34 सिद्धत्वात् । अपरैश्च सर्वैरभावोऽभावव्यवहारश्च साध्यते, तेषां
परोक्षविषयत्वात्124


इति तर्कभाषायां स्वार्थानुमानपरिच्छेदो
द्वितीयः समाप्तः ॥

परार्थानुमानम्


त्रिरूपलिङ्गाख्यानं परार्थानुमानम् । अन्वयव्यतिरेक
पक्षधर्मतासंज्ञकानि त्रीणि रूपाणि येन वचनेन प्रख्याप्यन्ते
तद्बचनमुपचारादनुमानशब्देनोच्यते ॥


तद्द्विविधम् साधर्म्यवद्वैधर्म्यबच्च । साध्यधर्मिदृष्टान्त
धर्मिणोर्हेतुसत्ताकृतं सादृश्यं साधर्म्यम् । तद्यस्यास्ति तत्
साधर्म्यवत् साधनवाक्यम् । साध्यधर्मिदृष्टान्तधर्मिणोर्हेतु
सत्ताकृतं वैसादृश्यं वैधर्म्यम् । तद्यस्..स्ति तद्वैधर्म्यवत्
साधनवाक्यम् । तत्र स्वभावहेतोः साधर्म्यवन्तं प्रयोगं दर्श
यितुं सौत्रान्तिकमतमाश्रित्य भगवता यदुक्तं, संस्कृतं
क्षणिकं सर्वं
इति तद्व्युत्पाद्यते । समेत्य सम्भूय हेतुप्रत्ययैः
कृतं वस्तुजातं संस्कृतम् । क्षणिकमिति उत्पत्तिक्षण एव
सत्त्वात् । सर्वं तावत् घटादिकं वस्तु मुद्गरादिसन्निधौ नाशं
गच्छत् दृश्यते । तत्र येन स्वरूपेण अन्त्यावस्थायां घटादिकं

  1. T. परोक्षविषयत्वात् प्रत्यक्षाविषयत्वात्.