सनत्कुमार उवाच |

एवं स भगवान्व्यास मेघमुत्सृज्य देवपः |
वृषवाहः समभवद्यथा ते कथितं मया || १ ||

व्यास उवाच |

कथं भगवती देवी कृष्णा गौरत्वमागता |
कारणं तत्र किं चापि एतदिच्छामि वेदितुम् || २ ||

सनत्कुमार उवाच |

आसीनौ मन्दरप्रस्थे उमाकामाङ्गनाशनौ |
रेमतुः प्रमथैः सार्धं नानारूपधरैस्तदा || ३ ||
अथ देवेन तत्रस्था क्रीडता सा कथान्तरे |
कृष्णेत्युक्ता भगवती सा चुकोप मनस्विनी || ४ ||
कुपितां तां महादेवः परिष्वज्य महाद्युतिः |
उवाचासकृदव्यग्रः सान्त्वयन्मधुरं वचः || ५ ||

देव उवाच |

देवि मा क्रोधमनघे कृथा विश्वसृगव्यये |
हास्यं प्रकृतमेतन्मे कृष्णेति समुदाहृतम् || ६ ||
अद्यप्रभृति नानेन वचसाहं शुभानने |
वक्ष्यामि त्वां त्यज क्रोधं तामुवाच पिनाकधृक् || ७ ||

सनत्कुमार उवाच |

तमेवंवादिनं देवं श्रुत्वा गिरिवरात्मजा |
अगमत्परमां तुष्टिमिदं चोवाच सुस्वरम् || ८ ||

