सनत्कुमार उवाच |

अथ निर्जित्य दैत्येन्द्रौ दिवं विक्रमशालिनौ |
जग्मतुः सहितौ दैत्यैर्विन्ध्यं तुङ्गशिलोच्चयम् || १ ||
सम्पूज्य विधिवद्दैत्यान्प्रस्थाप्य भ्रातरौ तदा |
रेमाते विन्ध्यपादेषु फुल्लपादपसानुषु || २ ||
दैत्याभ्यामथ विज्ञाय ब्रह्मा सुरपराभवम् |
विचिन्त्यैकमनाः सम्यग्वधोपायं तयोस्तदा || ३ ||
तिलं तिलं समादाय रत्नेभ्यश्चारुदर्शनाम् |
ससर्ज कमनीयाङ्गीमङ्गनां वल्गुनिस्वनाम् || ४ ||
तिलोत्तमेति तस्याश्च नाम चक्रे पितामहः |
दिव्यानामपि सा स्त्रीणामुपमेव तदा बभौ || ५ ||
अतिसंपूर्णवक्त्रां तामतीन्दीवरलोचनाम् |
अतिहंसस्वनालापामतिमत्तेभगामिनीम् || ६ ||
लक्ष्मी निरीक्ष्य सव्रीडा पङ्कजेनावृणोन्मुखम् |
वपुर्भिः स्वैश्च चार्वङ्ग्यां त्रेपुरुद्यानदेवताः || ७ ||
तामुत्पाद्य ततो धाता पाकशासनमब्रवीत् |
शम्भुना मदनः पूर्वं निर्दग्धो लोचनाग्निना || ८ ||
तस्य प्रोद्भूतये यामः सर्वे पार्श्वं पिनाकिनः |
तमाराध्य तथा कुर्मो यथा स्यान्मदनः पुनः || ९ ||
अथ ते ब्रह्मणा सार्धं तया चासुरविद्विषः |
जग्मुर्विन्ध्यगिरेः शृङ्गं यत्रास्ते भगवान्हरः || १० ||
तत्र शर्वमपश्यन्तो दध्युस्ते सुरसत्तमाः |
गृणन्तः प्रणवं सर्वे शिवसंन्यस्तचेतसः || ११ ||
अथ लिङ्गं समुत्तस्थौ तेषां मध्ये दिवौकसाम् |
सुसंहतं सुसंश्लिष्टं समूहस्तेजसामिव || १२ ||
उच्चचार तदा तस्मादुच्चैर्वाग्विशदाक्षरा |
निर्दग्धो ऽयं मया पापस्तपस्विजनकण्टकः || १३ ||
युष्मदर्थे विमोक्ष्यामि कार्यं वो यः करिष्यति |
करोतु परितश्चेयं मां प्रदक्षिणमङ्गना || १४ ||
एवमुक्ता महेशेन सा चकार प्रदक्षिणम् |
संनिधायाञ्जलिं मूर्ध्नि रक्तेन्दीवरकोमलम् || १५ ||
नेमे मूर्तिं तदा पूर्वां निःससार ततो मुखम् |
त्र्यक्षं प्रसन्नं बिम्बौष्ठममितद्युतिकान्तिमत् || १६ ||
अथ तेजो विनिःसृत्य वदनेन्दोः पिनाकिनः |
तां विवेशाङ्गनामाशु शरद्भास्करभास्वरम् || १७ ||
अथ सा दक्षिणां मूर्तिं प्रणेमे चारुदर्शना |
निर्जगाम तदा दीप्तं मुखं सुरगुरोस्ततः || १८ ||
वारिभारालसाम्भोदरुचिमद्भीमनिस्वनम् |
करालदशनोद्भासि दीप्तरक्तान्तलोचनम् || १९ ||
अत्यादित्यं ततस्तेजो मुखान्निःसृत्य दक्षिणात् |
दृश्यमानं सुरैः सर्वैर्विवेश प्रमदोत्तमाम् || २० ||
प्रणेमे सा ततस्तस्य पश्चिमां मूर्तिमञ्जसा |
निश्चक्राम ततस्तस्या मुखं त्र्यक्षमनुत्तमम् || २१ ||
ततस्तेजो विनिःसृत्य मुखेन्दोर्मदनद्विषः |
दीप्यमानं विवेशाशु तामेव प्रमदोत्तमाम् || २२ ||
उत्तरां मूर्तिमागम्य प्रणेमे सा कृताञ्जलिः |
तस्या मुखं सुसंपूर्णं सुप्रसन्नं विनिर्ययौ || २३ ||
तस्मात्तेजो विनिःसृत्य सूर्यदीप्तानलप्रभम् |
