व्यास उवाच |

भगवन्सर्वलोकज्ञ पितामहसमद्युते |
तपः कृत्वा तदा देवी पुष्कलं हिमवत्सुता || १ ||
वरं यथेप्सितं लब्ध्वा ब्रह्मणो गौरवर्णताम् |
किमन्यदकरोद्विप्र तपसो ऽन्ते महामुने || २ ||
सोमनन्दी च शार्दूलः किमवाप वरं शुभम् |
एतन्मे पृच्छतो ब्रूहि भक्ताय प्रणताय च || ३ ||

सनत्कुमार उवाच |

नमस्कृत्वा महादेवं परमं ब्रह्म शाश्वतम् |
यं पठन्ति सदा सांख्याः पुरुषं पञ्चविंशकम् || ४ ||
योगिनश्चैव षड्विंशं ब्रह्माद्याश्च दिवौकसः |
प्रणम्य परया भक्त्या शिरसा तं त्रिलोचनम् || ५ ||
गौर्या समागमो व्यास शंकरस्य यथाभवत् |
तत्प्रवक्ष्यामि ते सर्वं शृणु योगविदां वर || ६ ||
तस्मिन्हिमवतः शृङ्गे तपः कृत्वा सुदुष्करम् |
गौराङ्गी सा तदा भूत्वा शुद्धहेमसमप्रभा |
दर्शने शंकरस्याथ शर्वाणी मतिमादधे || ७ ||
मन्दरं गिरिमागम्य सहिता सोमनन्दिना |
अपश्यद्भवने भर्तुर्द्वारमूले समास्थितम् |
नन्दिनं गणपं देवी दीप्तपट्टिसधारिणम् || ८ ||
ततो नन्दीश्वरं दृष्ट्वा भक्तं प्रेम्णा गिरीन्द्रजा |
एहि वत्स चिराद्दृष्टस्त्वमित्युक्तवती तदा || ९ ||
नन्दी सम्प्रेक्ष्य तां चापि गौराङ्गीं हेमसप्रभाम् |
हर्षेण महता युक्तः पादयोरपतद्भृशम् |
प्रणम्य स तदा धीमानस्तुवत्पर्वतात्मजाम् || १० ||
नमः सिद्ध्यै महादेव्यै रतये गतये नमः |
त्वं क्रिया कारणं त्वं च प्रकृतिर्मुक्तिरेव च || ११ ||
कान्तिर्द्युतिस्तथा तुष्टिः शान्तिः स्वस्त्ययनं परम् |
दक्षिणा नियतिर्मृत्युः सन्ध्या विद्युदहः क्षपा || १२ ||
पृथिवी कौशिकी श्रीश्च शर्वाणी शर्ववल्लभा |
गणमातादितिश्चैव पवित्रा विन्ध्यवासिनी || १३ ||
कृष्णा कात्यायनी गौरी भूतमाता तथेश्वरी |
भव देवि प्रसन्ना मे भक्तस्य प्रणतस्य च || १४ ||
अथ देवी तदा दृष्ट्वा नन्दिनं पादयोर्नतम् |
प्रोवाच वरदास्मीति स च वव्रे वरं शुभम् || १५ ||
प्रसन्ना नित्यमेव त्वमेषो ऽस्तु वर-म्-उत्तमः |
एवमस्त्विति सा प्रोच्य प्रविवेशायतेक्षणा || १६ ||
अग्रतो ऽस्या ययौ नन्दी सोमनन्दी च पृष्ठतः |
चन्द्रलेखा तयोर्मध्ये ग्रहयोरिव सा बभौ || १७ ||
दूरादेव समालोक्य देवदेवो मुदान्वितः |
आजगाम महातेजाः संभ्रमोत्फुल्ललोचनः |
पपात पादयोर्देवी देवदेवस्य धीमतः || १८ ||
अथ देवस्तदायातां देवीं गिरिवरात्मजाम् |
तामुवाच सुरश्रेष्ठः समालोक्य मुहुर्मुहुः || १९ ||
दिष्ट्यासि प्रीतवदना दिष्ट्या च सफलं तपः |
दिष्ट्या चेदं वरं वर्णं गौरं कनकसप्रभम् || २० ||
प्रियं नः सर्वथा देवि परमं यत्त्वमागता |
प्रतिज्ञां पूरयित्वेह शार्दूलो ऽयं कुतश्च ते || २१ ||
एवमुक्ता तदा देवी भर्त्रा प्रणयपेशलम् |
कथयामास देवाय सर्वं चरितमात्मनः || २२ ||

