सनत्कुमार उवाच |

एतस्मिन्नन्तरे देवो देवीं प्राह गिरीन्द्रजाम् |
प्रयाम दातुं यक्षाय वरं भक्ताय भाविनि || १ ||
भक्तो मम वरारोहे तपसा हतकिल्बिषः |
अर्हो वरमसौ लब्धमस्मत्तो भुवनेश्वरि || २ ||
एवमुक्त्वा तदा देवः सह देव्या जगत्पतिः |
जगाम यक्षो यत्रास्ते कृशो धमनिसंततः || ३ ||
तं दृष्ट्वा प्रणतं भक्त्या हरिकेशं वृषध्वजः |
दिव्यं चक्षुरदात्तस्मै येनापश्यत्स शंकरम् || ४ ||

सनत्कुमार उवाच |

अथ यक्षस्तदा व्यास शनैरुन्मील्य लोचने |
अपश्यत्सगणं देवं वृषं चैव-म्-उपाश्रितम् || ५ ||

देव उवाच |

बलं ददानि ते पूर्वं त्रैकाल्यं दर्शनं तथा |
सावर्ण्यं च शरीरस्य पश्य मां विगतज्वरः || ६ ||

सनत्कुमार उवाच |

ततः स लब्ध्वा तु वरं शरीरेणाक्षतेन च |
पादयोः प्रणतस्तस्थौ कृत्वा शिरसि चाञ्जलिम् || ७ ||
उवाच स तदा यक्षो वरदो ऽस्मीति चोदितः |
भगवन्भक्तिमग्र्यां तु त्वय्यनन्यां विधत्स्व मे || ८ ||
अन्नदत्वं च लोकानां गाणपत्यं तथाक्षयम् |
अविमुक्ते च ते स्थाने पश्येयं सर्वदा यथा |
एतदिच्छामि देवेश दत्तं वरमनुत्तमम् || ९ ||

देव उवाच |

जरामरणसंत्यक्तः सर्वशोकविवर्जितः |
भविष्यसि गणाध्यक्षो वरदः सर्वपूजितः || १० ||
अजय्यश्चापि सर्वेषां योगैश्वर्यसमन्वितः |
अन्नदश्चापि लोकेभ्यः क्षेत्रपालो भविष्यसि || ११ ||
महाबलो महासत्त्वो ब्रह्मण्यो ऽथ मम प्रियः |
त्र्यक्षश्च दण्डपाणिश्च महायोगी तथैव च || १२ ||
उद्भ्रमः संभ्रमश्चैव गणौ ते परिचारकौ |
तवाज्ञया करिष्येते लोकस्योद्भ्रमसंभ्रमौ || १३ ||

सनत्कुमार उवाच |

एवं स भगवान्व्यास यक्षं कृत्वा गणेश्वरम् |
जगाम धाम देवेशः सह तेन सुरेश्वरः || १४ ||
अथ दृष्ट्वा ततो देवीं देवदेवो वृषध्वजः |
तप्यतो मन्दरस्याशु वरदानार्थमब्रवीत् || १५ ||

देव उवाच |

देवि फुल्लारविन्दाक्षि गमिष्यामि सुमध्यमे |
मन्दरं पर्वतश्रेष्ठमनुग्रहवरेप्सया || १६ ||
सभार्यः ससुतश्चैव स हि मां ससुहृज्जनः |
प्रसन्नस्तपसा श्रेष्ठो मन्दरः पर्वतोत्तमः || १७ ||
अद्य वर्षसहस्राणि पञ्च दिव्यानि पार्वति |
तप्यते तपसा श्रेष्ठो मयि सर्वात्मभावितः || १८ ||

देव्युवाच |

नय मामपि देवेश मन्दरं चारुकन्दरम् |
न रंस्ये ऽहं विना देव त्वया सर्वजगत्पते || १९ ||
ततो देवः प्रहस्यैनामुवाच परमेश्वरः |
अविमुक्तं न मोक्तव्यं कथं त्वं यातुमिच्छसि || २० ||

