व्यास उवाच |

भगवन्पिङ्गलः केन गणत्वं समुपागतः |
अन्नदत्वं च सम्प्राप्तो वाराणस्यां महाद्युतिः || १ ||
क्षेत्रपालः कथं जातः प्रियत्वं च कथं गतः |
एतदिच्छामि कथितं श्रोतुं ब्रह्मसुत त्वया || २ ||

सनत्कुमार उवाच |

शृणु व्यास यथा लेभे गणेशत्वं स पिङ्गलः |
अन्नदत्वं च लोकानां स्थानं वाराणसीं च हि || ३ ||
पूर्णभद्रसुतः श्रीमानासीद्यक्षः प्रतापवान् |
हरिकेश इति ख्यातो ब्रह्मण्यो धार्मिकश्च ह || ४ ||
तस्य जन्मप्रभृत्येव शर्वे भक्तिरनुत्तमा |
तदाशीस्तन्नमस्कारस्तन्निष्ठस्तत्परायणः || ५ ||
आसीनश्च शयानश्च गच्छंस्तिष्ठन्ननुव्रजन् |
भुञ्जानो ऽथ पिबन्वापि रुद्रमेवानुचिन्तयत् || ६ ||
तमेवं युक्तमनसं पूर्णभद्रः पिताब्रवीत् |
न त्वा पुत्रमहं मन्ये दुर्जातो यस्त्वमन्यथा || ७ ||
न हि यक्षकुलीनानामेतद्वृत्तं भवत्युत |
गुह्यका वत यूयं वै स्वभावात्क्रूरचेतसः |
क्रव्यादाश्चैव किंभक्षा हिंसाशीलाश्च पुत्रक || ८ ||
मैवं कार्षीर्न नो वृत्तिरेवं दृष्टा महात्मनाम् |
स्वयम्भुवा यथा सृष्टा सैव वृत्तिः प्रशस्यते || ९ ||

हरिकेश उवाच |

दुष्टा चैवाप्रशस्ता च गर्हिता साधुभिः सदा |
वृत्तिः स्वयम्भुवा सृष्टा त्यक्तव्या यदि नो भवेत् |
आश्रमान्तरजं कर्म न कुर्युर्गृहिणस्ततः || १० ||
हित्वा मनुष्यभावं च कर्मभिर्विविधैश्च ह |
देवत्वं नो विमार्गेयुर्मानुष्यां जातिमेव च || ११ ||
अथ चेद्विहितं तेषां कर्म तत्प्राप्तिसंश्रितम् |
ममापि विहितं पश्य कर्मैतन्नात्र संशयः || १२ ||