देव्युवाच |

प्रागहं यत्त्वया देव कृष्णवर्णेति भाषिता |
तदा मन्युपरीताङ्गी गौरवर्णसमीप्सया || २३ ||
हिमवच्छिखरं गत्वा तपो ऽहं महदास्थिता |
चिन्तयन्ती सदैव त्वामेकपादेन संस्थिता || २४ ||
यस्मिन्नेव दिने तत्र तपो ऽहं समुपाश्रिता |
तस्मिन्नेवैष शार्दूलः सोमनन्दी ममाग्रतः |
व्यतिष्ठत महादेव भक्त्या परमया युतः || २५ ||
दिव्यं वर्षसहस्रं तु तपोयुक्ताहमास्थिता |
तावन्तं कालमेषो ऽपि ममातिष्ठत्समीपतः |
स्तब्धलाङ्गूलनेत्रास्यो निराहारो विलोकयन् || २६ ||
आगतस्तपसश्चान्ते ब्रह्मा मह्यं वरप्रदः |
तमहं पूर्वमस्यार्थे वरमप्रार्थयं विभो || २७ ||
तेनायममरो देव जराशोकविवर्जितः |
ममैवानुचरः पार्श्वे कृतो योगी च शंकर |
वर्णं चेदमदान्मह्यं तवादेशात्पितामहः || २८ ||

देव उवाच |

परितुष्टो ऽस्मि ते देवि वरं वृणु यथेप्सितम् |
मृगेन्द्रो ऽयं गणश्रेष्ठः सोमनन्दी महाबलः || २९ ||
यादृशो मम नन्दीशस्तादृशस्ते भविष्यति |
यदन्यद्ब्रूहि तत्सर्वं करिष्यामि तव प्रिये || ३० ||

