व्यास उवाच |

एवं कालेन सम्प्राप्य वाराणस्यां निकेतनम् |
जगतः पितरौ देवौ चक्रतुः किमतः परम् || १ ||

सनत्कुमार उवाच |

ततः स भगवान्देवो देवीं हिमवतः सुताम् |
उवाच देवि पश्याम उद्यानं यदि रोचते || २ ||

देव्युवाच |

एवं भवतु देवेश यथात्थ त्वं वृषध्वज |
न हि मे ऽन्यत्र गन्तव्यमुद्यानात्परतो हर || ३ ||

सनत्कुमार उवाच |

सह देव्या ततो व्यास वाराणस्यां वृषध्वजः |
देवोद्यानदिदृक्षार्थं विचचार समन्ततः || ४ ||
पूर्वस्मिन्स दिशाभागे देव्या देवः पिनाकधृक् |
उद्यानं दर्शयामास नानाकुसुमशोभितम् || ५ ||
चम्पकाशोकपुंनागप्रियङ्गूचूतसंकुलम् |
बिल्वार्जुनकदम्बैश्च न्यग्रोधोदुम्बरैरपि || ६ ||
गन्धवद्भिश्च कुसुमैर्जातीकेसरकेतकैः |
रम्यैः सुरभिपुष्पैश्च षट्पदव्रातसेवितैः |
संयुक्तं सर्वतः श्रीमद्वनं वैभ्राजसंनिभम् || ७ ||
स तदुद्यानमासाद्य देवीमाह जगत्पतिः |
अस्मिन्देशे पुरा देवि तिष्ठतो मम शोभने || ८ ||
ऊर्ध्वं गोलोकसंस्थानां गवां वत्सैः स्वयंभुवैः |
पीयतीनां पयो वेगात्फेनं मूर्ध्नि समापतत् || ९ ||
ततो मयोर्ध्वं दृष्टास्तु गावस्ताः सोमपार्श्वगाः |
ततस्ताः प्रेक्षितास्तत्र मया गावस्तदाभवन् |
तेजसा दह्यमानास्तु नैकवर्णा भृशार्दिताः || १० ||
गावः पूर्वमिमा देवि आसन्कपिलवर्णजाः |
नैकवर्णास्तदाभूवन्यदा सम्प्रेक्षिता मया || ११ ||
तासां शरण्यतां यात्वा ताभिर्मामेव शैलजे |
आश्रितः सोम आगत्य सह गोभिर्न तास्त्यजत् || १२ ||
अर्दिताभिस्तदा गोभिर्ब्रह्मा मामब्रवीत्ततः |
प्रसादं कुरु देवेश सुरभीस्तेजसा तव |
न नश्यन्ति यथा सद्यस्तथा सर्वसुरार्चित || १३ ||
ततो ऽहमास्थितो देवि स्थाने ऽस्मिन्स्वयमेव तु |
गोप्रेक्षक इति ख्यातः संस्तुतः सर्वदेवतैः || १४ ||
गोप्रेक्षेश्वरमागत्य दृष्ट्वा चार्च्य च मानवः |
न दुर्गतिमवाप्नोति कल्मषैश्च विमुच्यते || १५ ||
ततस्ता दह्यमानास्तु प्रसन्ने सुरभीर्मयि |
ह्रदे ऽस्मिन्पेतुरभ्येत्य शान्तास्ता विबभुस्तदा |
कपिलाह्रद इत्येवं तदाप्रभृति कथ्यते || १६ ||
अत्रापि स्वयमेवाहं वृषध्वज इति श्रुतः |
सांनिध्यं कृतवान्देवि स चायं दृश्यतां स्थितः || १७ ||
कपिलाह्रदतीर्थे ऽस्मिन्स्नात्वा नान्यमना नरः |
वृषध्वजमिमं दृष्ट्वा सर्वयज्ञफलं लभेत् || १८ ||
सलोकतां मृतश्चापि अर्चयित्वा तु मामिह |
लभते देहभेदे तु गणत्वं चातिदुर्लभम् || १९ ||
अस्मिन्नपि प्रदेशे तु ता गावो ब्रह्मणा स्वयम् |
शान्त्यर्थं सर्वलोकानां सर्वा दुग्धाः पयोमृतम् || २० ||
तासां क्षीरेण संजातं ह्रदमेतन्मनोहरम् |
भद्रदोहमिति ख्यातं पुण्यं देववनं शुभम् || २१ ||
सर्वैर्देवैरहं देवि अस्मिन्देशे प्रसादितः |
गच्छोपशममीशेति उपशान्तशिवस्ततः || २२ ||
स्थितो भूत्वाहमत्रस्थः पुण्यमस्यापि दर्शनम् |
दृष्ट्वैनं प्रयतो मर्त्यः स्वर्गलोकमवाप्नुयात् || २३ ||
अत्राहं ब्रह्मणानीय स्थापितः परमेष्ठिना |
ब्रह्मणश्चापि संगृह्य विष्णुना स्थापितः पुनः || २४ ||
ब्रह्मणा स ततो विष्णुः प्रोक्तः संविग्नचेतसा |
मयानीतमिदं लिङ्गं कस्मात्स्थापितवानसि || २५ ||
तमुवाच पुनर्विष्णुर्ब्रह्माणं कुपिताननम् |
रुद्रदेवे ममात्यन्तं पुरा भक्तिर्महत्तरा || २६ ||
मयैष स्थापितस्तेन नाम्ना तव भविष्यति |
हिरण्यगर्भ इत्येवं ततो ऽत्राहं समास्थितः |
दृष्ट्वैनमपि देवेशं मम लोकं व्रजेन्नरः || २७ ||
पुनश्चापि ततो ब्रह्मा मम लिङ्गमिमं शुभे |
स्थापयामास विधिवद्भक्त्या परमया युतः |
स्वर्लीनेश्वर इत्येवमत्राहं स्वयमास्थितः || २८ ||
स्वस्मिन्परतरे लीनः प्रधाने मम कारणे |
तस्मात्स्वर्लीन इत्येवं गुह्यं क्षेत्रं मम स्मृतम् || २९ ||
प्राणानिह नरस्त्यक्त्वा न पुनर्जायते क्वचित् |
आनन्त्या सा गतिस्तस्य योगिनां चैव सा स्मृता || ३० ||
अस्मिन्नपि मया देशे दैत्यो देवतकण्टकः |
व्याघ्ररूपं समास्थाय निहतो दर्पितो बली || ३१ ||
व्याघ्रेश्वरस्ततः ख्यातो नित्यमत्राहमास्थितः |
न पुनर्दुर्गतिं याति दृष्ट्वैनममरेश्वरम् || ३२ ||
उत्पलो विदलश्चैव यौ दैत्यौ ब्रह्मणा पुरा |