विवेश प्रमदामाशु तामेव वरवर्णिनीम् || २४ ||
मुखानि देवदेवस्य सुराणामर्थसिद्धये |
चत्वारि निर्ययुर्दिक्षु न तस्या रूपविस्मयात् || २५ ||
आत्मसंस्थं पुरा तेजो दग्ध्वा यन्मदनं कृतम् |
अनुजग्राह देवेशस्तेन तां प्रमदोत्तमाम् || २६ ||
अब्रवीच्च सुरान्सर्वांस्तत्रेदं वचनं शिवः |
यस्मादियं मां यूयं च मण्डलेन प्रदक्षिणम् || २७ ||
चक्रे सर्वे सुरश्रेष्ठाः स्थानं तस्मादिदं मम |
भविष्यति गिरौ विन्ध्ये मण्डलेश्वरसंज्ञितम् |
सांनिध्यं सर्वदा ह्यस्मिन्करिष्यामि वरप्रदम् || २८ ||
मण्डलेश्वरमीशानं दृष्ट्वा तु प्रयतो नरः |
अश्वमेधफलं प्राप्य मम लोकमवाप्स्यति || २९ ||
नैकसिद्धशताकीर्णं किंनरोरगसेवितम् |
युष्माभिः सर्वदा युक्तं भविष्यति मम प्रियम् || ३० ||
एषा तिलोत्तमा चैव यदर्थं सुरसत्तमाः |
सृष्टा युष्माभिरव्यग्रा तद्वः कार्यं करिष्यति || ३१ ||
एतामवेक्ष्य तौ दैत्यौ मोहितौ मदनार्दितौ |
अन्योन्यं यास्यतो नाशमेषा चैव भविष्यति || ३२ ||
अजरा चामरा चैव सर्वाप्सरवरा शुभा |
पूज्या चेह सदा स्थाने वन्द्या चैव भविष्यति || ३३ ||

सनत्कुमार उवाच |

एवमुक्ते महेशेन सुराः सुप्रीतचेतसः |
तां स्त्रियं प्रेषयामासुर्वधार्थं दैत्ययोस्तदा || ३४ ||
सहायान्प्रददौ चास्यै ब्रह्मा कमलवाहनः |
क्रोधं दर्पमृतून्सर्वान्रागं मदनमेव च |
कालं मृत्युं च मोहं च विषादं चामितद्युतिः || ३५ ||
अथ सम्प्रेषयित्वा तु देवतास्तां तिलोत्तमाम् |
आत्मानं पिण्डयामासुर्देवास्ते सर्व एव हि || ३६ ||
कः कः कतम आयात इहाद्येति सुरर्षभाः |
ततो मध्ये स्थितं भूयस्ते ऽपश्यन्परमेश्वरम् || ३७ ||
पिण्ड्यमानेषु देवेषु यस्मान्मध्ये समास्थितः |
पिण्डारेश्वर इत्येव तत्रासावभवत्ततः || ३८ ||
पिण्डारेश्वरमीशानं दृष्ट्वा भक्त्या तु मानवः |
सर्वाशुभविनिर्मुक्तो देहभेदे गणो भवेत् || ३९ ||
ततस्ते देवताः सर्वे कृत्वा कार्यमतन्द्रिताः |
प्रणम्य परमेशानं स्वानि सद्मानि भेजिरे || ४० ||
सापि चारुमुखापाङ्गी पीनोन्नतपयोधरा |
आक्षिपन्तीव चेतांसि सुराणां विभ्रमैस्तदा |
प्रतस्थे दक्षिणामाशामासाते यत्र दानवौ || ४१ ||
विन्ध्यपादेषु रम्येषु विहगोद्गीतसानुषु |
भ्रमन्तावथ दैत्येन्द्रौ स्थितां ददृशतुस्तु ताम् || ४२ ||
अशोकशाखामुत्फुल्लामालम्ब्योन्मत्तषट्पदाम् |
वसानामंशुकं चित्रमालम्ब्य मणिमेखलाम् || ४३ ||
गायन्तीं मधुरं रक्तं समं कलमनाकुलम् |
तारमन्द्रातितारैश्च स्वरैः सम्यगलंकृतम् || ४४ ||
साक्षादिव तपःसिद्धिं श्रियं मूर्तिमतीमिव |
प्राप्तामिव रतिं साक्षात्कान्तिं चान्द्रमसीमिव || ४५ ||
ममैवेयं ममैवेयमिति तौ दानवोत्तमौ |