सनत्कुमार उवाच |

स एवमुक्तः पुत्रेण पूर्णभद्रः प्रतापवान् |
उवाच निष्क्रम क्षिप्रं गच्छ त्वं यत्र रोचते || १३ ||
ततः स निर्गतस्त्यक्त्वा गृहसम्बन्धिबान्धवान् |
वाराणसीं समासाद्य तपस्तेपे सुदुश्चरम् || १४ ||
स्थाणुभूतो ह्यनिमिषः शुष्ककाष्ठोपलोपमः |
संनियम्येन्द्रियग्राममवातिष्ठत निश्चलः || १५ ||
अथ तस्यैवमनिशं तत्परस्य तदाशिषः |
सहस्रमेकं वर्षाणां दिव्यमभ्यतिवर्तत || १६ ||
वल्मीकेन समाक्रान्तो भक्ष्यमाणः पिपीलिकैः |
वज्रसूचीमुखैर्व्यास विध्यमानस्तथैव च || १७ ||
निर्मांसरुधिरत्वक्च कुन्दशङ्खेन्दुसप्रभः |
अस्थिशेषो ऽभवत्सर्वो देवश्चैनममन्यत || १८ ||
एतस्मिन्नन्तरे देवी व्यज्ञापयत शंकरम् |
उद्यानं पुनरेवेदं द्रष्टुमिच्छामि सर्वद || १९ ||
क्षेत्रस्य चैव माहात्म्यं श्रोतुं कौतूहलं हि मे |
यतश्च प्रियमेतत्ते यच्चास्य फलमुत्तमम् || २० ||
इति विज्ञापितो देवः पार्वत्या भुवनेश्वरः |
सर्वं पृष्टं यथान्यायमाख्यातुमुपचक्रमे || २१ ||
निर्जगाम च देवेशः पार्वत्या सह शंकरः |
उद्यानं दर्शयामास देव्या देवः पिनाकधृक् || २२ ||
प्रफुल्लनानाविधगुल्मशोभितं लताप्रतानावनतं मनोहरम् |
विरूढपुष्पैः परितः प्रियङ्गुभिः सुपुष्पितैः कण्टकितैश्च केतकैः || २३ ||
तमालगुल्मैर्निचितं सुगन्धिभिर्निकामपुष्पैर्बकुलैश्च सर्वशः |
अशोकपुंनागवनैः सुपुष्पितैर्द्विरेफमालाकुलपुष्पसंचयैः || २४ ||
क्वचित्प्रफुल्लाम्बुजरेणुरूषितैर्विहंगमैश्चारुकलप्रणादिभिः |
विनादितं सारसहंसनादिभिः प्रमत्तदात्यूहरुतैश्च वल्गुभिः || २५ ||
क्वचिच्च चक्राह्वरुतोपनादितं क्वचिच्च कादम्बकदम्बकायुतम् |
क्वचिच्च कारण्डवनादनादितं क्वचिच्च मत्तालिकुलाकुलीकृतम् || २६ ||
मदाकुलाभिर्भ्रमराङ्गनाभिर्निषेवितं चारुसुगन्धिपुष्पम् |
क्वचित्सुपुष्पैः सहकारवृक्षैर्लतोपगूढैस्तिलकैश्च गूढम् || २७ ||
प्रगीतविद्याधरसिद्धचारणं प्रनृत्तनित्यानुगताप्सरोगणम् |
प्रहृष्टनानाविधपक्षिसेवितं प्रमत्तहारीतकुलोपनादितम् || २८ ||
मृगेन्द्रनादाकुलसन्नमानसैः क्वचित्क्वचिद्बद्धकदम्बकं मृगैः |
प्रफुल्लनानाविधचारुपङ्कजैः सरस्तडागैरुपशोभितं क्वचित् || २९ ||
निविडनिचुलनीलं नीलकण्ठाभिरामं
मदमुदितविहंगव्रातनादाभिरामम् |
कुसुमिततरुशाखालीनमत्तद्विरेफं