स्त्रीवध्यौ दर्पितौ सृष्टौ त्वयैव निहतौ शुभे |
सावज्ञं गेन्दुकेनात्र तस्येदं चिह्नमास्थितम् || ३३ ||
आदावत्राहमागत्य आस्थितो गणपैः सह |
ज्येष्ठं स्थानमिदं तस्मादेतन्मे पुण्यदर्शनम् || ३४ ||
दृष्ट्वेमं मम लिङ्गं तु ज्येष्ठस्थानसमाश्रितम् |
न शोचति पुनर्मर्त्यः संसिद्धो मृत्युजन्मनी || ३५ ||
समन्ताद्देवतैः सर्वैर्लिङ्गानि स्थापितानि ह |
दृष्ट्वा तु नियतो मर्त्यो देहभेदे गणो भवेत् || ३६ ||
इदानीमहमागत्य स्वयमस्मिन्व्यवस्थितः |
न च मुक्तं मया यस्मादविमुक्तमिदं ततः |
क्षेत्रं वाराणसी पुण्या मुक्तिदं सम्भविष्यति || ३७ ||
अविमुक्तेश्वरं मां वै यो ऽत्र द्रक्ष्यति मानवः |
गाणपत्या गतिस्तस्य यत्र तत्र मृतस्य ह |
प्राणानिह तु संन्यस्य यास्यते मुक्तिमुत्तमाम् || ३८ ||
पित्रा ते गिरिराजेन पुरा हिमवता स्वयम् |
मम प्रियमिदं स्थानं ज्ञात्वा लिङ्गं प्रतिष्ठितम् || ३९ ||
शैलेश्वरमिति ख्यातं दृश्यतामिदमास्थितम् |
दृष्ट्वेदं मनुजो देवि न दुर्गतिमनुव्रजेत् || ४० ||
नदी वाराणसी चेयं पुण्या पापप्रमोचनी |
क्षेत्रमेतदलंकृत्य जाह्नव्या सह संगता || ४१ ||
स्थापितं संगमे चास्मिन्ब्रह्मणा लिङ्गमुत्तमम् |
संगमेश्वरमित्येवं ख्यातं जगति दृश्यताम् || ४२ ||
संगमे देवनद्योस्तु यः स्नात्वा मनुजः शुचिः |
अर्चयेत्संगमेशानं तस्य जन्मभयं कुतः || ४३ ||
इदमन्यन्महत्क्षेत्रं निवासं योगिनां परम् |
क्षेत्रमध्ये च यत्राहं स्वयं भूत्वा समास्थितः |
मध्यमेश्वर इत्येवं ख्यातः सर्वसुरासुरैः || ४४ ||
सिद्धानां स्थानमेतद्धि मदीयव्रतचारिणाम् |
योगिनां मोक्षलिप्सूनां जन्ममृत्युजितात्मनाम् |
दृष्ट्वेदं मध्यमेशानं जन्म प्रति न शोचति || ४५ ||
स्थापितं लिङ्गमेतच्च शुक्रेण तव सूनुना |
नाम्ना शुक्रेश्वरं नाम सर्वसिद्धामरार्चितम् || ४६ ||
दृष्ट्वेदं मानवः सद्यो मुक्तः स्यात्सर्वकिल्बिषैः |
मृतश्च न पुनर्जन्म संसारे तु लभेन्नरः || ४७ ||
पुरा जम्बुकरूपेण असुरा देवकण्टकाः |
ब्रह्मणो ऽथ वरं लब्ध्वा गोमायुवधशङ्किताः || ४८ ||
निहता हिमवत्पुत्रि जम्बुकेशस्ततो ह्यहम् |
अभवं जगति ख्यातः सुरासुरनमस्कृतः |
दृष्ट्वैनमपि देवेशं सर्वकामानवाप्नुयात् || ४९ ||
ग्रहैः शुक्रपुरोगैश्च एतानि स्थापितानि हि |
पश्य लिङ्गानि पुण्यानि सर्वकामप्रदानि तु || ५० ||
एवमेतानि पुण्यानि मन्निवासानि पार्वति |
कथितानि तव क्षेत्रे गुह्यं चान्यदिदं शृणु || ५१ ||
क्रोशं क्रोशं चतुर्दिक्षु क्षेत्रमेतत्प्रकीर्तितम् |
योजनं विद्धि चार्वङ्गि मृत्युकाले ऽमृतप्रदम् || ५२ ||
महालयगिरिस्थाने केदारे च व्यवस्थितम् |
गणत्वं लभते दृष्ट्वा क्षेत्रे ऽस्मिन्मोक्ष-म्-आप्यते || ५३ ||
गाणपत्यपदात्तस्माद्यतः सा मुक्तिरुत्तमा |
ततो महालयात्तस्मात्केदारान्मध्यमादपि |
स्मृतं पुण्यतमं क्षेत्रमविमुक्तमिदं शुभे || ५४ ||
केदारमध्यमे स्थाने स्थानं चैव महालयम् |
मम पुण्यानि भूर्लोके तेभ्यः श्रेष्ठतमं त्विदम् || ५५ ||
यतः सृष्टानि लोकानि ततः क्षेत्रमिदं शुभम् |
कदाचिन्न मया मुक्तमविमुक्तं ततो ऽभवत् || ५६ ||
अविमुक्तेश्वरं लिङ्गं मम दृष्ट्वेह मानवः |
सद्यः पापविनिर्मुक्तः पशुपाशैर्विमुच्यते || ५७ ||
शैलेशं संगमेशं च स्वर्लीनं मध्यमेश्वरम् |
हिरण्यगर्भमीशानं गोप्रेक्षं सवृषध्वजम् || ५८ ||
उपशान्तशिवं चैव ज्येष्ठस्थाननिवासिनम् |
शुक्रेश्वरं च विख्यातं व्याघ्रेशं जम्बुकेश्वरम् |
दृष्ट्वा न जायते मर्त्यः संसारे दुःखसागरे || ५९ ||
एवमुक्त्वा महादेवो दिशः सर्वा व्यलोकयत् |
विलोक्य संस्थिते पश्चाद्देवदेवे महेश्वरे || ६० ||
अकस्मादभवत्सर्वं तद्देशं ज्वलितं यथा |
सविद्युत्स्तनिताघोषं सूर्यायुतशतोदितम् |
तेजोभिरेकतः पूर्णं वह्निभास्करयोरिव || ६१ ||
ततः पाशुपताः सिद्धा भस्माभ्यङ्गसितप्रभाः |
योगीश्वरा महात्मानस्तथा वैतानिकव्रताः || ६२ ||
अव्यक्तलिङ्गिनश्चैव शिवयोगोज्ज्वलप्रभाः |
बहवः शतशो ऽभ्येत्य नमश्चक्रुर्महेश्वरम् || ६३ ||
पुनर्निरीक्ष्य देवेशं ध्यानयोगं च कृत्स्नशः |
तस्थुरात्मानमाधाय लीयमाना इवेश्वरे || ६४ ||
