व्यास उवाच |

वरान्स लब्ध्वा भगवान्वसिष्ठो ऽस्मत्पितामहः |
कं पुत्रं जनयामास आत्मनः सदृशद्युतिम् || १ ||

सनत्कुमार उवाच |

तेनासौ वरदानेन देवदेवस्य शूलिनः |
अरुन्धत्यामजनयत्तपोयोगबलान्वितम् |
ब्रह्मिष्ठं शक्तिनामानं पुत्रं पुत्रशताग्रजम् || २ ||
तस्य बाल्यात्प्रभृत्येव वासिष्ठस्य महात्मनः |
परेण चेतसा भक्तिरभवद्गोवृषध्वजे || ३ ||
स कदाचिदपत्यार्थमाराधयदुमापतिम् |
तस्य तुष्टो महादेवो वरदो ऽस्मीत्यभाषत || ४ ||
अथ दृष्ट्वा तमीशानमिदमाहानताननः |
केन स्तोष्यामि ते देव यस्त्वं सर्वजगत्पतिः |
सर्वान्धारयसे लोकानात्मना समयाद्विभो || ५ ||
त्वमेव भोक्ता भोज्यं च कर्ता कार्यं तथा क्रिया |
उत्पादकस्तथोत्पाद्य उत्पत्तिश्चैव सर्वशः || ६ ||
आत्मानं पुत्रनामानं मम तुल्यं गुणैर्विभो |
इच्छामि दत्तं देवेश एष मे दीयतां वरः || ७ ||

सनत्कुमार उवाच |

तमेवंवादिनं देवः प्रहस्य वदतां वरः |
उवाच वचसा व्यास दिशः सर्वा विनादयन् || ८ ||
त्वयाहं याचितः शक्ते स च ते संभविष्यति |
त्वत्समः सर्ववेदज्ञस्त्वदीयो मुनिपुंगव || ९ ||
बीजात्मा च तथोद्भूतः स्वयमेवाङ्कुरात्मना |
बीजात्मना न भवति परिणामान्तरं गतः || १० ||
एवं स आत्मनात्मा वः संभूतो ऽपत्यसंज्ञितः |
स्वेनात्मना न भविता परिणामान्तरं गतः || ११ ||

सनत्कुमार उवाच |

एवमुक्त्वा तु तं देवः प्रहस्य च निरीक्ष्य च |
जगाम सहसा योगी अदृश्यत्वमतिद्युतिः || १२ ||
तस्मिन्गते महादेवे शक्तिस्तव पितामहः |
वचस्तत्परिनिश्चिन्त्य एवमेवेत्यमन्यत || १३ ||
अथ काले ऽतिमहति समतीते शुभव्रते |
तपसा भावितश्चापि महताग्निसमप्रभः |
अदृश्यन्त्यां महाप्रज्ञ आदधे गर्भमुत्तमम् || १४ ||
तस्यामापन्नसत्त्वायां राजा कल्माषपादृषिम् |
भक्षयामास संरब्धो रक्षसा हृतचेतनः || १५ ||
इति स्कन्दपुराणे षोडशो ऽध्यायः ||