देव्युवाच |

त्वं गुरुः सर्वलोकस्य पूज्यो भर्ता ममैव च |
- - - - - - - - - - - - - - - - || ९ ||
इति तेनेष्टवचसा तुष्टो देव्याः पिनाकधृक् |
वरेण च्छन्दयामास तयैषो ऽभ्यर्थितो वरः || १० ||
यदा यदा वदसि मां कृष्णेति वदतां वर |
तदा तदा मे हृदयं विदीर्यत इव प्रभो || ११ ||
एतदर्थमहं पादौ प्रणम्य तव शंकर |
विज्ञापयामि सर्वेश गौरवर्णमनुत्तमम् |
विज्ञापयामि पुत्रश्च यथा मम भवेदिति || १२ ||
यदि तुष्टो ऽसि मे देव यदि देयो वरश्च मे |
तपश्चरितुमिच्छामि तदनुज्ञातुमर्हसि || १३ ||
ततो हरः प्रहस्यैनामुवाच तपसा हि किम् |
तपसा काङ्क्षितं यत्ते तदद्यैव ददानि ते || १४ ||
इत्युक्ता गिरिजा प्राह तप्ते तपसि पुष्कले |
त्वमेव दाता भगवन्वरान्मह्यं यथेप्सितान् || १५ ||
तदा विज्ञापितेनैवं सर्वकार्यार्थदर्शिना |
अनुज्ञाता सती भक्त्या चकार त्रिः प्रदक्षिणम् || १६ ||
चरणौ च नमस्कृत्य शिरसामिततेजसः |
प्रस्थिता वियदुत्पत्य गिरिं गिरिवरात्मजा || १७ ||
सा क्षणादागता देवी हिमवन्तं नगोत्तमम् |
ददर्श ऋषिमुख्यानामाश्रमैरुपशोभितम् || १८ ||
सरो मानसमासाद्य तथा बिन्दुसरश्च तत् |
दिव्यां पाण्डुशिलां चैव गङ्गाप्रभवमेव च || १९ ||
ततो महालयं प्राप्य देवदारुवनं तथा |
अन्यानि च ततो ऽग्र्याणि वनान्यासाद्य सा सती || २० ||
तस्योत्तरेण शैलस्य गत्वा सातिमनोहरम् |
अपश्यच्छिखरं दिव्यमेकमेकान्तमाश्रितम् |
चामीकरमयं दिव्यं सर्वौषधिसमन्वितम् || २१ ||
इन्द्रनीलमहानीलनीलोपलतलैः शुभैः |
वृक्षैर्मणिमयैश्चित्रैः सर्वतः परिसंवृतम् || २२ ||
क्वचिन्मनःशिलाशृङ्गं हरितालोपलं क्वचित् |
क्वचिदञ्जनपुञ्जाभं स्फटिकोपलमेव च |
क्वचिद्धेमोपलं दिव्यं क्वचिच्चित्रोपलं पुनः || २३ ||
सालतालतमालैश्च प्रियालाम्रातकैस्तथा |
अशोकैश्चम्पकैर्लोध्रैः कदम्बाम्रातिमुक्तकैः || २४ ||
नागपुन्नागतिलकैः सुरभीचन्दनैरपि |
धातकीकेतकीभिश्च तथैवोद्दालकैरपि || २५ ||
कदलीभिश्च चित्राभिः खर्जूरैः पनसैरपि |
बकुलैर्नालिकेरैश्च पद्मषण्डैश्च शोभितम् || २६ ||
कपित्थैः खदिरैश्चैव भव्यैः पारावतैरपि |
मृद्वीकामण्डपैश्चैव तथाङ्कोठैः समावृतम् || २७ ||
सदापुष्पफलोपेतैश्चारुचामीकरप्रभैः |
तथा प्रस्रवणैश्चैव नदीभिश्चोपशोभितम् || २८ ||
पक्षिभिर्मधुरालापैः समन्ताच्चाभिनादितम् |
मयूरचातकोपेतं हंसचक्राह्वसंकुलम् |
सारसैः खञ्जरीटैश्च हारीतैश्चाभिनादितम् || २९ ||
जीवंजीवसमाकीर्णं महिषर्क्षसमाकुलम् |
सिंहशार्दूलचरितं शरभेभसमाकुलम् || ३० ||
मेरुमन्दरसंकाशं सर्वपुष्पफलप्रदम् |
रम्यं स्वर्गमिवागम्यं पापानां क्रूरकर्मिणाम् |
श्रियाः स्वलंकृतावासमुद्यानमिव सत्कृतम् || ३१ ||
तत्र केचिन्मधुफला वृक्षाः सर्वत्र कामदाः |
अपरे क्षीरिणो नाम वृक्षास्तत्र मनोरमाः || ३२ ||
अपरे सर्वपुष्पाणि फलानि च महीरुहाः |
पुष्पन्ते च फलन्ते च काञ्चनाश्चापरे द्रुमाः || ३३ ||
फलन्ति भक्ष्याण्यपरे भोजनानि च सर्वदा |
मानुषाण्यथ दिव्यानि षड्रसानि महाद्रुमाः || ३४ ||
वस्त्राण्यन्ये प्रसूयन्ते फलेष्वाभरणानि च |