देव्युवाच |

इह चैव निवत्स्यामि गमिष्यामि च मन्दरम् |
अविमुक्तमिदं स्थानं ततो देव भविष्यति || २१ ||

देव उवाच |

एवमेतद्वरारोहे यथा वदसि पार्वति |
ऐश्वर्यात्सर्वगा हि त्वं यथाहं देवि सर्वगः || २२ ||

सनत्कुमार उवाच |

ततः स भगवान्देवो वृषमारुह्य सर्वगम् |
सोमः सनन्दिः सगणो मन्दरं प्रययौ हरः || २३ ||
स गत्वा भुवनेशानस्तप्यमानं परं तपः |
अपश्यन्मन्दरं तत्र दृष्ट्वा चैनमुवाच ह || २४ ||
वरदो ऽस्मि गिरीशाद्य तपसानेन ते भृशम् |
वरं वृणु यथेष्टं त्वं सर्वं तत्प्रददानि ते || २५ ||

सनत्कुमार उवाच |

स एवमुक्तः शर्वेण दृष्ट्वा त्रिभुवनेश्वरम् |
सोमं सनन्दिनं चैव प्रणम्य वृषवाहनम् || २६ ||
पुनः पुनर्हरं दृष्ट्वा देवीं चैव पुनः पुनः |
पुनः पुनर्गणांश्चैव नन्दिनं च ननाम सः || २७ ||
तं तथा व्याकुलं दृष्ट्वा हर्षजास्राविलेक्षणम् |
वरेण च्छन्दयामास भूय एव हरो गिरिम् || २८ ||

मन्दर उवाच |

भगवन्यदि तुष्टो ऽसि देवदेव जगत्पते |
मयि ते वासमिच्छामि सोमस्य सगणस्य च || २९ ||
इच्छामि देवदेवेश पादस्पर्शेन ते सदा |
पवित्रीकृतमात्मानं सोमेन सगणेन च || ३० ||
नान्यं वरमिहेच्छामि त्वत्तो देव जगद्गुरो |
एष एव वरो मह्यं दीयतां भुवनेश्वर |
एवमस्त्विति तं प्राह मन्दरं वरदस्तदा || ३१ ||

भगवानुवाच |

सनन्दी सह देव्या च निवत्स्यामि सदा त्वयि |
त्वं चापि भूभृतां श्रेष्ठो जरामरणवर्जितः |
अभेद्यश्चैव वज्रेण मत्प्रसादाद्भविष्यसि || ३२ ||
रम्यश्च सर्वभूतानां हेमरत्नविभूषितः |
अप्सरोगणसंकीर्णः सुरसिद्धनिषेवितः || ३३ ||

सनत्कुमार उवाच |

सद्म-म्-एवासृजत्तत्र जम्बूनदमयं महत् |
मनसातिगुणं व्यास न तेनास्ति समं क्वचित् || ३४ ||
न तादृग्ब्रह्मणो ऽप्यस्ति किमुतान्यस्य कस्यचित् |
तेजसा वर्ष्मणा कान्त्या वृष नाम्नेति विश्रुतम् || ३५ ||

व्यास उवाच |

भगवन्ब्रह्मणः सूनो सर्वयोगेश्वरेश्वर |
न मे तृप्तिस्त्वयाख्याते देवदेवस्य चेष्टिते || ३६ ||
अभवज्जलदः पूर्वं वाहनं रुद्रवल्लभम् |
तत्कथं संपरित्यज्य वृषभे मतिमादधे || ३७ ||

सनत्कुमार उवाच |

पुरा वेदः सुतो जज्ञे ब्रह्मणः प्रथमो ऽद्भुतः |
द्वितीयश्चैव यज्ञो ऽभूत्तं च लोके ऽभ्ययुञ्जत || ३८ ||
स लोकाप्यायनकरः प्रयुक्तो ब्रह्मणा स्वयम्|
प्रजा विवर्धयिषता नावर्धयदशेषतः || ३९ ||
आत्मानमथ स ज्ञात्वा नातितेजसमच्युतः |
तताप सुमहद्व्यास तपो यज्ञः सुदुश्चरम् || ४० ||
अथ तुष्टस्तदा देवः शर्वो यज्ञस्य सुव्रत |
उवाच वरदो ऽस्मीति स वव्रे वरदं वरम् || ४१ ||

