व्यास उवाच |

वरान्गृहीत्वा रुद्राणी तस्मिञ्छिखरसत्तमे |
अकरोत्किमिति ब्रूहि सर्वं देव्या विचेष्टितम् || १ ||

सनत्कुमार उवाच |

स्वयम्भुवि गते देवी तपसो विरराम ह |
सा तुष्टा वरदानेन चिन्तयन्ती तदा वरम् |
न्यवेक्षत दिशः सर्वाः प्रसन्नवदनेक्षणा || २ ||
कस्यैनं कथयामीति देवं हित्वेति चाब्रवीत् |
शास्त्रज्ञं कंचिदुद्दिश्य यथार्थं शास्त्रचिन्तकः || ३ ||
पुत्रलम्भकृतं हर्षं चिन्तयन्त्या मुहुर्मुहुः |
अपतज्जलमत्यर्थं शीतलं सुसुगन्धि च || ४ ||
बह्वभूत्सरसि स्वच्छं तस्यास्तत्तेजसा जलम् |
शिष्ये बुद्धिगुणेनेव गुरुणा ज्ञानमाहितम् || ५ ||
विगाहमाना सा देवी तत्सरो विमलोदकम् |
रेजे वियन्मध्यगता दीप्तेव सवितुः प्रभा || ६ ||
विगाहमाना व्यजहत्कृष्णां कोशीं तदानघा |
सा विरेजे तया मुक्ता कलेवेन्दोर्घनात्यये || ७ ||
तस्यां कोश्यां समभवत्कौशिकी लोकविश्रुता |
विश्वं सिसृक्षतो धातुर्देहादिव पुरा निशा || ८ ||
बिम्बाधरा तीक्ष्णसितोस्रदंष्ट्रा प्रसन्नताराधिपचारुवक्त्रा |
सुजातनीलाञ्चितदीर्घकेशी किंचित्समभ्युन्नतरोमराजी || ९ ||
सुसंस्थिताभ्यां चरणाम्बुजाभ्यां प्रदक्षिणावर्तनिमग्ननाभिः |
विगूढजान्वस्थिशिरा सुगुल्फा विनाकृतेवाम्बुरुहेण लक्ष्मीः || १० ||
प्रसन्नरूपा प्रथमोद्गतस्तनी प्रफुल्लनीलाम्बुजचारुलोचना |
सुसंस्कृतैर्वज्रमणिप्रवेकिभिर्विभूषिता चाभरणैः सुमध्यमा || ११ ||
साङ्गदा बद्धकेयूरा कटकोद्भासितत्विषा |
बिभर्ति सा भुजानष्टौ सायुधानपराजिता || १२ ||
बद्धगोधाङ्गुलित्राणा कवचं बिभ्रती शुभम् |
दुर्भेदं सहजं भास्वत्सेन्द्रैरपि सुरासुरैः || १३ ||
निबद्धतूणीरयुगा प्रगृहीतशरासना |
वसाना पद्मकिञ्जल्करुचिरे वाससी तदा || १४ ||
जानुभ्यामवनिं गत्वा शिरस्याधाय चाञ्जलिम् |
व्यज्ञापयत सा देवी ब्रूहि किं करवाणि ते || १५ ||
मूर्ध्न्युपाघ्राय तां देवीं परिष्वज्य च पीडितम् |
भवानी प्राह संहृष्टा मूर्तिस्थानं ममाव्यये || १६ ||
जरामरणहीना त्वं शोकदुःखविवर्जिता |
भविष्यसि महायोगा संयुगेष्वपराजिता || १७ ||
कौशिकीति च नाम्ना त्वं ख्यातिं लोके गमिष्यसि |
अन्यैश्च नामभिः श्लाघ्यैर्गुणकर्माभिसंश्रयैः || १८ ||
तव भक्त्या स्मरिष्यन्ति ये ऽतिदुर्गेषु संस्थिताः |
दुर्गाणि ते तरिष्यन्ति त्वत्प्रसादाद्वरानने || १९ ||
वरा वरेण्या वरदा दुर्गा सर्वार्थसाधनी |
इत्थं त्वां नामभिर्दिव्यैः स्तोष्यन्ति मुनयः सदा || २० ||
जप्यैः प्रणतिभिर्होमैरुपहारैः पृथग्विधैः |
प्राणिनः पूजयिष्यन्ति भवन्तीं भुवि सर्वदा || २१ ||
सिंहयुक्तं महद्दिव्यं रथमादित्यवर्चसम् |
ससर्ज सपताकं च किङ्किणीजालमण्डितम् |
विन्ध्यं गिरिवरं चास्या निवासाय समादिशत् || २२ ||
एवमुक्ता तदा देवी प्रणम्य भुवनेश्वरीम् |
आरुरोह रथं दिव्यं कार्तस्वनमयं शुभम् || २३ ||
व्योमगेन रथेनाथ नानारत्नांशुमालिना |
जगामाशु ततो विन्ध्यं नानाद्रुमलताचितम् || २४ ||
विहङ्गविरुतैर्विन्ध्यः स्वागतेनेव कौशिकीम् |
अपूजयदमेयां तां तत्र प्राप्तां तदानघाम् || २५ ||
वारिभिर्विमलैः शीतैर्निर्झरोदकनिःसृतैः |
सपुष्पनिकरैः पुण्यैरर्घं चास्यै ददन्निव || २६ ||
अथ मृगपतिनागत्रस्तपर्यन्तनागं
चकितहरिणयूथक्षुण्णदर्भाङ्कुराग्रम् |
वरमहिषविषाणच्छिन्नगुल्मावतानं
गिरिवरमभिरम्यं कौशिकी साभ्यपश्यत् || २७ ||
व्यरोचयत सा देवी वासाय शिखरं गिरेः |
उत्फुल्लपादपालीनविहङ्गगणनादितम् || २८ ||
निर्झरोदकसम्पर्कहरितोपलशाड्वलम् |
नानाद्रुमलतापुष्पसुरभीकृतमारुतम् || २९ ||
तुहिननिकरशीतैर्निर्झराम्बुप्रवाहैर्
निचितपृथुनितम्बोत्तुङ्गपर्यन्तसानुम् |
गिरिवरशिखरं तत्साध्युवासाथ देवी
कुसुमिततरुशाखाश्लिष्टमत्तद्विरेफम् || ३० ||
य इमं पठते नित्यं शृणुयाद्वा समाहितः |
कौशिक्याः सम्भवं सम्यक्स याति परमां गतिम् || ३१ ||
स्कन्दपुराणे ऽष्टपञ्चाशो ऽध्यायः ||