तथा बहुविधा अन्ये शय्याः स्वास्तरणा द्रुमाः || ३५ ||
अमाक्षिकं मध्वपरे अमृतप्रतिमं नगाः |
भोगांश्च विविधानन्ये तथैवाभरणानि च |
अन्ये स्त्रीः संप्रसूयन्ते मनुष्यांश्च तथापरे || ३६ ||
सर्वा मणिमयी भूमिर्दिव्ये तस्मिञ्छिलोच्चये |
सुगन्धः पवनो वाति नात्यर्थं चोष्णशीतलः || ३७ ||
यावदेव महादेवी तं गिरिं नाभ्यगच्छत |
प्रीत्यर्थं तावदेवासौ देव्या रुद्रेण निर्मितः || ३८ ||
तस्यैव च प्रसादेन नासौ गम्यः शिलोच्चयः |
सर्वदेवनिकायानां भूतानां चैव सर्वशः || ३९ ||
तस्मिन्गिरिवरे देवी तपस्तेपे सुदुश्चरम् |
वार्क्षे दधाना रुचिरे वाससी धर्मसाधने || ४० ||
कदाचित्सा फलाहारा कदाचित्पर्णभोजना |
कदाचिदम्बुभक्षाभूत्कदाचिदनिलाशना || ४१ ||
कदाचिदेकपादेन सूर्यस्याभिमुखी स्थिता |
निगृहीतेन्द्रियग्रामा सा बभूव वरानना || ४२ ||
महादेवनमस्कारा महादेवपरायणा |
महादेवप्रिया देवी पुत्रार्थं च वरार्थिनी || ४३ ||
अजैकपादं रुद्रं च दिण्डिमुण्डेश्वरं तथा |
कापालिनं भारभूतिमषाढिं चैव सानुगम् |
निकुम्भं शतमन्युं च भूतमोहनमेव च || ४४ ||
कालदण्डधरं चैव मृत्युदण्डधरं तथा |
ब्रह्मदण्डधरं चैव घोरचक्रधरं तथा || ४५ ||
एतान्गुह्यान्गणाध्यक्षानदृश्यान्सर्वतोमुखान् |
प्रागेव तस्या रक्षार्थं महादेवो नियुक्तवान् || ४६ ||
उपरिष्टादधस्ताच्च तं गिरिं ते गणेश्वराः |
अदृश्याः सर्वतश्चैव ररक्षुरमितौजसः || ४७ ||
न तस्य गिरिशृङ्गस्य रक्षमाणस्य तैस्तदा |
देवदानवगन्धर्वाः शेकुर्गन्तुमुपान्तिकम् || ४८ ||
प्रागेव स्थापितवती यानि चारुशिलातले |
भूषणानि नदी तेभ्यो जज्ञे पुण्यजलाश्रया || ४९ ||
तामलंकारधारेति विश्रुतां पापनाशनीम् |
अद्यापि पश्यन्ति जनाः सर्वकालजलां शुभाम् || ५० ||
यस्मिन्नेव दिने देवी सा तथातिष्ठदद्रिजा |
तस्मिन्नेव दिने व्यास शार्दूलो ऽपि जगाम ताम् || ५१ ||
महाकायमुखो भीमः पिङ्गलानललोचनः |
नखदंष्ट्रायुधो भीमस्त्रासनः सर्वदेहिनाम् || ५२ ||
गुहामुखाद्विनिःसृत्य व्यजृम्भत महाबलः |
जृम्भतस्तस्य वदनान्निष्पेतुरनलार्चिषः || ५३ ||
ततः स देवीमालोक्य भक्षार्थमुपचक्रमे |
तपसा स्तम्भितस्तस्या एतदेवान्वचिन्तयत् || ५४ ||
नार्येषा दृष्टपूर्वा मे शर्वपार्श्वे सुशोभना |
यादृशं तपसश्चास्या वीर्यं मन्ये न मानुषी || ५५ ||
अथवा नित्यमेवासौ महेश्वरमनुव्रता |
मन्दरे सह देवेन रमते हिमवत्सुता || ५६ ||
तपसा किं तदा वास्या यस्या भर्ता पिनाकधृक् |
तद्रूपिणीयं काप्यन्या तपोनियममास्थिता || ५७ ||
महता तेजसा युक्ता नेयं शक्या मया शुभा |
हन्तुं भक्षार्थमद्येह ययाहं स्तम्भितः स्थितः || ५८ ||
तस्मादेनामुपासिष्ये यावत्कालस्य पर्ययः |
स्वयमेतां मृतां पश्चाद्यथेष्टमबलामहम् |
भक्षयिष्ये बुभुक्षार्तो मुनिः फलमिवाश्रमे || ५९ ||
विचिन्त्यैवं स शार्दूलो देव्यादूरे समास्थितः |
स्तब्धदृक्कर्णलाङ्गूल उपविष्टो निरीक्ष्य ताम् || ६० ||
सापि देव्यूर्ध्वदृष्टिं तं दृष्ट्वा स्थितमसङ्गिनम् |
अनुग्रहकरीं बुद्धिं चक्रे तस्मिन्सदैव हि || ६१ ||