स्थितानां स तथा तेषां देवदेव उमापतिः |
संचिन्त्य परमां मूर्तिं बभूव पुरुषः प्रभुः || ६५ ||
षड्विंश ईश्वरो ऽव्यक्तः सूर्यायुतसमप्रभः |
कृत्स्नं जगदिवैकस्थं कर्तुमन्त इवास्थितः || ६६ ||
तस्य तां परमां मूर्तिमास्थितस्य जगत्प्रभोः |
न शशाक वपुर्द्रष्टुं हृष्टरोमा गिरीन्द्रजा || ६७ ||
ततस्तत्सृष्टमात्मानं बुद्ध्वा सा प्रकृतिस्थितम् |
प्रकृतेर्मूर्तिमास्थाय योगेन परमात्मिका |
तं शशाक वपुर्द्रष्टुं पुरुषस्य परात्मनः || ६८ ||
ततस्ते लयमाधाय योगिनः पुरुषस्य तु |
विविशुर्हृदयं सर्वे दग्धसंसारबीजिनः || ६९ ||
अनुगृह्य ततः सर्वांस्तान्सिद्धान्यतिपुंगवान् |
नीललोहितमूर्तिस्थं पुनश्चक्रे वपुः शुभम् || ७० ||
तं दृष्ट्वा शैलजा प्राह हृष्टसर्वतनूरुहा |
स्तुन्वन्ती चरणौ गत्वा क इमे भगवन्निति || ७१ ||
तामुवाच सुरश्रेष्ठस्तदा देवीं गिरीन्द्रजाम् |
मदीयं व्रतमाश्रित्य भक्तिमद्भिर्द्विजोत्तमैः |
यैर्यैर्योग इहाभ्यस्तस्तेषामेकेन जन्मना || ७२ ||
क्षेत्रस्यास्य प्रभावेन भक्त्या च मम भावतः |
अनुग्रहो मया ह्येवं क्रियते मुक्तिदः सदा || ७३ ||
तस्मादिदं महत्क्षेत्रं ब्रह्माद्यैः सेव्यते मम |
श्रुतिमद्भिश्च विप्रेन्द्रैः संसिद्धैश्च तपस्विभिः || ७४ ||
प्रतिमासमथाष्टम्यां प्रतिमासं चतुर्दशीम् |
उभयोः पक्षयोर्देवि वाराणस्यां ममास्पदे || ७५ ||
शशिभानूपरागे च कार्त्तिक्यां तु विशेषतः |
सर्वपर्वसु पुण्येषु विषुवेष्वयनेषु च || ७६ ||
पृथिव्यां सर्वतीर्थानि वाराणस्यां तु जाह्नवीम् |
उत्तरप्रवहां पुण्यां मम मौलिविनिर्गताम् || ७७ ||
पितुस्ते गिरिराजाच्च स्रुतां हिमवतः शुभाम् |
भजन्ते सर्वतो ऽभ्येत्य ताञ्छृणुष्व वरानने || ७८ ||
संनिहित्या कुरुक्षेत्रं सार्धं तीर्थशतैस्तथा |
पुष्करं नैमिशं चैव प्रयागं सपृथूदकम् || ७९ ||
सन्ध्या सप्तऋचं चैव सर्वा नद्यः सरांसि च |
समुद्राः सप्त चैवात्र देवतीर्थानि कृत्स्नशः |
भागीरथीं समेष्यन्ति सर्वपर्वसु काशिगाम् || ८० ||
अविमुक्तेश्वरं मां च काशीस्थमचलात्मजे |
पृथिव्यां यानि पुण्यानि मह्यमायतनानि च |
प्रविशन्ति सदाभ्येत्य पुण्यं पर्वसु पर्वसु || ८१ ||
केदारे चैव यल्लिङ्गं यच्च लिङ्गं महालये |
मध्यमेश्वरसंस्थं च तथा पशुपतीश्वरम् || ८२ ||
शङ्कुकर्णेश्वरं चैव गोकर्णे च तथा ह्युभौ |
द्रिमिचण्डेश्वरं चैव भद्रेश्वर तथैव च || ८३ ||
स्थानेश्वरमथैकाम्रं कालेश्वरमजेश्वरम् |
भैरवेश्वरमीशानं तथा कारोहणास्थितम् || ८४ ||
यानि चान्यानि पुण्यानि स्थानानि मम भूतले |
तानि सर्वाण्यशेषेण काशिपुर्यां विशन्ति माम् || ८५ ||
सर्वपर्वसु पुण्येषु गुह्यं चैतदुदाहृतम् |
तेनेह लभ्यते जन्तोर्विपन्नस्यामृतं पदम् || ८६ ||
स्नातस्य चैव गङ्गायां दृष्टेन च मया शुभे |
सर्वयज्ञफलैस्तुल्यमिष्टैः शतसहस्रशः |
सद्य एव-म्-अवाप्नोति किं न्वतः परमस्ति वै || ८७ ||
सर्वायतनमुख्यानां दिवि भूमौ गिरिष्वपि |
नातः परतरं देवि बुध्यस्वास्तीति कृत्स्नशः || ८८ ||
ब्रह्मार्कवैश्वानरशक्रचन्द्रैर्जलेशवित्ताधिपवायुभिश्च |
गन्धर्वयक्षोरगसिद्धसंघैः सार्धं सदा सेवितमेतदग्र्यम् || ८९ ||
स्थानं ममेदं हिमशैलपुत्रि गुह्यं सदा क्षेत्रमिदं सुपुण्यम् |
विमोक्षसंसिद्धिफलप्रदं हि तत्त्वप्रबुद्धा यतयो वदन्ति || ९० ||
क्षेत्रे ऽस्मिन्निवसन्ति ये सुकृतिनो भक्ताः सदा मां नराः
पश्यन्तो ऽन्वहमादरेण शुचयः स्नाताः सदा मत्पराः |
ते मर्त्या भयपापदुःखरहिताः संशुद्धकर्मक्रिया
भित्त्वा सम्भवबन्धजालगहनं विन्दन्ति मोक्षं परम् || ९१ ||
एवमेतत्सरःकीर्णं नानाद्रुमलताकुलम् |
जाह्नव्यालंकृतं पुण्यं क्षेत्रं गुह्यतमं मम || ९२ ||
भागीरथीमिहासाद्य वाराणस्यां ममास्पदे |
अश्वमेधशतं प्राप्य ब्रह्मलोकं च गच्छति || ९३ ||
नातः पुण्यतमं देवि नातो गुह्यतमं क्वचित् |
नातः शुभतरं किंचिन्नातः प्रियतरं मम || ९४ ||
क्षेत्रं ममेदं सुरसिद्धजुष्टं सम्प्राप्य मर्त्यः सुकृतप्रभावात् |
ख्यातो भवेत्सर्वसुरासुराणां मृतश्च यायात्परमं पदं तम् || ९५ ||