यज्ञ उवाच |

भगवंल् लोकसिद्ध्यर्थं प्रयुक्तो ऽहं स्वयम्भुवा |
न च मे ऽस्ति तथावीर्यं तन्मे यच्छ नमस्तव || ४२ ||

देव उवाच |

जीमूतो भव लोकानां तव सिद्धिर्भविष्यति |
ततो ऽमृताभिरद्भिस्त्वं लोकान्संवर्धयिष्यसि || ४३ ||

यज्ञ उवाच |

जीमूतत्वं यदि मम लोकसिद्धिकरं शुभम् |
तस्माद्भवन्तं पृष्ठेन वहेयं विद्युतालयः || ४४ ||
यथाहं यज्ञभावे ऽपि वहामि त्वां महाप्रभम् |
तथैव जलदत्वे ऽपि वहेयमहमव्ययम् || ४५ ||

सनत्कुमार उवाच |

एवमस्त्विति संप्रोच्य वाहनत्वे व्यकल्पयत् |
जीमूतं व्यास भगवान्यज्ञमूर्तिमतिप्रभम् || ४६ ||
यदा तु यजतो व्यास दक्षस्य सुमहात्मनः |
शिरश्छिन्नं शरेणाशु यज्ञस्यामिततेजसः |
तदाशिरस्कं तं यज्ञं वाहनत्वादपानुदत् || ४७ ||

व्यास उवाच |

कथं यज्ञं स दक्षस्य भगवानाहनच्छुभम् |
कारणं चात्र किं विप्र येन तं हतवान्प्रभुः || ४८ ||

सनत्कुमार उवाच |

शापः पूर्वं समाख्यातः कारणं मुनिसत्तम |
इदं च शृणु मे भूयो विस्तरेण पुरातनम् || ४९ ||
पुरा हि ब्रह्मणो वक्त्रात्क्षुवतो ऽभिविनिःसृतः |
बद्धगोधाङ्गुलित्रश्च शरी तूणी शरासनी || ५० ||
खड्गी किरीटमाली च कुण्डली कवची तथा |
महोरस्को महोत्साहः पुरुषः काञ्चनप्रभः || ५१ ||
क्षुप इत्येव नाम्ना तं ब्रह्मा स्वयमभाषत |
तमिन्द्रो वरयामास राजानं भुवि लोकपम् || ५२ ||
सो ऽब्रवीद्यदि मे वज्रमायुधं त्वं प्रयच्छसि |
ततः स्यां भुवि राजाहं नान्यथा रोचते मम || ५३ ||

इन्द्र उवाच |

चिन्तितं करमेतत्ते वज्रमेष्यति नान्यथा |
एवं भवतु भद्रं ते भव राजा प्रजाहितः || ५४ ||