व्यास उवाच |

तपश्चरणसक्तायां देव्यां देवस्त्रिलोचनः |
किमकुर्वत्सुरेशान एतदिच्छामि वेदितुम् || ६२ ||

सनत्कुमार उवाच |

देव्यामदीनात्मतपोरतायां वर्णप्रसादं प्रति भावितायाम् |
पुत्रार्थमासक्तमनोरथायां देवो ऽकरोद्यत्तदिदं शृणुष्व || ६३ ||
देव्यां तपसि सक्तायां भगवान्गोवृषध्वजः |
जगामानुग्रहं कर्तुमुपमन्योर्महात्मनः || ६४ ||
स ऋषिर्मातुलगृहे कदाचित्क्षीरमुत्तमम् |
होमशेषमतिस्वादु पीतवानग्निहोत्रगः || ६५ ||
तत्स्मृत्वा मातरं प्राह देहि मातः पयो मम |
तस्मै पिष्टं ददौ माता तोयेनालोड्य दुःखिता || ६६ ||
क्षीरमित्युपनीतं तं दृष्ट्वा पिष्टं तदा मुनिः |
नैतत्क्षीरमिति प्राह मातरं सा ततो ऽब्रवीत् || ६७ ||
वत्स क्षीरं कुतो ऽस्माकं कुतश्चान्नं तपस्विनाम् |
आराधय महादेवं स ते सर्वं प्रदास्यति || ६८ ||
इत्युक्तः स तदा मात्रा दुःखशोकपरिप्लुतः |
जगाम शरणं देवं सर्वभावेन शंकरम् || ६९ ||
आदित्याभिमुखो भूत्वा पादेनैकेन संयतः |
मनसा चिन्तयन्नित्यं प्रणतार्तिहरं हरम् || ७० ||
सहस्रमेकं वर्षाणां तस्थौ दिव्यं फलाशनः |
द्वितीयं शीर्णपर्णाशी तृतीयं चाम्बुभोजनः || ७१ ||
महादेवपरो भूत्वा चतुर्थं वै जितेन्द्रियः |
तस्थौ सहस्रं वर्षाणामनिलाशन एव सः || ७२ ||
यदा चतुर्थं तत्पूर्णं सहस्रं शरदां मुने |
तुष्टस्तदा ददौ शर्वः शक्ररूपेण दर्शनम् || ७३ ||

शक्र उवाच |

उपमन्यो महाभाग तपस्ते बहु संचितम् |
तुष्टो ऽस्मि ते वरं ब्रूहि यद्यदिच्छसि पुत्रक || ७४ ||

उपमन्युरुवाच |

स्वागतं देवराजस्य त्रैलोक्याधिपतेरिह |
अद्य निष्कल्मषं मन्ये तपश्चीर्णं मया महत् |
यो ऽहं त्रैलोक्यदेवेशमिन्द्रं पश्यामि दिक्पतिम् || ७५ ||
इदं पाद्यमिदं चार्घ्यमिदमासनविष्टरम् |
अयं च मधुपर्कस्ते गृह्यतां सदसत्पते || ७६ ||
किं करोमि तदाख्याहि प्रार्थयस्व महाबल |
कृतमेव हि तद्विद्धि यदि स्यात्सुकरं मया || ७७ ||

शक्र उवाच |

भवतो मे पिता विप्र सखाभूत्परमः पुरा |
तेन स्नेहेन दृष्ट्वाहं भवन्तं तपसि स्थितम् |
क्लिश्यमानमिहायातो ब्रूहि किं ते ददाम्यहम् || ७८ ||

उपमन्युरुवाच |

देवराज्यमपि त्वत्तो नाहं कांक्षे सुरोत्तम |
महादेवमहं भक्तस्तस्मादिच्छाम्यहं वरम् || ७९ ||

शक्र उवाच |

महादेवं न पश्यन्ति सुरापि सदसत्पतिम् |
न तं द्रक्ष्यसि विप्रेन्द्र ब्रूहि यत्ते मनोगतम् || ८० ||
अहं पितुस्ते स्नेहेन इहायातो महाव्रत |
धर्मतो हि सुतो मे त्वं ब्रूहि तस्माद्वरं वरम् || ८१ ||

उपमन्युरुवाच |

कृतं स्वजनकृत्यं ते पूजितो ऽस्मि त्वया प्रभो |
गच्छ नाहमृते रुद्राद्वरं याचे नमस्तव || ८२ ||