सनत्कुमार उवाच |

उद्यानानि ततो देवः स्थानानि च तथात्मनः |
आख्याय हिमवत्पुत्र्या विचचार तदा पुनः || ९६ ||
सो ऽपश्यत तदा विप्रं तप्यमानं परं तपः |
पुत्रं शतशलाकस्य जैगीषव्यं तपोधनम् || ९७ ||
स लिङ्गं देवदेवस्य प्रतिष्ठाप्यार्चयत्सदा |
भस्मशायी भस्मदिग्धो नृत्तगीतैरतोषयत् |
जप्येन वृषनादैश्च तपसा भावितः शुचिः || ९८ ||
तमेवं वर्तमानं तु भक्त्या परमया युतम् |
भगवान्सहसाभ्येत्य इदं वचनमब्रवीत् || ९९ ||
जैगीषव्य महाबुद्धे पश्य मां दिव्यचक्षुषा |
तुष्टो ऽस्मि वरदश्चैव ब्रूहि यत्ते मनोगतम् || १०० ||
स एवमुक्तो देवेन सोमं दृष्ट्वा त्रिलोचनम् |
प्रणम्य शिरसा पादाववन्दत्परया मुदा || १०१ ||

जैगीषव्य उवाच |

नमः सर्वार्थसिद्धाय योगसिद्धाय वै नमः |
नमः पिनाकहस्ताय हिमवन्निलयाय च || १०२ ||
नमः पवनवेगाय ध्येयाय ध्यायिभिः सदा |
नमः सोमाय हेम्ने च हेममालाधराय च || १०३ ||
नमो गणाधिपतये नमः शान्तेन्द्रियाय च |
योगसाहाय्यकर्त्रे च साहसोपशमाय च || १०४ ||
नमो मृत्युहरायैव नमः शोकहराय च |
नमः सिद्धिप्रदात्रे च सिद्धिसिद्धाय वै नमः || १०५ ||
धारिणे सर्वलोकानां सर्वलोकेश्वराय च |
नमो दशार्धवर्णाय संसारापनुदाय च || १०६ ||
नमः संसारपाराय अपारपरमाय च |
स्वयंमन्त्रे च मनसे दुर्विज्ञेयाय वै नमः || १०७ ||
नमः कालकलाज्ञाय सकलायाकलाय च |
नमस्तत्त्वाधिवासाय प्रेताधिपतये नमः || १०८ ||
नमः क्रोधविहीनाय क्रोधाधिपतये नमः |
नमः श्रमायाश्रमिणे श्रमापनयनाय च || १०९ ||
नमो ज्ञानरसज्ञाय ज्ञानिने ऽज्ञानहारिणे |
सक्ताय चैव तपसि ऐश्वर्यनिरताय च || ११० ||
नमो ज्ञानाय बन्धाय अज्ञानविनिवर्तिने |
नमः सर्वानुभावाय भावानुगतचेतसे || १११ ||
नमः शमदमाढ्याय मृत्युदूतापहारिणे |
नमः शैलादिनाथाय शैलादिगणपाय च || ११२ ||
नमो योगरहस्याय योगदाय नमो नमः |
मह्यं सर्वात्मना कामान्प्रयच्छ भगवन्प्रभो || ११३ ||

सनत्कुमार उवाच |

स एवं स्तूयमानश्च भक्त्या परमयापि च |
तुष्टस्तुतोष भूयो ऽस्य इदं चैनमुवाच ह || ११४ ||