सनत्कुमार उवाच |

स एवमुक्तस्तेजस्वी राजा भुवि बभूव ह |
च्यावनिश्च दधीचो ऽस्य सखा समभवत्तदा || ५५ ||
स तेन सह संगम्य सुखासीनो वरासने |
चक्रे कथा विचित्रार्थाः प्रीयमाणः पुनः पुनः || ५६ ||
अथाभवत्तयोर्व्यास रागो जातिकृतः प्रभुः |
क्षत्रं श्रेष्ठं न वा श्रेष्ठं ब्रह्म श्रेष्ठं न वेति च || ५७ ||
क्षुपो ऽब्रवीत्क्षत्रमिति दधीचो ब्रह्म वेति च |
अब्रूतां कारणे चोभे न व्यवर्तत कश्चन || ५८ ||
अथ तीक्ष्णतया चैव तपोधिकतया तथा |
ब्राह्मणत्वस्य चाग्र्यत्वात्तथा दैवकृतेन च || ५९ ||
क्रुद्धो दधीचस्तं व्यास वामहस्तेन मूर्धनि |
आजघान महातेजा वज्रेणाताडयत्स च || ६० ||
वज्रेण स द्विधा छिन्नः शक्रमाह्वयदव्ययः |
सो ऽवदत्त्वं महायोगः शक्तः संधातुमात्मना || ६१ ||
स्वदेहं स तथा श्रुत्वा दधीचो योगमायया |
संधयामास शर्वं च शरणं समपद्यत || ६२ ||
स सुरेश्वरमाराध्य प्राप्यावध्यत्वमुत्तमम् |
वज्रास्थित्वमभेद्यत्वमजरत्वं च शंकरात् |
सर्वभूतानुकम्पित्वं महायोगित्वमेव च || ६३ ||
पुनरागात्क्षुपं द्रष्टुं पुनः सख्यमभूत्तयोः |
रागो जातिकृतो यश्च पूर्ववत्स बभूव ह || ६४ ||
वामपादेन चाप्येनं क्षुपं स समताडयत् |
पुनश्च वज्रमादाय स चैनमहनत्तदा |
न चार्तिं न व्यथां तस्य तद्वज्रमकरोन्मुने || ६५ ||
अवध्यत्वमथो ज्ञात्वा क्षुपस्तस्य महात्मनः |
नारायणं समासाद्य वरार्थं समराधयत् || ६६ ||
वरदो ऽस्मीति तुष्टेन विष्णुना स च चोदितः|
प्रोवाच प्रणतो विष्णुमिदं व्यास महामनाः || ६७ ||

क्षुप उवाच |

दधीचो नाम विप्रर्षिरवध्यो ऽक्षय एव च |
सखा मम हृषीकेश स च मामाह नित्यदा || ६८ ||
बिभेम्यहं न देवस्य राक्षसस्यासुरस्य वा |
पिशाचस्याथ यक्षस्य वयसो मानुषस्य वा |
बिभेमीति यथा ब्रूयात्तथा त्वं कर्तुमर्हसि || ६९ ||
एवमुक्तो नरेशेन स विष्णुर्लोकभावनः |
तथास्त्विति च तं प्रोच्य दधीचस्याश्रमं ययौ || ७० ||
स प्रविश्याश्रमं व्यास दधीचेनाभिपूजितः |
अभिवाद्याञ्जलिं कृत्वा दधीचमिदमब्रवीत् || ७१ ||
भगवन्ब्राह्मणश्रेष्ठ पितामहसमद्युते |
वरमेकं वृणे त्वत्तस्तद्भवान्दातुमर्हसि || ७२ ||
प्रसादितो ऽहं विप्रेन्द्र क्षुपेण शुभकर्मणा |
वरदो ऽस्मीति चाप्युक्तो वरं वव्रे महामुने |
प्रोक्तं त्वया बिभेमीति ब्रूहि तन्मदनुग्रहात् || ७३ ||
अभयं सर्वभूतेभ्यो ब्राह्मणस्य न संशयः |
अवध्यश्चापि सर्वेषां महायोगबलान्वितः |
अभीतस्त्वं तथाप्यद्य मदर्थं वद तत्प्रभो || ७४ ||
दधीचस्त्वेवमुक्तो वै विष्णुना मधुरं तदा |
उवाच न बिभेमीति भूयो भूयो जनार्दनम् |
नाहं वक्ष्ये बिभेमीति नोक्तं नाप्युच्यते मया || ७५ ||

सनत्कुमार उवाच |

एवमुक्तश्चक्रपाणिश्च्यावनिं क्रोधमूर्छितः |
उवाच चक्रमुद्यम्य भयमस्य विदर्शयन् || ७६ ||
एवमेव हि कर्तव्या ये भूत्वा बलवत्तराः |
अस्वामिन इव प्रेम्णा ब्रुवते दुर्बलं जनम् || ७७ ||
न चेद्वक्ष्यसि भीतो ऽस्मीत्येतच्चक्रं ततस्तव |
सुनसं मुखमादाय महीं संप्रापयिष्यति || ७८ ||