देव्युवाच |

यस्मिन्देशे महादेव तपश्चरितमुत्तमम् |
तं भूयो ऽपि त्वया सार्धं द्रष्टुमिच्छामि शंकर || ३१ ||
एवमुक्तः स पार्वत्या प्रोवाच परमेश्वरः |
रोचते चारुसर्वाङ्गि गन्तुं तत्र ममाव्यये |
रम्यं तद्धिमवच्छृङ्गं तप्तं यत्र तपस्त्वया || ३२ ||
नन्दिनं स तदाहूय गणपांश्च सहस्रशः |
जगाम सहितो देव्या हिमवन्तं महागिरिम् || ३३ ||
देवैर्विद्याधरैः सिद्धैर्गन्धर्वैर्मुनिसत्तमैः |
वन्द्यमानो ऽसकृद्देवः स्तूयमानश्च सर्वतः || ३४ ||
नादिनं वृषमारूढः प्रक्रीडितगणेश्वरः |
हिमवद्गिरिमागम्य तं प्रदेशमुपागमत् || ३५ ||
स तं शिखरमासाद्य रम्यं धातुविभूषितम् |
तुतोष परमप्रीतो रेमे च सगणेश्वरः || ३६ ||
आगतं तमथो दृष्ट्वा मूर्तिमानचलस्तदा |
उपतस्थे महादेवं प्रणिपत्य कृताञ्जलिः || ३७ ||
कृत्वा तदर्घकुण्डं तु तस्मिञ्छिखरसत्तमे |
वरदानेन शैलेन्द्रमनुगृह्णत्पिनाकधृक् || ३८ ||
अमरो जरया त्यक्तः सर्वदुःखविवर्जितः |
अभेद्यश्चैव वज्रेण मत्प्रसादाद्भविष्यसि || ३९ ||
पुण्यस्त्वमचलश्रेष्ठ भविता पापमोचनः |
गौरीशिखर इत्येव लोके ख्यातिं गमिष्यसि || ४० ||
दूरादेव नगश्रेष्ठ दृष्ट्वा त्वामुच्छ्रितं जनाः |
सर्वपापैर्विमोक्ष्यन्ति यास्यन्ति च परां गतिम् || ४१ ||
त्रिरात्रमुषितो यस्त्वामभिरुह्य शुचिव्रतः |
दृष्ट्वा गौरीमथाभ्यर्च्य ब्राह्मणं तर्पयिष्यति |
नारी वाथ नरो वापि लोकं गौर्याः स यास्यति || ४२ ||
यश्चेह त्यक्ष्यते प्राणान्नियमेन समाहितः |
स गाणपत्यं सम्प्राप्य मया सार्धं चरिष्यति |
गौर्याश्चात्रैव सांनिध्यं सर्वदा ते भविष्यति || ४३ ||
तमित्युक्त्वा नगश्रेष्ठं देवदेवस्त्रिलोचनः |
पार्वत्या सहितस्तत्र परिचक्राम सर्वतः || ४४ ||
अथापश्यच्छिलां व्यास सौवर्णां मणिभूषिताम् |
कथयामास तां देव्यै शिलां पश्येति स प्रभुः || ४५ ||
तमाह देवी देवेशमिह तप्तं मया तपः |
प्रियमेतन्मम स्थानं सोमनन्दिन एव च || ४६ ||
अथ तामनुजग्राह शिलां प्रीत्या भवस्तदा |
शुचिरस्यां निराहारस्त्रिरात्रं यः करिष्यति |
भवेत्तप्तं तपस्तेन लोकं च तव यास्यति || ४७ ||
एकपादेन यो मर्त्यस्तिष्ठेदेकमहः शुचिः |
तपनाभिमुखो भूत्वा त्वद्भक्तस्त्वत्परायणः |
सो ऽपि यास्यति ते लोकं गणपश्च भविष्यति || ४८ ||
प्राणान्परित्यजेद्यश्च शिलायामिह दुस्त्यजान् |
सो ऽपि तप्ततपा भूत्वा ब्रह्मलोकं गमिष्यति || ४९ ||
इमं च पर्वतोद्देशमास्पदं सोमनन्दिनः |
यो ऽभिगच्छेदहोरात्रं सो ऽपि नन्दिसमो भवेत् || ५० ||
अथापृच्छत्पुनर्देवः पार्वतीं विचरन्प्रभुः |
कथमेतानि कुण्डानि बभूवुरिह शैलजे |
एवं पृष्टा पुनर्देवी वाक्यमेतज्जगाद ह || ५१ ||
यदाहमागता देव तपस्तप्तुमिह प्रभो |
स्तनयोः प्रस्रुते धारे महत्यौ मे तदासकृत् |
एते ताभ्यां कृते कुण्डे सिततोये महाप्लवे || ५२ ||
तपस्तप्तुमलंकारानहं त्यक्तवती यदा |
तदा तेभ्यः स्रुता देव जलधारापतद्द्रुतम् |
तया हीदं महत्कुण्डं द्वितीयं मे कृतं शुभम् || ५३ ||
ब्रह्मणश्च यदा लब्धं गौरवर्णत्वमुत्तमम् |