देव उवाच |

अजरश्चामरश्चैव सर्वशोकविवर्जितः |
महायोगी महावीर्यो योगैश्वर्यसमन्वितः || ११५ ||
प्रभावाच्चास्य गुह्यस्य क्षेत्रस्य मम शाश्वतम् |
योगे ऽष्टगुणमैश्वर्यं प्राप्स्यसे परमं महत् |
भविष्यसि द्विजश्रेष्ठ योगाचार्यश्च विश्रुतः || ११६ ||
यश्चेमं त्वत्कृतं लिङ्गं नियमेनार्चयिष्यति |
योनयः सप्त गत्वा तु योगं स समवाप्स्यति || ११७ ||
जैगीषव्यगुहां चेमां प्राप्य यो योक्ष्यते द्विजः |
स सप्तरात्रं युक्तात्मा सर्वपापैः प्रमुच्यते || ११८ ||
मासेन पूर्वां जातिं च पूर्वाधीतं च वेत्स्यति |
एकरात्रं गतिं शुद्धां द्वाभ्यां तारयते पितॄन् || ११९ ||
त्रिरात्रेण व्यतीतांश्च परान्सप्त च तारयेत् |
अतो भूयश्च किं ते ऽद्य जैगीषव्य ददान्यहम् || १२० ||

जैगीषव्य उवाच |

भगवन्देवदेवेश यच्छ यन्मे मनोगतम् |
अतो ऽहं नान्यदिच्छामि योगाक्षय्यात्परं हितम् || १२१ ||
त्वयि भक्तिश्च नित्यं स्यात्सोमे सगणपेश्वरे |
अनुत्सेकं तथा क्षान्तिं शमं दममथापि च || १२२ ||
न चाप्यभिभवं कुर्यान्न च तेजोवमाननाम् |
एतान्वरानहं देव सदेच्छामि महाद्युते || १२३ ||

देव उवाच |

एते तव भविष्यन्ति अजय्यत्वं च योगिभिः |
इच्छतो दर्शनं चैव भविष्यति च ते मम || १२४ ||

सनत्कुमार उवाच |

ततः स भगवान्देवः पाराशर्योमया सह |
सनन्दी सगणश्चैव भक्तानुग्रहलिप्सया || १२५ ||
तप्यतो यक्षराजस्य कृत्वा हृदि महेश्वरम् |
वरदानाय देवेशो जगाम पुरतस्तदा || १२६ ||
अथ दृष्ट्वा त्रिपादं च ह्रस्वबाहूरुपादकम् |
तप्यमानं तपो घोरं सुतं विश्रवसस्तदा || १२७ ||
दृष्ट्वोवाच ततो देवः कुबेरं दीप्ततेजसम् |
तपसा भावितं व्यास त्वगस्थिपरिसंस्थितम् || १२८ ||

देव उवाच |

भो भो विश्रवसः पुत्र चक्षुर्दिव्यं ददानि ते |
सोमं पश्य महासत्त्व मां त्वं दिव्येन चक्षुषा || १२९ ||
ततः स दृष्ट्वा देवेशं साम्बं नन्दिपुरःसरम् |
प्रणम्य कर्षितः सम्यगुत्थातुं न शशाक ह || १३० ||
अबलं तं समालक्ष्य उत्थाने ऽशक्तमीश्वरः |
उवाचोत्तिष्ठ भद्रं ते बलं पौराणमस्तु ते || १३१ ||
तत उत्थाय जानुभ्यां कुबेरो ह्यवतिष्ठत |
पार्श्वगां चैव नेत्रेण देवीमालोकयन्स्थितः || १३२ ||
इयं सा पर्वतसुता सर्वलोकनमस्कृता |
माता लोकत्रयस्यास्य महायोगबलान्विता || १३३ ||
अहो ऽस्यास्तपसो वीर्यमहो दीप्तिरहो बलम् |
या प्रभोः सर्वलोकस्य पत्नीत्वं प्रजगाम ह || १३४ ||

सनत्कुमार उवाच |

तमेवंभूतमनसमीक्षमाणं च पार्वतीम् |
बुबोध देवी बुद्ध्वा च चुकोप परमेश्वरी || १३५ ||
सा क्रुद्धा तु कुबेरस्य वाममक्षि सुदीप्तिमत् |
विशुष्कं कक्षमादीप्ता ददाहाग्नेः शिखा यथा || १३६ ||
पुनश्चास्य विनाशाय कुबेरस्य शुभानना |
मतिं दध्रे तपोयोनिरथैनामवदद्धरः || १३७ ||
मा क्रुधो देवि यक्षस्य भक्तस्यास्य तपस्विनः |
यशस्वी धार्मिकश्चायं भक्तस्त्वां च विशेषतः || १३८ ||
कुतूहलतया ह्येष त्वां निरीक्षितवाञ्छुभे |
प्रसादं कुरु बालस्य धनदस्य महेश्वरि || १३९ ||

देव्युवाच |

एषो ऽसकृन्मां देवेश वीक्षते ऽविनयात्प्रभो |
मिनोति न गुणान्देव कस्मान्मम पुरः स्थितः || १४० ||
तेजसां यो ऽप्रमेयानां कुर्यान्मोहेन लङ्घनम् |
सो ऽल्पवीर्यो विनश्येत पतङ्गो ऽग्निमिवागतः || १४१ ||

सनत्कुमार उवाच |

तामेवं क्रोधताम्राक्षीं क्रुद्धां सम्प्रेक्ष्य शंकरः |
उवाच मधुरं श्लक्ष्णं गिरीन्द्रतनयां वचः || १४२ ||
ब्रवीमि त्वां महाभागे मा क्रुधो जगतो ऽरणि |
त्वया सृष्टं जगत्सर्वं प्रकृतिस्त्वं सुरेश्वरि |
पुत्रस्ते ऽयं यतो देवि तस्मान्न क्रोद्धुमर्हसि || १४३ ||
मातरं चैव पुत्रस्य वीक्षमाणस्य शोभने |
न दोषो ऽस्ति न चैवास्य त्वयि चेतो विमोहितम् || १४४ ||
तस्मात्त्वमेव देव्यस्य प्रसन्नस्य नतस्य च |
प्रसादं कुरु देवेशे कुबेरस्य यथेप्सितम् || १४५ ||

सनत्कुमार उवाच |

सा तथा देवदेवेन प्रोक्ता गिरिवरात्मजा |
प्रसादमकरोत्तस्य प्रसन्ना चेदमब्रवीत् || १४६ ||