सनत्कुमार उवाच |

एवमुक्तः स तेजस्वी शक्ररूपी महेश्वरः |
उवाच तप्स्यसे पश्चात्किं ते रुद्रः करिष्यति || ८३ ||
गच्छामि स्वस्ति ते चास्तु निर्विघ्नस्ते भवत्वयम् |
रुद्रं प्रति समारम्भः स्मरेथास्त्वं हि मां विभो || ८४ ||
गते तस्मिंस्तदा हीन्द्रे रुद्रः स्वं रूपमास्थितः |
तस्यादर्शयदव्यग्र इदं चोवाच सुस्वरम् || ८५ ||

रुद्र उवाच |

उपमन्यो महाभाग पश्य मां विगतज्वरः |
ब्रूहि निश्चिन्त्य मनसा वरं यावद्ददामि ते || ८६ ||

सनत्कुमार उवाच |

ततः स दृष्ट्वा देवेशं शिरसाभिप्रणम्य च |
उवाच प्रणतो वाक्यं मनसा संप्रधारयन् || ८७ ||
भगवन्यदि तुष्टो ऽसि सदासुरगणार्चित |
यद्ब्रवीमि तदीशान मह्यं यच्छ नमो ऽस्तु ते || ८८ ||
द्रव्यं किंचिदनाश्रित्य मानुषं दिव्यमेव वा |
क्षीरोदनं समश्नीयामयाचितमुपस्थितम् || ८९ ||

देव उवाच |

अनाश्रित्येह नैवास्ति कस्यचिद्द्विजसत्तम |
तृणमप्याश्रयं कृत्वा तस्माद्वद महामुने || ९० ||

उपमन्युरुवाच |

नैवाहमाश्रये किंचित्प्रसादाद्भगवंस्तव |
तदर्थश्चायमारम्भस्तत्प्रयच्छ यथार्थितम् || ९१ ||

देव उवाच |

मुने किंचिदनाश्रित्य नास्ति क्षीरोदनं तव |
इत्युक्त्वा तं महादेवस्तत्रैवान्तरधीयत || ९२ ||
अन्तर्धानं ततो गत्वा जिज्ञासार्थं पिनाकधृक् |
ब्रह्मणो रूपमास्थाय भूय एनं ततो ऽब्रवीत् || ९३ ||

ब्रह्मोवाच |

उपमन्यो महाप्रज्ञ सुचीर्णं ते तपः शुभम् |
तुष्टो ऽस्मि ते ब्रूहि वरं प्रयच्छामि तवानघ || ९४ ||

उपमन्युरुवाच |

भगवन्सर्वलोकेश नमस्ते सर्वसृक्प्रभो |
सुचीर्णं मे तपो देव यस्त्वां पश्यामि लोकप || ९५ ||
महेश्वरमहं भक्तस्तदाशीस्तत्परायणः |
तस्माद्वरं वृणे देव त्वत्तो नाहमसंशयम् || ९६ ||

ब्रह्मोवाच |

रुद्रस्ते नाददद्विप्र क्षीरोदनमदुर्लभम् |
स ते ऽन्यत्कुत एवेह दास्यते वरमुत्तमम् || ९७ ||
प्राजापत्यं सुरत्वं वा अमरत्वमथापि वा |
इन्द्रत्वमथ सोमत्वं विष्णुत्वं वा ददामि ते |
लोकपालो भवानस्तु सर्वलोकाभिपूजितः || ९८ ||
ब्रूहि किं ते ददान्यद्य विसृजस्व महेश्वरम् |
नासौ दाता तवेशानस्तृणमप्येकमक्षतम् || ९९ ||

उपमन्युरुवाच |

न गृहीतं प्रभो तेन मम किंचिन्महात्मना |
ईश्वरः सर्वभूतानां न स्वामी तस्य कश्चन || १०० ||
इच्छया कुरुते देवः सर्वकार्याणि कार्यिणाम् |
ददाति यदि लाभो मे न ददाति तथापि च || १०१ ||
बहुना किं प्रलप्तेन तेन दत्तमहं वृणे |
नरकं वा पशुत्वं वा किं पुनर्यदतो ऽन्यथा || १०२ ||
त्वत्तो नेच्छामि विष्णुत्वं न शक्रत्वं पितामह |
गच्छ सर्वसुरेशान मा वृथा क्लेशमाचर || १०३ ||

