35 विनश्यति तच्चेत् स्वरूपमुत्पन्नमात्रस्य विद्यते तदानीमुत्पादा
नन्तरमेव तेन विनष्टव्यमिति व्यक्तमस्य क्षणिकत्वम् । अथेदृश
एव स्वभावस्तस्य स्वहेतोर्जातः, यत् कियन्तं कालं स्थित्वा
विनश्यतीति । एवं तर्हि मुद्गरादिसन्निधाने च एष एव
तस्य स्वभाव इति पुनरप्यनेन तावन्तमेव कालं स्थातव्यम्,
पुनरप्येवमिति नैव विनश्येदिति । तस्मात् क्षणद्वयस्थायि
त्वेनाप्युत्पत्तौ प्रथमक्षणवद्द्वितीयक्षणेऽपि क्षणद्वयस्थायित्वात्
पुनरपरं क्षणद्वयमवतिष्ठेत । एवं तृतीयेऽपि क्षणे तत्स्वभाव
त्वान्नैव विनश्येदिति । स्यादेतत्, स्थावरमेव तद्वस्तु स्वहेतो
र्जातम्, बलेन विरोधकेन मुद्गरादिना विनाश्यत इति । तद
सत्; कथं पुनरेत125 द्युज्यते, न च तद्विनश्यति स्थावरत्वात्,
विनाशश्च तस्य विरोधिना बलेन क्रियत इति । न ह्येतत्सम्भ
वति, जीवति देवदत्तो मरणं चास्य भवतीति । अथ
विनश्यति, कथं तर्ह्यविनश्वरं तद्वस्तु स्वहेतोर्जातम् ? न हि
म्रियते चामरणधर्मा चेति युज्यते वक्तुम् । तस्मादनश्वरत्वे
कदाचिदपि नाशायोगात्, दृष्टत्वाच्च नाशस्य, नश्वरमेव
तद्वस्तु स्वहेतोरुप126 जायत इत्यङ्गीकुर्मः । तस्मादुत्पन्नमात्रमेव
विनश्यति । तथा च क्षणक्षयित्वं सिद्धं भवति । प्रयोगः
पुन127रेवं कर्तव्यः--यद्यत् विनश्वरस्वरूपं तत्तदनन्तरानवस्थायि
यथा अन्त्यक्षणवर्तिघटस्य स्वरूपम् । विनश्वररूपं च रूपा

  1. Gos. योष्यते.

  2. Gos. जातमङ्गीकर्तव्यम्.

  3. Gos. अयं.