देव्युवाच |

कुबेर यत्ते दुरितं क्षान्तं तत्ते मयानघ |
तुष्टास्मि मा कृथाश्चैव पुनस्तेजस्विलङ्घनम् || १४७ ||
यत्त्विदं ते मया दग्धमीक्षमाणस्य लोचनम् |
वामं तथैव भवतु पिङ्गलं दीप्तिमच्च ह || १४८ ||
अनेन चाङ्कितो लोके भविष्यसि न संशयः |
एकाक्षिपिङ्गलो नाम्ना ख्यातः सर्वत्र पूजितः || १४९ ||
चरितं यत्तपश्चेदमक्षयं तच्च ते ऽव्ययम् |
सौभाग्यमुत्तमं चैव मत्प्रसादाद्भविष्यति || १५० ||

सनत्कुमार उवाच |

एवमुक्त्वा ततो देवी विरराम शुभानना |
भगवान्वरदो ऽस्मीति कुबेरमवदत्ततः || १५१ ||
अथैवमुक्तो देवेन कुबेरो हृष्टमानसः |
तुष्टाव देवं देवीं च शिरसा प्राञ्जलिर्नतः || १५२ ||

कुबेर उवाच |

नमः पट्टिसहस्ताय किरीटवरधारिणे |
नमो वलयधारिण्यै धारिण्यै दर्पणस्य च || १५३ ||
नमः सर्वाङ्गकेशाय दीर्घकेश्यै नमो नमः |
नमो मेखलधारिण्यै नमो मौञ्जीधराय च || १५४ ||
नमो नीलशिखण्डिन्यै नमः पिङ्गजटाभृते |
नमो ज्ञानाय तनवे भूताधिपतये नमः || १५५ ||
नमस्ताराभिधारिण्यै सिंहोरस्काय वै नमः |
नमो रत्नाग्र्यधारिण्यै नमश्चन्द्रार्धमौलये || १५६ ||
नमः प्रकृतये चैव नमो ऽस्तु पुरुषाय च |
नमो ऽस्तु बुद्धये चैव अहंकाराय वै नमः || १५७ ||
नमो ऽस्तु रतये चैव सुखाय च नमो नमः |
नमः कीर्त्यै कर्मणे च आरम्भाय समाप्तये || १५८ ||
नमो यज्ञाय मन्त्राय दक्षिणायै ऋचे नमः |
नमः साम्ने ऽथ यजुषे छन्दसे चेष्टये नमः || १५९ ||
नमो ऽग्नये च वेद्यै च स्वाहायै हविषे नमः |
नमो लक्ष्म्यै श्रियै चैव नमो धर्माय वेधसे || १६० ||
इच्छायै रतये चैव नमः सम्पद्विरागिणे |
नमः सिद्ध्यै तथा पुष्ट्यै तुष्ट्यै क्षान्त्यै नमो नमः || १६१ ||
नमः स्वधायै कव्याय हव्याय च नमो नमः |
नमो वेद्याय विद्यायै नमः शर्वाय भक्तये || १६२ ||
प्रलयोत्पत्तये चैव स्थित्यै संसारणाय च |
मोक्षाय मुक्तये चैव नमः कालाय मृत्यवे || १६३ ||
नमस्ते भगवन्देव सह देव्या जगत्पते |
दिश नो भूतभव्येश यन्मे मनसि संस्थितम् || १६४ ||

सनत्कुमार उवाच |

य इमं पठते नित्यं स्तवं प्रातः समुत्थितः |
जपंश्च विप्रो वैश्यो वा शूद्रः क्षत्रिय एव वा || १६५ ||
तस्य तुष्टो धनेशस्तु प्रयच्छति महद्धनम् |
सोमश्च भगवांस्तुष्टो गतिमिष्टां प्रयच्छति || १६६ ||

सनत्कुमार उवाच |

एवं स संस्तुतस्तेन कुबेरेण जगत्पतिः |
उवाच वरदो ऽस्मीति ब्रूहि विश्रवसः सुत || १६७ ||

कुबेर उवाच |

त्वत्तः प्रसादः सततं भक्तिश्च त्वयि शाश्वती |
भगवंस्त्वां च पश्येयं वर एषो ऽस्तु मे विभो || १६८ ||
एवमस्त्विति तत्सर्वं प्रदाय भगवाञ्छिवः |
आत्मना सह सख्यं च ददावात्यन्तिकं तदा || १६९ ||

देव उवाच |

गृहाण चेमां शिबिकां नरयुक्तामसङ्गिनीम् |
लोकान्यथेष्टं लोकेश यामारुह्य चरिष्यसि || १७० ||
इमां चैवाशनिं दिव्यामप्रतीघातलक्षणाम् |
गृहाणायुधमेतत्ते भविष्यत्यरिदुःसहम् || १७१ ||
अस्त्रं च ते प्रयच्छामि तव नाम्ना भविष्यति |
कौबेरमिति विख्यातं मोहनं सर्वदेहिनाम् || १७२ ||

सनत्कुमार उवाच |

ततः स देवस्तुष्टात्मा मालां स्वयमनिन्दिताम् |
आबबद्धास्य शिरसि भास्कराकारवर्चसम् || १७३ ||
कुशेशयानां फुल्लानां स्रग्दामं च मनोरमम् |
आबबद्धास्य कण्ठे वै प्रीयमाण उमापतिः || १७४ ||
प्रकामं दर्शनं चास्य दत्त्वा चैव धनेशताम् |
जगाम भगवान्सोमस्ततो ऽन्यं देशमीप्सितम् || १७५ ||

