71 वान्तर्भावेऽपि बाधकम् । न हि स्थूलमेकमनेकं च परमाणु
रूप253मपीष्यते । विज्ञानात्मकानामयमाकारो यद्येकः स्थूलो
यदि वाऽनेकः परमाणुशो भिन्नः उभयथाऽपि बाह्यार्थपक्ष
भाविदूषणमशक्यमुद्धर्तुम् । न हि तद्विज्ञाने बहिर्भावनिबन्धनं
दूषणम्! येन तद्भावेन भवेत् । मूर्तिनिमित्तं बाधकम्;
नामूर्ते विज्ञानात्मनि इत्यपि निस्सारम् । साकारतायां विज्ञान
स्यापि मूर्तत्वात् । अयमेव हि 254देशवितानवानाकारो
मूर्तिरिति ॥


255श्रीमन्महाजगद्धलविहारीय महापण्डितभिक्षुमोक्षाकर
गुप्तविरचितायां तर्कभाषायां परार्थानुमानपरिच्छेदः समाप्तः ॥


तर्कभाषामिमां कृत्वा पुण्य256भासादि यन्मया ।

तेन पुण्येन लोकोऽयं बुद्धत्वमधिगच्छतु ॥

॥ तर्कभाषा समाप्ता ॥

  1. T. मुपपद्यते.

  2. M. देशे वितानवानारानो. Gos. देशचित्तानामाकारो.

  3. M. पण्डितस्थविरमोक्षाकरगुप्तविरचितायां सप्तशतिकायां. तर्कभाषायां परार्थानुमानपरिच्छेदः समाप्तः ॥ Gos. श्रीमद्राजजगद्धलविहारीय महायतिभिक्षु... समाप्तः ॥

  4. M. समासादितम्.