1

प्रत्यक्षपरिच्छेदः

गुरुं प्रणम्य लोकेशं शिशूनामल्पमेधसाम् ।

धर्मकीर्तिमतश्रुत्यै1 तर्कभाषा प्रकाश्यते ॥

इह खलु प्रेक्षापूर्वकारिणोऽर्थिजनास्सर्वपुरुषार्थसिद्धि
निमित्तं प्रमाणमनुसरन्तीति प्रमाणमादौ व्युत्पाद्यते ।


प्रमाणं सम्यग्ज्ञानमपूर्वगोचरम् । प्रमीयतेऽर्थोऽनेनेति
प्रमाणम् । तदेव सम्यग्ज्ञानम्, सन्देहविपर्यासदोषरहितत्वात् ।
अविसंवादकं ज्ञानं लोके सम्यग्ज्ञानमभिधीयते । न च
संशयविपर्यासज्ञानयोरविसंवादकत्वमस्ति । यथा स्थाणुर्वा
पुरुषो वेतिज्ञानस्य, मरीचिकासु वा जलज्ञानस्य । अपूर्वो गोचरो
अस्येत्यपूर्वगोचरम् । गोचरो विषयो घटादिः । तस्मादुत्पन्नं
तदर्थप्रापणयोग्यं ज्ञानं प्रमाणम् ॥


ननु ज्ञानं कर्तृ पुरुषं प्रयोज्यमर्थं कर्मभूतं यदि कदा
चिन्न प्रापयति तत्कथमप्रापकत्वात् प्रमाणं स्यात् ? उच्यते ।
न हि ज्ञानेन पुरुषो गले पादुकान्यायेन बलादर्थे प्रवर्तयि
तव्यः । अपि त्वेवंभूतमिदं वस्तुस्वरूपं नान्यथेत्यनेनाकारेण
निश्चयो जनयितव्यः । स चेत्तेन कृतः, एतावतैवास्य प्रामाण्य

  1. T. Chogs. kyi. grags. pa'i. lugs. mñan. phyir. M. श्रोतुं.