36 दिकमुदयकाल इति स्वभावहेतुः । यदि क्षणक्षयिणो भावाः,
कथं तर्हि स एवायमिति प्रत्यभिज्ञानं स्यात् ? उच्यते—
निरन्तरसदृशापरापरोत्पादादविद्यानुबन्धाच्च पूर्वक्षणविनाश
काल एव तत्सदृशं क्षणान्तरमुदयते । तेनाकारेण वैलक्षण्य
स्याभावादभावेन चाव्यवधानात्128 भेदेऽपि स एवायमित्य
भेदाध्यवसायप्रत्ययः पृथग्जनानां प्रसूयते । अत्यन्तभिन्ने
ष्वपि च लूनपुन 129र्जातकुशकेशादिष्वपि दृष्ट एव स एवाय
मिति प्रत्ययः । तथेहापि किं न सम्भाव्यते ? तस्मात्सर्वं
संस्कृतं क्षणिकमिति सिद्धमेवैतत् निर्विशेषणस्य स्वभावहेतो
रयं प्रयोग इति ॥


तथाऽपरोऽपि निर्विशेषणप्रयोगः--यत्सत् तत्सर्वमनित्यं,
यथा घटः
। सन्तश्चामी प्रमाणप्रतीताः130 । तथाऽपरोऽपि 131वेदस्य
पौरुषेयत्व132साधनाय स्वभावहेतुः । यद्वाक्यं तत्पौरुषेयं, यथा
रथ्यापुरुषवाक्यम् । वाक्यं चेदंअग्निहोत्रं जुहुयात्स्वर्गकाम
इति ॥


सविशेषणप्रयोगो यथा--यद्यदुत्पत्तिमत् तत्सर्वमनित्यं,
यथा घटः । उत्पत्तिमांश्च शब्दः
। अनुत्पन्नेभ्यो व्यावृत्तो
भाव उत्पन्न उच्यते । यदा सैव व्यावृत्तिर्व्यावृत्त्यन्तरव्यवच्छे
देन व्यतिरिक्तोच्यते भावस्योत्पत्तिरिति तदा कल्पितेन भेदेन
स्वभावभूतधर्मेण विशिष्टः स्वभावो हेतुः । तथा भिन्नविशेष

  1. Gos. अत्यन्तोच्छेदे.

  2. Gos. रुत्पन्न.

  3. T. °प्रतीताः सर्वे भावाः

  4. Gos. वेदवाक्यस्य.

  5. T. प्राप्त्यर्थं.