अभिसृत्य शुभां देवीं पाण्योर्जगृहतुः समम् || ४६ ||
अथ दर्पमदक्रोधमात्सर्याविष्टचेतसौ |
तौ चुक्रुधतुरत्यर्थमन्योन्यस्यासुरोत्तमौ || ४७ ||
तयोर्गदे ऽन्तकः कालो मृत्युश्चाविविशुर्द्रुतम् |
प्रगृह्याथ गदे क्रुद्धावन्योन्यमभिजघ्नतुः || ४८ ||
अथैकैकेन तौ तत्र प्रहारेणाभिताडितौ |
विषण्णस्थितसर्वाङ्गौ शिवशापविमोहितौ |
विसंज्ञौ पतितौ भूमौ छिन्नमूलाविव द्रुमौ || ४९ ||
अथ निर्ययतुस्तत्र कामोपहतचेतसोः |
आत्मानौ सह शुक्रेण तयोर्दानवमुख्ययोः || ५० ||
तौ तदा निर्गतौ तत्र तयोर्जीवौ दुरात्मनोः |
बलिनौ चारुसर्वाङ्गौ बालावाशु बभूवतुः || ५१ ||
एकस्तत्राब्रवीद्बालः सुम्भो ऽहं द्विषतामिति |
निसुम्भो ऽप्यहमन्यस्तु बालस्तत्रावदत्तदा || ५२ ||
अथ विन्ध्यः समासाद्य बालौ तावमितद्युती |
आदिदेशात्मनः पत्नीं पाहि त्वं बालकाविति || ५३ ||
ववृधाते ऽथ तौ तत्र दानवेन्द्रसुतावुभौ |
कृष्णपक्षक्षये यद्वद्युगपच्छशिसागरौ || ५४ ||
बुद्ध्वा तौ च तदा जन्म दानवाभ्यामरिंदमौ |
तपश्चेरतुरत्युग्रं पर्णाम्बुपवनाशनौ || ५५ ||
तपसाराधितस्ताभ्यां तत्रागत्याब्रवीत्प्रभुः |
तुष्टो ऽस्मि युवयोः पुत्रौ वरं किं वा ददाम्यहम् || ५६ ||
वव्राते तौ वरं वीरावजय्यावध्यतां सदा |
प्रार्थनां तां तयोः श्रुत्वा प्रत्युवाच पितामहः || ५७ ||
अवश्यं युवयोरेष्यं मरणं येन केनचित् |
सुरेभ्यो ऽन्यत्र दैत्येन्द्रावमरत्वं न विद्यते || ५८ ||
इत्युक्तवन्तं ब्रह्माणं वव्राते दानवौ वरम् |
उभावपि सुनिश्चिन्त्य सम्प्रहृष्टतनूरुहौ || ५९ ||
जगन्मातैव या कन्या विना तस्याः पितामह |
मा भूतामावयोर्देव सदा मृत्युपराजयौ || ६० ||
एवमस्त्विति तौ प्रोच्य दैत्येन्द्रतनयावुभौ |
विश्वस्य जगतः स्रष्टा तत्रैवान्तरधीयत || ६१ ||
अथ तौ तपसस्तीव्राद्विरम्य कृतमङ्गलौ |
मौलिनौ बद्धकेयूरौ हाराङ्गदविभूषितौ || ६२ ||
हरिचन्दनदिग्धाङ्गौ पीतकौशेयवाससौ |
विन्ध्यप्रस्थेषु रम्येषु चेरतुर्दानवोत्तमौ || ६३ ||
पितामहाद्वरप्राप्तिं श्रुत्वा सुम्भनिसुम्भयोः |
आजग्मुर्दानवा हृष्टाः पातालतलवासिनः || ६४ ||
शम्भुर्मयो घनः केशिर्नरको नमुचिर्द्रुमः |
अन्ये च कोटिशो दृप्ता हतशेषाः सुरद्विषः || ६५ ||
विन्ध्यप्रस्थे निषेदुस्ते समेताः सर्वदानवाः |
नानाद्रुमलतागुल्मविकीर्णकुसुमोत्करे || ६६ ||
धन्विनो बद्धनिस्त्रिंशाश्चित्राभरणभूषिताः |
सेन्द्रचापास्तडित्वन्तो नभसीव बलाहकाः || ६७ ||
अथोवाच मयस्तत्र दानवो दानवोत्तमौ |
पितृभ्यां युवयोर्भुक्तं त्रैलोक्यमखिलं पुरा || ६८ ||
युवाभ्यामधुना दैत्यौ कस्मान्नादीयते पुनः |
समेतानमरान्सर्वान्निर्जित्य रणमूर्धनि || ६९ ||
ये सहाया हि वां पित्रोर्बभूवुः सुरविद्विषः |