सनत्कुमार उवाच |

य इमं तु कुबेरस्य वरदानमशेषतः |
शृणुयाच्छ्रावयेद्वापि नित्यं विप्रान्समाहितः || १७६ ||
धनवान्रूपसम्पन्नः पुत्रपौत्रसमन्वितः |
कुलज्ञानबलोपेतो जायते स मृतो नरः || १७७ ||
अथ देवी महाभागा सहिता शम्भुना तदा |
संचिन्त्य पञ्चचूडास्तु तपन्त्यो ऽप्सरसः शुभाः || १७८ ||
कृशाङ्ग्यो भक्तिमत्यश्च तपसा दग्धकिल्बिषाः |
कारुण्याहृतचेतस्का देवं वचनमब्रवीत् || १७९ ||
एतासां तप्यमानानां योषितां वरमुत्तमम् |
ददानीप्सितमीशान तन्मे ऽनुज्ञातुमर्हसि |
तस्या विज्ञप्तिमाकर्ण्य भगवानिदमब्रवीत् || १८० ||
एवं कुरु महाभागे भक्तानुग्रहमीप्सितम् |
वैदिक्यो ऽप्सरसो ह्येताः पञ्चचूडा इति स्मृताः |
त्वां कृत्वा हृदि तप्यन्ते वर आभ्यः प्रदीयताम् || १८१ ||
ततः सा देवदेवेन तथा समनुचोदिता |
पञ्चचूडाः समागम्य वच एतदुवाच ह || १८२ ||
तुष्टास्म्यप्सरसः साक्षात्पश्यध्वं मां शुचिस्मिताः |
ददानि वो वरानिष्टान्ये वो हृदयसंस्थिताः || १८३ ||

सनत्कुमार उवाच |

ता एवमुक्ताः पार्वत्या वैदिक्यो ऽप्सरसः शुभाः |
देवीं दृष्ट्वा प्रणम्यैव शिरसा पादयोर्नताः || १८४ ||
अश्रुपूर्णेक्षणा दीनाः संस्तभ्यात्मानमात्मना |
शिरस्यञ्जलिमाधाय तुष्टुवुः सहिताः समम् || १८५ ||
नमः कीर्त्यै नमः सत्यै उल्कजायै तथेष्टये || १८६ ||
नमः पृथिव्यै कल्याण्यै श्रियै लक्ष्म्यै नमो नमः |
नमः सुधायै स्वाहायै स्वधायै दितये नमः || १८७ ||
नमो ऽस्तु तडिते चैव सौदामन्यै नमो नमः |
सावित्र्यै चाथ गायत्र्यै वेदमात्रे नमो नमः || १८८ ||
नमः पर्वतकन्यायै मतये स्मृतये नमः |
नमः पर्वतवासिन्यै रुद्राण्यै च नमो नमः || १८९ ||
नमः प्रकृतये चैव ज्योत्स्नायै ऋद्धये नमः |
शोभायै दीप्तये चैव भास्करग्रहरश्मये || १९० ||
गत्यायै गतये चैव इन्द्राण्यै मुक्तये नमः |
नियत्यै सरिते चैव गङ्गायै सूतये नमः || १९१ ||
हेतये प्रीतये चैव नमः करणवृत्तये |
नमः संनतये चैव इरायै वृत्तये नमः || १९२ ||
वारुण्यै च शरण्यायै गौर्यै काल्यै नमो नमः |
कौशिक्यै च नमस्ते ऽस्तु कात्यायन्यै नमो नमः || १९३ ||
नमः संनतये चैव महिम्ने च नमो नमः |
अणिमायै नमस्ते ऽस्तु लघिमायै नमो नमः || १९४ ||
पूजायै ते नमस्ते ऽस्तु शितिबाह्वे च सृप्तये |
संज्ञायै च नमस्ते ऽस्तु गिरे ऽथ स्मृतये नमः || १९५ ||
नमस्ते ऽस्तु सरस्वत्यै जिह्वायै दृष्टये नमः |
नमो महिषघातिन्यै तथा सुम्भनिसुम्भयोः || १९६ ||
नमः सिंहरथिन्यै च शूलिन्यै च नमो नमः |
नमो मुद्गरधारिण्यै कवचिन्यै नमो नमः || १९७ ||
नमस्तूणीरधारिण्यै धारिण्यै जगतो नमः |
नमो धनुर्धरायै च खड्गिन्यै च नमो नमः || १९८ ||
नमः पिञ्च्छध्वजिन्यै च धारिण्यै पट्टिसस्य च |
नमो ऽस्तु भूतमात्रे च स्कन्दस्य च नमो नमः || १९९ ||
विशाखशाखयोश्चैव नैगमेषस्य चैव हि |
जात्यै सर्वरसानां च देवतायै वनस्य च || २०० ||
आर्यायै च नमो नित्यं शिखण्डिन्यै नमो नमः |
नमो नीलशिखण्डिन्यै दीर्घवेण्यै नमो नमः || २०१ ||
नमो ऽस्तु तनुमध्यायै देवतायै धनस्य च |
नमो धृत्यै नमश्चित्यै कीर्तये च नमो नमः || २०२ ||
स्त्रीणां सौभाग्यदायिन्यै धारिण्यै च नमो नमः |
राकानुमतये चैव सिनीवाल्यै नमो नमः || २०३ ||
नमः क्रियायै श्रद्धायै मेधायै च नमो नमः |
नमो ऽस्तु धारणायै च ऊहायै च नमो नमः || २०४ ||
अपोहायै नमस्ते ऽस्तु वषट्प्रकृतये नमः |
नमः समाधये चैव स्पृहायै वित्तये नमः || २०५ ||
वेदनायै नमस्ते ऽस्तु बृहदुक्ष्यै नमो नमः |
नमः प्रभायै शुद्धायै शुद्धये शुचये नमः || २०६ ||
नमस्त्र्यम्बकभार्यायै विद्यायै च नमो नमः |
दीक्षायै दक्षिणायै च ज्वालायै च नमो नमः || २०७ ||
इन्द्रियाणां प्रवृत्त्यै च निवृत्त्यै चैव कर्मणाम् |
श्रुतये सर्ववेदानां भवान्यै च नमो नमः || २०८ ||
दुर्गायै दुर्गतारिण्यै धारिण्यै सर्वदेहिनाम् |
नमस्ते सर्वदेवत्यै नमस्ते लोकभावनि || २०९ ||
नमः शान्त्यै नमः कान्त्यै नमः पत्न्यै हरस्य च |
नमो ऽस्त्वदित्यै दानव्यै विनतायै नमो नमः || २१० ||
नमः शिवायै कर्त्र्यै च प्रभावायै नमो नमः |
मृकण्ड्वै मार्दबाह्वै च तथा सुरतये नमः || २११ ||
विनतायै तथा लक्ष्म्यै सुरसायै नमो नमः |
नमस्ते शितिकण्ठिन्यै नमस्ते सर्वतः सदा |
दिश नः सुमनाः सर्वं यत्किंचिद्धृदये स्थितम् || २१२ ||

