70 र्थसत्, विचारासहत्वात् । स्वभावेन हि युक्तं पारमार्थिक
मुच्यते लोके । न चास्य विचारतः कश्चित्स्वभावो घटते
एको वाऽनेको वा, पूर्वविचारासहत्वात् । यथोक्तम्—

नेष्टं तदपि धीराणां विज्ञानं पारमार्थिकम् ।

एकानेकस्वभावेन वियोगाद्गगनाब्जवत् ॥

इति ॥ कीर्तिपादैरप्युक्तम्—
भावा येन निरूप्यन्ते तद्रूपं नास्ति तत्त्वतः ।

यस्मादेकमनेकं वा रूपं तेषु न विद्यते ॥

इति ॥ तथाऽलङ्कारकारेणाप्युक्तम्—
यदा तु न विकल्पस्य न चान्यस्य प्रमाणता ।

तदा विशीर्यमाणेऽपि सर्वस्मिन् कोऽपराध्यतु ॥

बद्धमुक्तादिभेदोऽपि न चास्ति परमार्थतः ।

भेदो हि नावभात्येव सर्वत्र समदर्शिनाम् ॥

इति ॥ प्रयोगः पुनरेवम्--यदेकानेकस्वभावं न भवति न
तत्परमार्थसत्, यथा व्योमकमलम्, एकानेकस्वभावं च न
भवति विज्ञानमिति व्यापकानुपलब्धिः । न तावदयमसिद्धो
हेतुः । साकारे ज्ञाने बहिरर्थ इव एकानेकस्वभावायोग्यत्वस्य
परिस्फुटत्वात् । यत्र हि लोकस्य बाह्यार्थव्यवहारस्तदेव
साकारवादिनो ज्ञानम् । ततो यत्तस्य बहिर्भावे बाधकं तदे