नवकिसलयशोभाशोभितप्रान्तशाखम् || ३० ||
क्वचिच्च दन्तिक्षतचारुवीरुत्क्वचिल्लतालिङ्गितचारुवृक्षम् |
क्वचिद्विलासालसगामिनीभिर्निषेवितं किंपुरुषाङ्गनाभिः || ३१ ||
पारावतध्वनिनिकूजितचारुशृङ्गैरभ्रंकषैः सितमनोहरचारुरूपैः |
आकीर्णपुष्पनिकरप्रविविक्तहासैर्विभ्राजितं त्रिदशदेवकुलैरनेकैः || ३२ ||
फुल्लोत्पलागरुसहस्रवितानयुक्तैस्तोयाशयैः समनुशोभितदेवमार्गम् |
मार्गान्तरागलितपुष्पविचित्रभक्ति सम्बद्धगुल्मविटपैर्विहगैरुपेतम् || ३३ ||
तुङ्गाग्रैर्नीलपुष्पस्तबकभरनतप्रान्तशाखैरशोकैर्
मत्तालिव्रातगीतश्रुतिसुखजननैर्भासितान्तं मनोज्ञैः |
रात्रौ चन्द्रस्य भासा कुसुमिततिलकैरेकतां सम्प्रयातं
छायासुप्तप्रबुद्धस्थितहरिणकुलालुप्तदर्भाङ्कुराग्रम् || ३४ ||
हंसानां पक्षवातप्रचलितकमलस्वच्छविस्तीर्णतोयं
तोयानां तीरजातप्रविकचकदलीवाटनृत्यन्मयूरम् |
मायूरैः पक्षचन्द्रैः क्वचिदपि पतितै रञ्जितक्ष्माप्रदेशं
देशे देशे निलीनप्रमुदितविलसन्मत्तहारीतवृन्दम् || ३५ ||
सारङ्गैः क्वचिदुपसेवितप्रदेशं
संछन्नं कुसुमचयैः क्वचिद्विचित्रैः |
हृष्टाभिः क्वचिदपि किंनराङ्गनाभिः
क्षीवाभिः सुमधुरगीतवृक्षषण्डम् || ३६ ||
संसृष्टैः क्वचिदुपलिप्तकीर्णपुष्पैर्
आवासैः परिवृतपादपं मुनीनाम् |
आ मूलात्फलनिचितैः क्वचिद्विशालैर्
उत्तुङ्गैः पनसमहीरुहैरुपेतम् || ३७ ||
फुल्लातिमुक्तकलतागृहलीनसिद्धं
सिद्धाङ्गनाकनकनूपुररावरम्यम् |
रम्यप्रियङ्गुतरुमञ्जरिसक्तभृङ्गं
भृङ्गावलीशबलिताम्रकदम्बपुष्पम् || ३८ ||
पुष्पोत्करानिलविघूर्णितपादपाग्रम्
अग्रे सुरेभविनिपातितवंशगुल्मम् |
गुल्मान्तरप्रसृतभीतमृगीसमूहम्
ऊहावतां तनुभृतामपवर्गदातृ || ३९ ||
चन्द्रांशुजालधवलैस्तिलकैर्मनोज्ञैः
सिन्दूरकुङ्कुमकुसुम्भनिभैरशोकैः |
चामीकरप्रतिसमैरथ कर्णिकारैः
पुष्पोत्करैरुपचितं सुविशालशाखैः || ४० ||
क्वचिदञ्जनचूर्णाभैः क्वचिद्विद्रुमसंनिभैः |
क्वचित्काञ्चनसंकाशैः पुष्पैराचितभूतलम् || ४१ ||
पुंनागेषु द्विजशतविरुतं रक्ताशोकस्तबकभरनतम् |
रम्योपान्तं क्लमहरपवनं फुल्लाब्जेषु भ्रमरविलसितम् || ४२ ||
सकलभुवनभर्ता लोकनाथस्तदानीं
तुहिनशिखरिपुत्र्या सार्धमिष्टैर्गणेशैः |
विविधतरुविशालं मत्तहृष्टान्यपुष्टम्
उपवनमतिरम्यं दर्शयामास देव्याः || ४३ ||