त एवामी बलोन्मत्ताः सहाया युवयोर्युधि || ७० ||
इत्युक्तवति दैत्येन्द्रे मये सुम्भो महासुरः |
निसुम्भस्य मुखं प्रेक्ष्य वाक्यमित्थं तदाब्रवीत् || ७१ ||
भूर्लोकमखिलं दैत्या युष्माभिः सह साम्प्रतम् |
संविभज्य सुरान्सर्वाञ्जेष्यामो रणमूर्धनि || ७२ ||
जम्बूद्वीपं स्वयं सो ऽथ जग्राहासुरसत्तमः |
शाकद्वीपं निसुम्भाय ददौ भ्रात्रे कनीयसे || ७३ ||
शाल्मलिद्वीपगोमेदौ दानवेभ्यो ददौ प्रभुः |
क्रौञ्चद्वीपकुशद्वीपौ दैत्येभ्यः प्रददौ च सः |
दैत्येन्द्रः पुष्करद्वीपं भार्गवाय न्यवेदयत् || ७४ ||
एवं प्रतिविभज्याशु भूर्लोकमखिलं तदा |
इज्याञ्जलिनमस्कारान्यज्ञान्सर्वाश्च सत्क्रियाः |
आच्छिद्य देवतेभ्यस्ते जगृहुर्दैत्यदानवाः || ७५ ||
बभूवाथ ततो यज्ञः कश्यपस्य महात्मनः |
आगत्य तं तदा यज्ञं ममृदुः सुरशत्रवः || ७६ ||
आधिपत्यं हि नः कृत्स्ने भूर्लोके कश्यपाधुना |
सर्वावस्थासु यज्ञे ऽस्मिन्नस्मांस्त्वं यष्टुमर्हसि || ७७ ||
एवमुक्तस्ततो दैत्यैर्मारीचः कश्यपस्तदा |
गम्भीरमर्थवद्वाक्यमुवाचेत्थं स्मयन्निव || ७८ ||
त्रैलोक्यमात्मनः कृत्वा जित्वा सर्वामरान्रणे |
यज्ञभागांस्ततो दैत्याः सर्वानादातुमर्हथ || ७९ ||
एवमुक्तास्तदा तेन दैत्यदानवसत्तमाः |
बलं सर्वं समानाय्य कृत्वा संग्रामिकीः क्रियाः || ८० ||
प्रशस्तेषु कृताचारा मुहूर्तर्क्षदिनेषु ते |
रथैर्नागैस्तुरंगैश्च निर्ययुर्दैत्यदानवाः || ८१ ||
पृष्ठतः पुरतः सम्यक्पार्श्वयोरुभयोरपि |
विधाय रक्षां संयत्ता ययुर्देवाञ्जिगीषवः || ८२ ||
तेषामागमनं ज्ञात्वा द्विषतां पाकशासनः |
संहतानां सुसंयत्तो युधा नाकं जिगीषताम् || ८३ ||
विधिं विधाय स्वपुरे समस्तं दौर्गकर्मिकम् |
पुण्येषु तिथिनक्षत्रमुहूर्तकरणेषु सः || ८४ ||
मुनीन्विधिवदभ्यर्च्य नमस्कृत्वा पिनाकिने |
सार्धं सुरगणैः सर्वैर्निर्ययौ कृतमङ्गलः || ८५ ||
हिमवच्छिखराकारं चतुर्दन्तमनेकपम् |
आरुह्यैरावतं शश्वन्मदतोयौघवर्षिणम् || ८६ ||
महता हेमदण्डेन रत्नांशुपरिवेषिणा |
उच्छ्रितेनातपत्रेण ध्रियमाणेन भास्वता || ८७ ||
वीज्यमानः शरच्चन्द्रकिरणोत्करनिर्मलैः |
चामरै रत्नदण्डांशुसमूहखचितोदरैः || ८८ ||
आशीभिर्जयशब्दैश्च मुनिभिः परिवर्धितः |
अभितः स्तूयमानश्च सूतमागधवन्दिभिः || ८९ ||
अथावकाशे विस्तीर्णे समे पादपवर्जिते |
रचयामास देवानां पद्मव्यूहं बृहस्पतिः || ९० ||
मरुद्भिः सहितं कृत्वा कर्णिकायां शतक्रतुम् |
पत्रेषु च वसून्रुद्रानादित्यांश्च न्यवेशयत् || ९१ ||
केसरेषु यमं कालं कुबेरवरुणावपि |
अनन्तं सहितं नागैर्नाले गुरुरकल्पयत् || ९२ ||
देवानन्यान्समेतांश्च रक्षोगन्धर्वसेनया |
