22 *ग्राह्यः । अध्यवसेयस्तु प्रत्यक्षपृष्टभाविनो विकल्पस्य प्रतिभास
मानं सामान्यमेव । तच्च सामान्यं द्विविधं, ऊर्ध्वतालक्षणं
तिर्यग्लक्षणं चेति । तत्रैकस्यामेव घटादिव्यक्तौ सजातीयव्या
वृत्तायामनेकक्षणसमुदायः सामान्यं ऊर्ध्वतालक्षणं साधन
प्रत्यक्षस्य विषयः । विजातीयव्यावृत्तास्त्वनेकव्यक्तयः तिर्य
क्सामान्यं व्याप्तिग्राहकप्रत्यक्षस्य विषयः । अनुमानस्य तु
सामान्यं ग्राह्यं, अध्यवसायस्तु स्वलक्षणमेव । प्रत्यक्षस्य स्वल
क्षणविषयप्रतिपादनेन परोक्ताः षट्पदार्था न विषया इत्युक्तम्*79
यथा--अवयविद्रव्यं, गुणः, कर्म, सामान्यं, विशेषः, समवायश्चेति ।
न चैषां प्रत्यक्षे ज्ञाने प्रतिभासोऽस्ति । न चाप्रतिभासमानो
विषयो युज्यते, अतिप्रसङ्गात् । तथा हि--घटादौ परिदृश्यमाने
पूर्वापरादिभागं विहाय नान्यत्किञ्चिदेकमवयविद्रव्यमुपलभामहे ।
यदाह न्यायपरमेश्वरः—

भागा एव हि भासन्ते सन्निविष्टास्तथा तथा ।

तद्वान्नैव पुनः कश्चिद्विभागः सम्प्रतीयते ॥ इति ।

एवं गुणकर्मादीनां च दूषणं प्रत्येतव्यम् ॥


ननु प्रमितिरूपां क्रियां फलभूतां निप्यादयज्ञानं
प्रमाणमिति प्रसिद्धम् । तत्र काऽसौ प्रमितिः, यां जनयज्
ज्ञानं प्रमाणमिति चेत्, उच्यते--इह नीलादेरर्थात् ज्ञानं द्विरूप

  1. * Missing in Gos.