देव्युवाच |

उद्यानं दर्शितं देव शोभया परया युतम् |
क्षेत्रस्य तु गुणान्सर्वान्पुनर्वक्तुमिहार्हसि || ४४ ||
अस्य क्षेत्रस्य माहात्म्यमविमुक्तस्य तत्तदा |
श्रुत्वापि न हि मे तृप्तिरतो भूयो वदस्व मे || ४५ ||

देव उवाच |

इदं गुह्यतमं क्षेत्रं सदा वाराणसी मम |
सर्वेषामेव जन्तूनां हेतुर्मोक्षस्य सर्वदा || ४६ ||
अस्मिन्सिद्धाः सदा देवि मदीयं व्रतमाश्रिताः |
नानालिङ्गधरा नित्यं मम लोकाभिकाङ्क्षिणः |
अभ्यस्यन्ति परं योगं युक्तात्मानो जितेन्द्रियाः || ४७ ||
नानावृक्षसमाकीर्णे नानाविहगसेविते |
कमलोत्पलपुष्पाढ्यैः सरोभिः समलंकृते || ४८ ||
अप्सरोगणगन्धर्वैः सदा संसेविते शुभे |
रोचते मे सदावासो येन कार्येण तच्छृणु || ४९ ||
मन्मना मम भक्तश्च मयि सर्वार्पितक्रियः |
यथा मोक्षमिहाप्नोति अन्यत्र न तथा क्वचित् || ५० ||
एतन्मम पुरं दिव्यं गुह्याद्गुह्यतरं महत् |
ब्रह्मादयो विजानन्ति ये च सिद्धा मुमुक्षवः |
अतः प्रियमिदं क्षेत्रमस्माच्चेह रतिर्मम || ५१ ||
विमुक्तं न मया यस्मान्मोक्ष्यते वा कदाचन |
मम क्षेत्रमिदं तस्मादविमुक्तमिति स्मृतम् || ५२ ||
नैमिशे ऽथ कुरुक्षेत्रे गङ्गाद्वारे ऽथ पुष्करे |
स्नानात्संसेवनाद्वापि न मोक्षः प्राप्यते यतः |
इह सम्प्राप्यते येन तत एतद्विशिष्यते || ५३ ||
प्रयागे वा भवेन्मोक्ष इह वा मत्परिग्रहात् |
प्रयागादपि तीर्थाग्र्यादिदमेव महत्स्मृतम् || ५४ ||
जैगीषव्यः परां सिद्धिं यो गतः स महातपाः |
अस्य क्षेत्रस्य माहात्म्याद्भक्त्या च मम भावतः || ५५ ||
जैगीषव्यगुहा श्रेष्ठा योगिनां स्थानमिष्यते |
ध्यायतस्तत्र मां नित्यं योगाग्निर्दीप्यते भृशम्|
कैवल्यं परमं याति देवानामपि दुर्लभम् || ५६ ||
अव्यक्तलिङ्गैर्मुनिभिः सर्वसिद्धान्तवेदिभिः |
इह सम्प्राप्यते मोक्षो दुर्लभो ऽन्यत्र कर्हिचित् || ५७ ||
तेभ्यश्चाहं प्रयच्छामि योगैश्वर्यमनुत्तमम् |
आत्मनश्चैव सायुज्यमीप्सितं स्थानमेव च || ५८ ||
कुबेरः स महायक्षस्तथा सर्वार्पितक्रियः |
क्षेत्रसंसेवनाद्देवि गणेशत्वमवाप ह || ५९ ||
संवर्तो भविता यश्च सो ऽपि भक्त्या ममैव तु |
इहैवाराध्य मां देवि सिद्धिं यास्यत्यनुत्तमाम् || ६० ||
पराशरसुतो योगी ऋषिर्व्यासो महातपाः |
धर्मवक्ता भविष्यश्च वेदसंस्थाप्रवर्तकः |
रंस्यते सो ऽपि पद्माक्षि क्षेत्रे ऽस्मिन्मुनिपुंगवः || ६१ ||
ब्रह्मा देवर्षिभिः सार्धं विष्णुर्वायुर्दिवाकरः |
देवराजस्तथा शक्रो ये ऽपि चान्ये दिवौकसः |
उपासते महात्मानः सर्वे मामिह सुव्रते || ६२ ||
अन्ये च योगिनः सिद्धाश्छन्नरूपा महाव्रते |
अनन्यमनसो भूत्वा मामिहोपासते सदा || ६३ ||
अलर्कश्च पुरीमेतां मत्प्रसादादवाप्स्यति |
स चैनां पूर्ववत्कृत्वा चतुर्वर्णसमाकुलाम् || ६४ ||
स्फीतां जनपदाकीर्णां भुक्त्वा च सुचिरं नृपः |
मयि सर्वार्पितप्राणो मामेव प्रतिपत्स्यते || ६५ ||
ततः प्रभृति चार्वङ्गि ये ऽपि क्षेत्रनिवासिनः |
गृहिणो लिङ्गिनो वापि मद्भक्ता मत्परायणाः |
मत्प्रसादाद्गमिष्यन्ति मोक्षं परमदुर्गमम् || ६६ ||
विषयासक्तचित्तो ऽपि त्यक्तधर्मरतिर्नरः |
इह क्षेत्रे मृतः सो ऽपि संसारं न पुनर्विशेत् || ६७ ||
ये पुनर्निर्ममा धीराः सत्त्वस्था विजितेन्द्रियाः |
व्रतिनश्च निरारम्भाः सर्वतो मयि भाविताः || ६८ ||
देहभेदं समासाद्य धीमन्तः सङ्गवर्जिताः |
गता एव परं मोक्षं प्रसादान्मम सुव्रते || ६९ ||
जन्मान्तरसहस्रेषु युञ्जन्योगी यमाप्नुयात् |
तमिहैव परं मोक्षं मरणादधिगच्छति || ७० ||
एतत्संक्षेपतो देवि क्षेत्रस्यास्य महत्फलम् |
अविमुक्तस्य कथितं मया ते गुह्यमुत्तमम् || ७१ ||
अतः परतरं नास्ति क्षेत्रं गुह्यमितीश्वरि |
एतद्बुध्यन्ति योगज्ञा ये च योगीश्वरा भुवि || ७२ ||
एतदेव परं ज्ञानमेतदेव परं शिवम् |
एतदेव परं ब्रह्म एतदेव परं पदम् || ७३ ||
वाराणसीति भुवनत्रयसारभूता
रम्या पुरी मम सदा गिरिराजपुत्रि |
अत्रागता विविधदुष्कृतकारिणो ऽपि
पापक्षयाद्विरजसः प्रतिभान्ति मर्त्याः || ७४ ||
एतत्स्मृतं प्रियतमं मम देवि नित्यं
क्षेत्रं विचित्रतरुगुल्मनिकामपुष्पम् |
अस्मिन्मृतास्तनुभृतः पदमाप्नुवन्ति
मोक्षाख्यमेनसि रतापि न संशयो ऽत्र || ७५ ||
इति स्कन्दपुराणे त्रिंशत्तमो ऽध्यायः ||