सनत्कुमार उवाच |

स एवमुक्तो देवेशस्तेन ब्रह्मर्षिणा तदा |
तस्य तत्र पुनर्वाक्यं वरार्थमवदत्प्रभुः || १०४ ||
उपमन्युरपीशाने मनः संधाय निश्चलम् |
तूष्णीं बभूव देवो ऽपि तत्रैवान्तरधीयत || १०५ ||
तस्य तां भावनां ज्ञात्वा पिनाकी स त्रिलोचनः |
स्वमेव रूपमास्थाय दर्शयामास तत्क्षणात् || १०६ ||
त्र्यक्षो जटी विशालाक्षः कुण्डली दीप्तलोचनः |
ज्वालामालाधरः श्रीमान्भुजगाबद्धमेखलः || १०७ ||
सर्पयज्ञोपवीती च व्याघ्रचर्माम्बरच्छदः |
कृष्णाजिनोत्तरीयश्च कमण्डलुधरस्तथा || १०८ ||
दण्डी शूली महाहासो गणपैर्बहुभिर्वृतः |
उवाच पुत्र पुत्रेति तुष्टो ऽस्मि तपसा तव || १०९ ||
अमरो जरया त्यक्तः सर्वदुःखविवर्जितः |
कामरूपधरः श्रीमान्मत्प्रसादाद्भविष्यसि || ११० ||
द्वीपं चेमं गृहाण त्वं मया सृष्टं हि कामगम् |
क्षीरोदेन समुद्रेण सर्वतः परिवारितम् || १११ ||
महायोगबलो भूत्वा सर्वज्ञः प्रियदर्शनः |
भुङ्क्ष्व क्षीरोदनं वत्स बन्धुभिः सहितः सदा || ११२ ||
सप्त पूर्वाणि सर्वाणि कुलानि तव तापस |
इदं चैव कुलं सर्वमनुगृह्णामि सुव्रत || ११३ ||
सर्वे भवन्तु विप्रर्षे य इमे तव बान्धवाः |
मत्प्रसादान्महासत्त्वा नित्यं क्षीरोदवासिनः || ११४ ||

सनत्कुमार उवाच |

स तु तं वरमादाय प्रणम्य शिरसा भवम् |
शिरस्यञ्जलिमाधाय अस्तौषीत्प्रयतात्मवान् || ११५ ||

उपमन्युरुवाच |

नमः सर्वामरेशाय विश्वेशाय नमो नमः |
नमः सर्वार्तिहर्त्रे च नमः शोकहराय च || ११६ ||
नमः पवनवेगाय नमः पवनरूपिणे |
नमः काञ्चनमालाय पद्ममालाय वै नमः || ११७ ||
नमः सुररिपुघ्नाय चण्डवेगाय वै नमः |
नमः पितृसुरेशाय महिषघ्नाय वै नमः || ११८ ||
स्त्रीरूपाय नमस्तुभ्यं सर्वरूपधराय च |
नमः स्कन्दविशाखाय विश्वक्स्रष्ट्रे नमो नमः || ११९ ||
नमो विश्वाय पाशाय नमो ऽचिन्त्याय चैव ह |
त्वं नो गतिश्च श्रेयश्च त्वमेव हृदयं सदा || १२० ||

सनत्कुमार उवाच |

ततस्तं मूर्ध्न्युपाघ्राय समाश्वास्य विसृज्य च |
जगाम भगवान्व्यास सुकेशं प्रति स प्रभुः || १२१ ||
उपमन्युं ज्वलितानलप्रकाशं शतमन्युं तपसा जिगीषमाणम् |
स चकारावनतं हरोग्रमन्युं वरदानेन तदा व्यपेतमन्युम् || १२२ ||
स्कन्दपुराणे चतुस्त्रिंशत्तमो ऽध्यायः ||