च्यावनिरुवाच |

किं वृथा चक्रमुद्यम्य त्वं विष्णो क्लेशमर्छसि |
नाहं चक्रस्य ते गम्यः प्रसादात् त्र्यम्बकस्य तु || ७९ ||
किं तु जिज्ञासया यामि लोकपालशरण्यताम् |
तेषां निष्क्रियतां ज्ञात्वा ततो ध्यास्यामि शंकरम् || ८० ||
एवमुक्त्वा च्यावनिस्तु प्राद्रवद्वरुणं प्रति |
शरणं तं प्रपन्नश्च स ददावभयं प्रभुः || ८१ ||
तत्र विष्णोश्च देवस्य वरुणस्य च धीमतः |
युद्धं समभवद्घोरं बहूनब्दान्विभीषणम् || ८२ ||
निगृहीते तु वरुणे च्यावनिर्यममभ्यगात् |
स चास्याभयदस्तस्मै विष्णुना निर्जितो युधि |
ततो ऽग्निमभ्यगाद्व्यास सो ऽपि तेनाभिनिर्जितः || ८३ ||
ततः स मुष्टिमादाय कुशानां च्यावनिः शुभम् |
स्वमाश्रममुपागम्य तिष्ठ तिष्ठेत्यभाषत || ८४ ||
जिज्ञासार्थं लोकपालानहं शरणमेयिवान् |
अबलास्ते च सर्वे ऽपि मय्येव बलमुत्तमम् || ८५ ||
अद्य गर्वं च दर्पं च बलं यच्च तवाद्भुतम् |
तत्सर्वं नाशयिष्यामि तिष्ठेदानीं जनार्दन || ८६ ||
ततो युद्धं समभवत्तुमुलं लोमहर्षणम् |
नारायणस्य च व्यास च्यावनेश्च महात्मनः || ८७ ||
यान्यस्त्राणि शरा ये च नारायणकरच्युताः |
योगेन तान्दधीचो ऽसौ कुशमुष्टौ न्यवेशयत् || ८८ ||
ततो विष्णोर्योगबलाद्गात्रेभ्यः संप्रजज्ञिरे |
देवा युयुधिरे सर्वे विष्णुना सह दंशिताः || ८९ ||
तानप्यशेषतः सर्वान्सायुधान्सह वाहनैः |
कुशमुष्टौ सुसंक्रुद्धो विष्णुवर्जं न्यवेशयत् || ९० ||
ततः सर्वामरैर्व्यास कुशमुष्टिं प्रवेशितैः |
योगेन तेजसा चैव दधीचेन महात्मना || ९१ ||
विष्णुं संविग्नरूपं तु कोपावेशात्प्रमोहितम् |
तत्रागम्य स्वयं ब्रह्मा तदा वचनमब्रवीत् || ९२ ||
किं तवानेन गोविन्द वृथा यत्नेन सद्द्विजे |
कृतेनास्य दधीचस्य शर्वाल्लब्धवरस्य तु || ९३ ||
किं न वेत्सि यथा ह्येष प्रसादात्परमेश्वरात् |
अवध्यत्वं सुयोगित्वं गुणैश्वर्यत्वमेव च |
वज्रास्थिसारतां चैव लब्धवान्स्वयमीश्वरात् || ९४ ||
न चैवं त्वद्विधा देव ब्राह्मणेषु विकुर्वते |
तस्मादाशु निवर्तस्व क्षमयैनं द्विजोत्तमम् || ९५ ||
ततो ब्रह्मवचः श्रुत्वा स विष्णुर्लोकभावनः |
योगेन तद्बलं ज्ञात्वा दधीचस्य च शंकरात् |
क्षमयामास विप्रेन्द्रं स्वं चावासमथाभ्यगात् || ९६ ||
ब्रह्मापि तमृषिं सान्त्व्य पूजयित्वा च लोकपः |
जगामादर्शनं व्यास सह सर्वामरैस्तदा || ९७ ||
दधीचो ऽपि महातेजास्तपस्तेपे स्वके ऽश्रमे |
महादेवप्रसादार्थमुग्रं वाय्वम्बुभोजनः || ९८ ||
अथास्य युक्तस्य तदा तपसा भास्करद्युतेः |
तुतोष भगवांस्त्र्यक्षस्तुष्टश्चैवाब्रवीदिदम् || ९९ ||