शरीरान्मे तदा देव कृष्णा कोशी व्यनिष्क्रमत् |
तस्यां कोश्यां समुत्पन्नमेतत्कुण्डं तृतीयकम् || ५४ ||
अस्मिन्प्रदेशे देवेश त्वामभ्यर्च्य यथाविधि |
हविर्भिर्मन्त्रयुक्ताभिरग्निकार्यं कृतं मया || ५५ ||
इमानि पादपस्थानि वल्कलानि समासते |
इदं कृष्णाजिनं शुभ्रं स्थापितं तत्पुरा मया || ५६ ||
अथ श्रुत्वा महादेवः पार्वत्या वचनं प्रभुः |
प्रत्युवाच तदा देवीं प्रीत्या परमया युतः || ५७ ||
स्तनतोयेन ये पूर्णे तव कुण्डे शशिप्रभे |
स्तनकुण्डेति तेनैते यास्येते ख्यातिमुत्तमाम् || ५८ ||
उपवासी नरो यो ऽत्र स्नात्वाभ्यर्च्य च देवताः |
तर्पयित्वा पितॄन्सर्वान्ब्राह्मणान्भोजयिष्यति |
तद्भवेदक्षयं तस्य गणश्चैव भविष्यति || ५९ ||
अलंकारात्स्रुता धारा येयं तव वरानने |
एषालंकारधारेति नाम्ना ख्यातिं गमिष्यति || ६० ||
अस्यां स्नात्वा नरो यस्तु पितॄन्संतर्पयिष्यति |
अक्षयं तद्भवेच्छ्राद्धमश्वमेधं च विन्दति || ६१ ||
नीलतोयमिदं यत्ते महत्कुण्डं शुभोदकम् |
नीलकुण्डमिति ख्यातिमेतत्सर्वत्र यास्यति || ६२ ||
यो ऽस्मिन्नियमवान्स्नात्वा तर्पयेत्पितृदेवताः |
तस्याक्षयं भवेत्सर्वं पापेभ्यश्च प्रमुच्यते || ६३ ||
मृतश्च स नरो देवि यत्र तत्र यथा तथा |
कौशिक्या विन्ध्यवासिन्या महागणपतिर्भवेत् || ६४ ||
अग्निकार्यमिह स्नात्वा यः कुर्याद्ब्राह्मणः शुचिः |
अग्निहोत्रं हुतं तेन भवेद्द्वादशवार्षिकम् || ६५ ||
एवमुक्त्वा महादेवः प्रोत्थाय मुनिसत्तम |
गृहीत्वा पादपस्थानि वल्कलानि तदा प्रभुः |
नदी भवेति सम्प्रोच्य चिक्षेप प्रहसन्निव || ६६ ||
तान्यभूवंस्तदा व्यास नदी स्वच्छजला शुभा |
तटजैर्विविधैर्वृक्षैर्हंसचक्राह्वशोभिता || ६७ ||
तामुवाच सुरश्रेष्ठः पुण्यतोयवहां नदीम् |
चीरेभ्यः प्रसृता यस्मात्त्वमत्र सरितां वरा |
लोके पुण्यतमा तस्मान्निश्चीरेति भविष्यसि || ६८ ||
त्वयि स्नात्वा नरः क्षिप्रं सर्वपापैर्विमुच्यते |
पितॄन्संतर्पयेद्यस्तु श्राद्धं तस्याक्षयं भवेत् || ६९ ||
कपिलां चात्र यो दद्याद्ब्राह्मणाय समाहितः |
गोसहस्रफलं तस्य भविष्यति वरानने || ७० ||
अग्रमारुह्य यस्मात्त्वमत्र तप्तवती तपः |
अग्रारण्यमिति ख्यातिमेतद्यास्यति सर्वतः || ७१ ||
महत्फलं महापुण्यं सर्वसिद्धिप्रदं शुभम् |
पञ्चयोजनसंख्यातं गौरीशिखरमुत्तमम् || ७२ ||
इहोपोष्य शुचिः स्नात्वा भक्त्या परमया युतः |
देहभेदं समासाद्य विमानस्थो विराजते || ७३ ||
कृष्णाजिनं महापुण्यं सर्वपापहरं तव |
इदं द्रक्ष्यति यो विप्रः स्वर्गस्तस्य न दुर्लभः || ७४ ||
यत्फलं नैमिशारण्ये पुष्करेषु च यत्फलम् |
तदेव लभते देवि दृष्ट्वा कृष्णाजिनं द्विजः || ७५ ||
वत्स्यामि चैव सततं त्वया सार्धमिह प्रिये |
आवामिह स्थितौ देवि यो ऽर्चयिष्यति मानवः |
आवयोर्गणपो भूत्वा जगत्स विचरिष्यति || ७६ ||
एवं नगेन्द्रं स तदानुगृह्य मुनीन्द्र सार्धं गिरिराजपुत्र्या |
देवैः ससिद्धैरनुगम्यमानः शर्वः पुनर्मन्दरमाजगाम || ७७ ||
इति स्कन्दपुराण एकोनसप्ततो ऽध्यायः ||