस्थान्यभवंस्ततः || ४४ ||
दया कृपाथ दानं च श्रद्धा चैव ह्रिया सह |
ऋषीणां पार्श्वगाः सर्वा दक्षिणा यज्ञपार्श्वतः || ४५ ||
ततो देवाश्च ये केचिद्ब्रह्मलोकनिवासिनः |
सर्वे समधिरुह्याशु समन्तादवतस्थिरे || ४६ ||
एवं तेषु विमानं तं समारूढेषु सर्वशः |
सुखासीनेषु सर्वेषु ब्रह्मा समनुचोदयत् || ४७ ||
तच्चोदितं योगविदग्रगामिना महाविमानोत्तमसर्वगामिना |
ययौ प्रभावेन मनोनुगामिना यथा मनः सर्वसृजेव हेतुना || ४८ ||
इति स्कन्दपुराणे त्रिपञ्चाशो ऽध्यायः ||