सनत्कुमार उवाच |

य इदं पठते नित्यं नरः स्त्री वा समाहितः |
स रात्रिषु कृतं पापं त्यजेत्सर्वमशेषतः || २१३ ||
शयानो जपते यश्च प्रयतो व्यास नित्यशः |
दिवाकृतं स जह्यात्तु मृतश्च सुगतिं व्रजेत् || २१४ ||
यश्चैतच्छृणुयान्नित्यं द्विजान्वा श्रावयेत्सदा |
स देहभेदमासाद्य पञ्चचूडाप्रियो भवेत् || २१५ ||
यश्चैनं प्रजहन्प्राणाञ्जपेन्मर्त्यः सुदुस्त्यजान् |
विमाने सूर्यसंकाशे अप्सरोगणसेविते |
सर्वपापविनिर्मुक्तो रमेद्वर्षायुतं समम् || २१६ ||
यश्च भक्त्या परमया तिथौ नियमवान्नरः |
देवीमभ्यर्च्य जपते सर्वपापैः प्रमुच्यते || २१७ ||
जपनाद्देहतपनाद्देहे भिन्ने च भक्तिमान् |
स भूत्वानुचरो देव्याः पुण्ये लोके महीयते || २१८ ||

सनत्कुमार उवाच |

ताभिरेवं स्तुता देवी स्थिता देवस्य संनिधौ |
उवाच हर्षमाणास्या पञ्चचूडास्तदा वचः || २१९ ||
शृणुताप्सरसः सर्वास्तपसो ऽस्य महत्फलम् |
यच्चापि परया भक्त्या मां प्रपन्नाः स्थ शोभनाः || २२० ||
अजराश्च विशोकाश्च नित्यं मुदितमानसाः |
प्रियाश्च सर्वलोकस्य भविष्यथ ममाज्ञया || २२१ ||
ब्रूत यच्चापि किंचिद्वो हृदि स्थितमशङ्किताः |
सर्वं दास्यामि तद्वो ऽहं मा चिराय तदुच्यताम् || २२२ ||

पञ्चचूडा ऊचुः |

देवि पुंसां स्त्रियः सर्वाः कार्यार्थं विदितं च ते |
अर्थिनस्ते च नस्तावद्यावत्कार्यं समाप्यते |
समाप्ते चैव तत्कार्ये परा इव भवन्ति नः || २२३ ||
तद्देवि यदि तुष्टासि यदि देयो वरश्च नः |
सर्वस्त्रीणां महादेवि भवन्तु पुरुषा वशाः || २२४ ||

देव्युवाच |

अद्यप्रभृति लोकेषु सर्वस्त्रीणां नराः सदा |
सर्वे वश्या भविष्यन्ति सर्वकार्यकराश्च ह || २२५ ||
आदौ पश्चाच्च सर्वाभ्यो हिरण्यं पशवः स्त्रियः |
सर्वभोगांश्च दास्यन्तु वशगाः सर्वथापि च || २२६ ||
व्यलीकान्यपि कुर्वन्त्यो बहूनि विविधानि च |
प्रिया एव भविष्यन्ति पापं न च भवेत्सदा || २२७ ||
मातरं पितरं भ्रातॄन्सुहृदो ऽथ सुतानपि |
अकार्याणि करिष्यन्तु स्त्रीणां वश्यत्वमागताः || २२८ ||
पश्यन्तो ऽपि व्यलीकानि दोषान्वैकृत्यमेव च |
नैव द्रक्ष्यन्ति ते पुंसो मद्वरान्मोहितेन्द्रियाः || २२९ ||

सनत्कुमार उवाच |

ततः सा देवदेवस्य पत्नी हिमवतः सुता |
माल्यदामं गृहीत्वा तु भ्रामयन्ती शुभानना |
भव नार्य इति प्राह हसन्ती प्रियमव्यया || २३० ||
भ्राम्यतस्तस्य दाम्नस्तु यान्यशीर्यन्त भूतले |
कुसुमान्यभवंस्तानि नार्यः कमललोचनाः || २३१ ||
ता उवाचामरा यूयं जराक्षयविवर्जिताः |
जगन्मोहकरा यूयं पुंसां हृदयबन्धनाः || २३२ ||
दृष्टिस्पर्शविलासेषु आविश्य जगति स्त्रियः |
संमोहयिष्यथ नरान्स्त्रीवशांश्च करिष्यथ |
नराः सर्वे च युष्मासु भविष्यन्ति सदा रताः || २३३ ||
वृत्तिः शुभा भवित्री च सर्वासां मम तेजसा |
पुंसां स्त्रीभोगसिद्ध्यर्थं स्त्रीणां रत्यर्थमेव च || २३४ ||
क्रियाः शुभाङ्गसंस्कारा दिव्या ये मानुषाश्च ह |
बहुरूपाश्च ता भूत्वा विविशुः सर्वदाङ्गनाः || २३५ ||

सनत्कुमार उवाच |

एवं देवी तदा व्यास सृष्ट्वा ता वै विसृज्य च |
उवाचाप्सरसो ब्रूत किं वो भूयः करोम्यहम् || २३६ ||
तास्तुष्टमनसश्चापि ऊचुर्व्यास भवेमहि |
देवानां मानुषाणां च अवध्याश्चैव रक्षसाम् |
ता उवाच ततो देवी एवं लोके भविष्यतु || २३७ ||
ततः स सहितो देव्या सनन्दी परमेश्वरः |
गणैः सर्वैश्च सहितो गृहान्स्वानाविशत्प्रभुः || २३८ ||
भगनयननिपाती दैत्यदर्पापहारी पुरकमलहिमौघः कामयज्ञेन्धनाग्निः |
जलदवृषभयायी सर्वदुःखान्तकारी समरवृषभकेतुश्चन्द्रमौलिर्जगाम || २३९ ||
इति स्कन्दपुराणे ऊनत्रिंशो ऽध्यायः ||