पुरःसरान्स पद्मस्य परितः पर्यकल्पयत् || ९३ ||
अथ दानवतूर्याणां शब्दं श्रुत्वा दिवौकसः |
आजघ्नुर्मुदिता भेरीर्नेदुर्नादांश्च सङ्घशः || ९४ ||
विमिश्रं तूर्यशब्देन श्रुत्वा नादं दिवौकसाम् |
संयत्ताः सुतरां चक्रुः प्रयत्नं दानवेश्वराः || ९५ ||
अथ ते दानवा दृष्ट्वा पद्मव्यूहं दिवौकसाम् |
पप्रच्छुर्भार्गवं तत्र तद्भेदममितौजसः || ९६ ||
स पृष्टो दानवश्रेष्ठैर्व्यूहभेदमनाकुलः |
विचिन्त्य भार्गवो धीमानित्थमाहासुरांस्तदा || ९७ ||
विकीर्णाः परितः सर्वे तुषारनिकरा इव |
पद्मव्यूहं सुरेन्द्राणां हत सम्यक्सुरद्विषः || ९८ ||
एवमुक्तास्ततो दैत्या भार्गवेण महात्मना |
सिंहनादं विनद्याशु परितस्ते ऽभ्यसर्पत || ९९ ||
ततो युद्धं समभवद्देवदानवसैन्ययोः |
आयुधैर्विविधैस्तीक्ष्णैः परस्परमभिघ्नतोः || १०० ||
सादिनः सादिभिः सार्धं नागा नागै रथा रथैः |
पत्तयः पत्तिभिर्दृप्तैर्दृप्ताः संयुयुधुर्युधि || १०१ ||
केचिद्विभिन्ना नाराचैश्छिन्नाः केचित्परश्वधैः |
निपेतुर्व्यसवो योधाः सेनयोरुभयोरपि || १०२ ||
छिन्धि भिन्धि सहेदानीं तिष्ठ मूढ क्व गच्छसि |
इति वाचः समुत्तस्थुर्युधि योधैरुदीरिताः || १०३ ||
वसारुधिरसंसिक्तं तनुत्रावरणाचितम् |
हतनागाश्वकलिलं तद्बभूव रणाजिरम् || १०४ ||
अथ ते दानवैस्तत्र पीड्यमाना दिवौकसः |
सव्रणा हतभूयिष्ठाः शक्रमेवाभिसंश्रिताः |
अनन्तं नागमुख्याश्च कुबेरं यक्षराक्षसाः || १०५ ||
भिन्ने व्यूहे ऽथ देवानां प्रहृष्टा दैत्यदानवाः |
सिंहनादान्विनद्योच्चैस्तूर्याण्याहत्य भूयशः |
अभ्यद्रवत संयत्ताः समरे पाकशासनम् || १०६ ||
अथोत्थाप्य गजं शक्रो वज्रेण शतपर्वणा |
चूर्णयामास संक्रुद्धो दैत्यदानववाहिनीम् || १०७ ||
ददाह दानवानीकं परितः पाकशासनः |
निदाघसमये दीप्तः शुष्ककक्षमिवानलः || १०८ ||
अथ सुम्भः समभ्येत्य समरे शक्रमब्रवीत् |
दृष्टो ऽस्यद्य मया शक्र न जीवन्प्रतियास्यसि || १०९ ||
अथागत्य तदा ब्रह्मा प्राहेत्थं सुरसत्तमान् |
न योद्धव्यं सुरा दैत्यैरवध्या वः सुरद्विषः || ११० ||
अन्तर्दधुस्ततस्तस्य वाक्यं श्रुत्वा दिवौकसः |
विहाय समरं सर्वे क्षिप्रं सबलवाहनाः || १११ ||
अथ दैत्याः सुसंहृष्टास्तूर्याण्याहत्य सर्वशः |
नेदुरुच्चैर्वचश्चेदमूचुः समरशालिनः || ११२ ||
तुरगखुरपुटान्तक्षुण्णरेण्वन्धकारे
द्विरदरथनिनादत्रस्तपादातवृन्दे |
विगतभयविषादः संयुगे सुम्भसिंहो
जयति सुरविजेता वारिवाहोरुनादः || ११३ ||
तदनु जयति दीर्घः पीनबाहूरुपादः
पृथुरुचिरसुवक्षा उन्नतांसः सुनेत्रः |
मृगपतिसमगामी तोयदध्वाननादी
अमरवरविजेता दैत्यनाथो निसुम्भः || ११४ ||
इति स्कन्दपुराणे द्विषष्टो ऽध्यायः ||