देव उवाच |

च्यावने तपसानेन तव तुष्टो ऽस्मि सुव्रत |
ब्रूहि यत्ते ऽभिलषितं कृतमेव हि तन्मया || १०० ||

दधीच उवाच |

भगवन्यदि तुष्टो ऽसि यदि देयो वरश्च मे |
इच्छामि विष्णुना सार्धं सर्वान्देवांस्त्वया जितान् || १०१ ||

सनत्कुमार उवाच |

ततः प्रहस्य वरदो दधीचमृषिसत्तमम् |
एवमस्त्विति तं प्राह प्रणतार्तिहरो हरः || १०२ ||
तस्मिन्दत्ते तदा तेन त्र्यम्बकेन वरे शुभे |
अमन्यत स्थितं वैरं क्षुपेण सह वै ऋषिः || १०३ ||
ध्यायन्तं तं तथा दृष्ट्वा भगवान्गोवृषध्वजः |
उवाच वरमन्यच्च ब्रूहि विप्र ददानि ते || १०४ ||

दधीच उवाच |

यस्मात्स्थितमिदं वैरं वरदानात्तव प्रभो |
इह तस्मात्तव स्थानं नाम्नैतेन भवत्वज || १०५ ||

देव उवाच |

स्थानेश्वरमिति ख्यातं नाम्नैतत्स्थानमुत्तमम् |
भवितृ क्रोशपर्यन्तं नानापुष्पलताकुलम् || १०६ ||
अत्र यो ऽभ्यर्चयेन्मां तु परं नियममास्थितः |
त्रिरात्रोपोषितः सम्यक्स्नात्वा नद्यां तु मानवः || १०७ ||
ब्राह्मणं भोजयित्वा च चरुं धर्मेण संयुतः |
सर्वपापविनिर्मुक्तो रुद्रलोकमवाप्नुयात् || १०८ ||
स्थाणुतीर्थं च भवितृ तवैव पापनाशनम् |
अश्वमेधफलं ह्यत्र स्नातः प्राप्नोति पुष्कलम् || १०९ ||
अयं चापि वटः श्रीमान्स्थितो ऽहं यत्र साम्प्रतम् |
वरं दातुं मदाख्यातो नाम्ना स्थाणुवटो महान् |
भविष्यति न संदेहः फलं चास्यापि मे शृणु || ११० ||
यो ऽत्र तिष्ठेदहोरात्रं वाग्यतो नियताशनः |
चीर्णं वर्षं भवेत्तेन स्थाणुव्रतमनुत्तमम् || १११ ||
सर्वपापविनिर्मुक्तो गणपः स भवेन्मम |
अकम्पनो नाम महान्महायोगबलान्वितः || ११२ ||
यश्च प्राणान्नियमवान्यमवानथवा पुनः |
परित्यजेत मनुजस्तस्य पुण्यफलं महत् || ११३ ||
सर्वपापविनिर्मुक्तः सर्वबन्धविवर्जितः |
गणेश्वरो नन्दिसमः स मे भवति सर्वगः || ११४ ||
स्थानेश्वरे यस्त्विदमेकरात्रं स्थित्वा क्षपेत्सर्वमशेषतो हि |
स सर्वपापप्रविमुक्तचेता गणेश्वरो मे भवितातिभीमः || ११५ ||
स्कन्दपुराण एकत्रिंशत्तमो ऽध्यायः ||